सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

३४८ दशकुमारचरितम् । [ उत्तरपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF

३४८ दशकुमारचरितम् । [ उत्तरपीठिकायां

नातिस्थूला नातिकृशा नातिह्रस्वा नातिदीर्घा न विकटा मृजावन्तश्च
रक्ततलाङ्गुली यवमत्स्यकमलकलशाद्यनेकपुण्यलेखालाञ्छितौ करौ, सम-
गुल्फसंधी मांसलावशिरालौ चाङ्‍घ्री, जङ्घे चानुपूर्ववृत्ते पीवरोरुग्रस्ते इव
दुरुपलक्ष्ये जानुनी, सकृद्विभक्तश्चतुरस्रः कुकुन्दरविभागशोभी रथाङ्गाका-
रसंस्थितश्च नितम्बभागः, तनुतरमीषन्निम्नं गम्भीरं नाभिमण्डलम्,
(२८) वलित्रयेण चालंकृतमुदरम्, उरोभागव्यापिनावुन्मग्न चूचु-
कौ विशालारम्भशोभिनौ पयोधरौ, धनधान्यपुत्रभूयस्त्वचिह्नलेखालाञ्छि-

अवयवा अङ्गानि । विकटाः कर्कशाः । मृजावन्तः=स्वच्छाः । रक्ततलेति-रक्तं
अरुणं तलं यासां तादृश्योऽङ्गुलयो ययोस्तादृशौ । यवमत्स्येति-यवः शस्यविशेषः
मत्स्यो मीनः कमलमब्जं कलशो घटस्तदाद्यनेकपुण्यलेखाभिः शुभसूचकरे-
खाभिलांञ्छितौ चिह्नितौ । समेति-समौ समानौ गुल्फयोः संधी ययोस्तौ । मांसलौ
पुष्टौ । अशिरालौ शिरारहितौ । अंघ्री चरणौ जंघे जंघाद्वयम् । आनुपूर्ववृत्ते
क्रमशः स्थूले गोपुच्छाकारे । पीवरेति-पीवराभ्यामूरुभ्यां ग्रस्ते आक्रान्ते इव
दुरुपलक्ष्ये दुर्दर्श । तादृशं जानुद्वयमिति शेषः । नितम्बभागः कटिपश्चाद्भागः
सकृद्विभक्तः समविभागेन निमितः चतुरस्रः सर्वतः शोभमानः । तथा कुकुन्दरयोः
नितम्बस्थावर्त्ताकारगर्त्तयोर्विभागेन शोभते एवं शीलः । रथाङ्गस्य चक्रस्याकारेण
संस्थितः संनिवेशितः । तनुतरं सूक्ष्मतरम् । ईषन्निम्नं किञ्चिदवनतम् ।
(२८) वलित्रयेण-त्रिवल्या । अलंकृतं शोभितम् । उरोभागव्यापिनौ-सम-
स्तं वक्षोदेशं व्याप्य वर्त्तमानौ । उन्मग्नचूचुकौ-उद्गतकुचाग्रौ । विशालारम्भशो-

दृष्टि देखकर मैंने विचार किया-‘निश्चय है कि, इस कन्याके अङ्ग न तो मोटे हैं न
दुर्बल हैं । यह न नाटी है न लम्बी है । न कठिन स्वभाववाली ही है । और शरीरका
रंग भी स्वच्छ है । इसके हाथकी अङ्गुलियोंका तलप्रदेश लाल है । इसके हाथमें यव,
मछली, कमल और कलश आदि पुण्य रेखाएँ पड़ी हैं । इसके चरण शिरा रहित हैं
तथा मांसल (पुष्ट) हैं और इसके गुल्फभाग सन्धिहीन एवं समान हैं । इसकी दोनों
जंघें गोपुच्छाकार हैं । सुश्लिष्ट, मोटे मोटे इसके ऊरु हैं । इसके दोनों घुटने दुर्लक्ष्य
हैं । इसका कटिपश्चाद्भाग (नितम्ब भाग) समान भागोंमें विभक्त सब ओर शोभाय-
मान नितम्बस्थित कूपोंसे सुशोभित और चमत्कार रूपमें हैं । कुछ गम्भीर तथा सूक्ष्मतर
इसका नाभिमण्डल है ।
(२८) इसका उदरदेश त्रिवलियोंसे मनोहर है । समस्त वक्षःस्थलको परिव्याप्त
करनेवाले और विस्तीर्णतासे शोभावाले इसके दोनों स्तन हैं । इस कन्याकी लतारूपी

