सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

३६८ दशकुमारचरितम् । [ उत्तरपीठिकायां

३६८ दशकुमारचरितम् । [ उत्तरपीठिकायां
सौन्दर्यविस्मितेन मयैवमालिखिता' इति । स तदैवोन्मनायमानस्तद्दर्श-
नाय परिव्राजोज्जयिनीम् । भार्गवो नाम भूत्वा भिक्षानिभेन तद्गृहं
प्रविश्य तां ददर्श । दृष्ट्वा चात्यारूढमन्मथो निर्गत्य पौरमुख्येभ्यः श्मशा-
नरक्षामयाचत । अलभत च । तत्र लब्धैश