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

CC-0. In Public Domain Digitization by eGangotri.Funding: MIDF
षष्ठोच्छ्वासः ] बालबोधिनोव्याख्यासहितम् । ३४६
ततले स्निग्धोदुरकोमल नखमणीऋज्वनुपूर्ववृत्तताम्रांगुलीसंनतांसदेशे सौ-
कुमार्यवत्यौ निमग्नपर्वसंधी च बाहुलते, तन्वो कम्बुवृत्तबन्धुरा च कंधरा,
वृत्तमध्यविभक्तरागाधरम् असंक्षिप्तचारुचिवुकम् आपूर्णकठिनगण्डमण्ड-
लं सङ्गतानुवक्रनीलस्निग्धभ्रूलतम् अनतिप्रौढतिलकुसुमसदृशनासिकम्--
( २६ ) अत्यसितधवलरक्तत्रिभागभासुरमधुरधीर सञ्चार मन्थरायते-
भिन्नौ-विशालारम्भेणातिविस्तारेण शोभमानौ । पयोधरौ कुचौ । धनधान्येति-
धनं वसुं च धान्यं शस्यं च पुत्राः सन्ततयश्च तेषां यद्भूयस्त्वं बाहुल्यं तस्य सूचि-
का याः चिह्नलेखाः रेखाकाराणि चिह्नानि ताभिर्लाञ्छितं शोभितं तलं तलप्रदेशो
ययोस्तादृशौ, तथा स्निग्धं मसृणमुदरं मध्यभागो येषां तादृशाः कोमला मृदु-
ला नखा मणय इव ययोस्ते, तथा ऋजवः सरलाः अनुपूर्ववृत्ताः क्रमवर्तुलाः
ताम्रा रक्तवर्णा अङ्गुलयो ययोस्ते, तथा सन्नतौ नम्रौ अंसदेशौ स्कन्धौ ययोस्ता-
दृशी, सौकुमार्यवत्यौ मनोहरे तथा निमग्ना ईषदवनताः पर्वाणां सन्धयो ययोस्ते ।
एतानि बाहुलते इत्यस्य विशेषणानि । तन्वी क्षीणा तथा कम्बुवत् शङ्खवत् वृत्ता
वर्तुला बन्धुरा नतोन्नता कन्ंधरा ग्रीवा । वृत्तमध्येत्यादि-वृत्तं वर्तुलं यन्मध्यं
मध्यदेशस्तत्र विभक्तः पृथक्कृतो रागो रक्तिमा यस्मिंस्तादृशोऽधरो यस्मिन्
तादृशम् । एतदारभ्य सर्वमाननकमलविशेषणम् । असंक्षिप्तमनल्पं चारु सुन्दरं
चिबुकं हनुदेशो यत्र तादृशं तथा आपूर्ण सम्यक्पुष्टं कठिनमशिथिलं गण्डमण्डलं
कपोलदेशो यत्र तादृशं तथा संगते परस्परमिलिते अनुवक्रे वक्राकारे नीले
कृष्णवर्णे स्निग्धे मसृणे भ्रूलते यत्र तादृशं तथा अनतिप्रौढं नातिविकसितं यत्ति-
लकुसुमं तत्सदृशी नासिका यन्त्र तथाविधं तथा-
(२९) अत्यसितो गाढकृष्णः धवलः शुभ्रः, रक्तोऽरुणश्चैवंभूता ये त्रयो-
भुजाएँ अवनत कंधेके समीपकी मनोहर सन्धि (जोड़) से निम्न है। जिन भुजाओंमें
सीधी, गोल और लाल रङ्गकी अंगुलियां हैं। जिन अङ्गुलियोंमें चिकने कोमल नख
मणिके समान मालूम पड़ते हैं। धन-धान्य, सन्तानको प्रचुरमात्रामें सूचित करनेवाली
रेखाएँ इसके तलप्रदेश (हस्ततल) में विराजमान हैं। इसकी ग्रीवा क्षीण तथा शंखके
समान आकारवाली है। गोल मध्यदेशमें विभक्त लाल इसके अधर हैं। बहुत सुन्दर
इसकी हनु (चिबुक) है। इसका कपोल प्रदेश अशथिल (कठिन) है। परस्पर
मिली हुई वक्राकार तथा नीली चिकनी इसकी भ्रूलताएं हैं। अविकसित तिलके फूलके
समान इसकी नासिका है।
(२९) अत्यन्त कृष्ण, सफेद और लाल तीन भागोंसे देदीप्यमान मधुर, गम्भीर
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF

३५० दशकुमारचरितम् । [ उत्तरपीठिकायां

क्षणम् इन्दुशकलसुन्दरललाटम् इन्द्रनीलशिलाकाररम्यालकपङ्क्ति द्विगु-
णकुण्डलितम्लाननालीकनालललितलम्बश्रवणपाशयुगलमाननकमलम् ,
अनतिभङ्गुरी बहुलः पर्यन्तेऽप्यकपिलरुचिरायामवानेकैकनिसर्गसमः स्नि-
ग्धनीलो गन्धग्राही च मूर्धजकलापः । सेयमाकृतिर्न व्यभिचरति शीलम्
आसज्जति च मे हृदयमस्यामेव । तत्परीक्ष्यैनामुद्वहेयम् । अविमृश्यका-
रिणां हि नियतमनेकाः पतन्त्यनुशयपरम्पराः' इति ।

भागास्तैर्भासुरे उज्ज्वले मधुरे मनोहरे धीरसंञ्चारे अचञ्चलब्यापारे अत एव मन्थरे
मन्दे आयते दीर्घे ईक्षणे नेत्रे यत्र तथाभूतं तथा इन्दुशकलमर्धचन्द्रस्तद्वत्
सुन्दरं ललाटमलिकं यत्र तादृशं तथा इन्द्रनीलशिला नीलकान्तमणिस्तदाकारा
तत्सदृशी रम्या रमणीया अलकपंक्तिः चूर्णकुन्तलश्रेणिर्यत्र तथाभूतं तथा द्विगुणं
द्विरावृत्तं यथा तथा कुण्डलितेन कुण्डलीकृतेन म्लानेन ईषन्मलिनेन नालीक-
नालेन पद्मवृन्तेन ललितं सुन्दरं लम्बं लम्बमानं श्रवणपाशयोः कर्णपाशयोः
युगलं द्वयं यत्र तादृशमस्या आननकमलम् । अनतिभङ्गुरः नातिकुटिलः ।
बहुलः सान्द्रः । पर्यन्ते प्रान्तभागेऽपि । अकपिलरुचिः अपिङ्गलकान्तिः । आया-
मवान् दैर्घ्ययुक्तः । एकैकेति-एकैकं प्रत्येकं निसर्गेण स्वभावेन समस्तुल्यः तथा
स्निग्धो मसृणो नीलः कृष्णश्च । गन्धग्राही सौगन्ध्ययुक्तः । मूर्धजकलापः केश-
पाशः । सा तादृशी । इयं दृश्यमाना । आकृतिः स्वरूपम् । व्यभिचरति विसं-
वदति विपर्यासयतीत्यर्थः । शीलं स्वभावम् । आकृतेरनुरूपः स्वभावो भविष्यतीति
भावः । आसज्जति-लगति । अस्यां कन्यायाम् । तत्-तस्मात् । परीक्ष्य अशेषतो
विमृश्य । एनां कन्याम् । उद्वहेयम् परिणेष्यामीत्यर्थः । यतः अविमृश्यकारिणां
हठकारिणाम् । नियतमवश्यम् अनुशयपरम्पराः पश्चात्तापाः । पतन्ति भव-
न्तीत्यर्थः ।

और मन्द गतिसे सुशोभित इसके विशाल नेत्र हैं। अर्धचन्द्रके तुल्य इसका ललाट है।
नीलकान्तमणिसे मनोहर इसकी केशश्रेणी है। द्विगुणित कुण्डलीकृत, ईषन्मलिन
कमलोंसे सुशोभित एवं लम्बमान दोनों कानोंसे परिपूर्ण इसका मुखपद्म है। कुछ टेढ़ा
तथा सान्द्र अपिङ्गल कान्तिवान एवं दीर्घ और स्वभावसे ही प्रत्येक स्निग्ध तथा नील
द्युतिवाले और सुगन्धिशाली इसके केशकलाप हैं। ऐसी आकृतिवाली स्वभावसे भी बुरी-
नहीं होती हैं । भली होती है । मेरा हृदय इस कन्यापर आसक्त हो रहा है। अतः इसकी
परीक्षा कर इससे परिणय करना चाहिए । अविचारियोंको पीछे अनेकों तरहके पश्चात्ताप
करने पड़ते हैं ।

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
षष्ठोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३५१
( ३० ) स्निग्धदृष्टिराचष्ट—‘भद्रे, कच्चिदस्ति कौशलं शालिप्रस्थेना-
नेन संपन्नमाहारमस्मानभ्यवहारयितुम्' इति । ततस्तया वृद्धदासी साकू-
तमालोकिता। तस्य हस्तात्प्रस्थमात्रं धान्यमादाय क्वचिदलिन्दोद्देशे सुसि-
क्तसंमृष्टे दत्तपादशौचमुपावेशयत् । सा कन्या तान्गन्धशालीन्संक्षुद्य मा-
त्रया विशोष्यातपे मुहुर्मुहुः परिवर्त्य स्थिरसमायां भूमौ नालीपृष्ठेन मृदु-
मृदु घट्टयन्ती तुषैरखण्डैस्तण्डुलान्पृथक्चकार । जगद च धात्रीम्—'मातः
एभिस्तुषैरर्थिनो भूषणमृजाक्रियाक्षमैः स्वर्णकाराः । तेभ्य इमान्दत्त्वा
(३०) स्निग्धदृष्टिः स्नेहपूर्णनयनः । आचष्ट आख्यातवान् शक्तिकुमार
इति शेषः । भद्रे कल्याणि । कच्चिदिति प्रश्ने । अनेन मत्करस्थेन शालिप्रस्थेन
धान्यराशिना सम्पन्नं सम्पादितमाहारं भोज्यम् अभ्यवहारयितुं भोजयितुं मामिति
शेषः कौशलं नैपुण्यमस्ति किमिति प्रश्नः । ततः प्रश्नानन्तरम् । तया कन्यया ।
साकूतं साभिप्रायम् । आलोकिता दृष्टा । तस्य शक्तिकुमारस्य । आदाय गृहीत्वा ।
अलिन्दोद्देशे-द्वारोपान्तप्रदेशे । सुसिक्तसंमृष्टे-सुसिक्तो जलेनाद्रीकृतः संमृष्टः
शुद्धीकृतस्तादृशे दत्तेति-दत्तमर्पितं पादशौचं पादप्रक्षालनार्थजलं यस्मै तम् ।
तादृशं शक्तिकुमारमुपावेशयत् । उपवेशितवती वृद्धदासीति शेषः । गन्धशालीन्-
गन्धयुक्तान् व्रीहीन् । संक्षुद्य कुट्टयित्वा । मात्रया अंशेन-कियत्परिमाणेनेत्यर्थः ।
विशोष्य नीरसीकृत्य । आतपे सूर्यकिरणे । परिवर्त्य इतस्ततः सञ्चाल्य । स्थिरस-
मायां स्थिरायां कठिनायां समायामबन्धुरायाञ्च । नालीपृष्ठेन मुसलविशेषेण ।
मृदु मृदु मन्दंमन्दम् । घट्टयन्ती मर्द्दयन्ती । अखण्डैः अभग्नैस्तुषैः धान्यत्वग्भिः ।
पृथक् चकार तण्डुलान् सम्पादयामास । धात्रीं तां वृद्धदासीम् । एभिरित्यादि-
भूषणानामलंकाराणां मृजाक्रियायां परिष्करणे क्षमैः समर्थैरेभिस्तुषैः स्वर्ण-
काराः भूषणनिर्मातारः अर्थिनः प्रार्थिनः । अलङ्कारशोधनार्थं स्वर्णकारास्तुषान्
( ३० ) ऐसा सोचकर उस शक्तिकुमार ने प्रेमपूर्ण दृष्टि से उस कन्या से कहा 'हे-
कल्याणि ! मेरे समीप एक प्रस्थ परिमाण धान्यराशि है, क्या आपमें इन धान्यों को
पकाकर मुझ खिला देने का नैपुण्य है ? इस प्रश्न पर उस कन्या ने अपनी वृद्धा उपमाता को
साभिप्राय देखा । तब धात्री ने उस शक्तिकुमार से प्रस्थ परिमाण धान्य ले लिया तथा
अपने द्वार के समीप ( दहलीज ) में एक जगह जल छिड़ककर, एवं उस जगह को पवित्र
बनाकर उस अतिथिको हाथ-पांव धोने के जल को देकर वहीं बैठा दिया । फिर उस
कन्या ने उस सुगन्धित धान्यों को लेकर कूट डाला और थोड़ी देर तक उन्हें धूप में फैलाकर
इधर-उधर चलाकर सुखा डाला । पुनः ओखली में धरकर हल्के हाथों द्वारा मूसल से कूट
Nepal Sanskrit University, Balmeeki Campus, Kathmandu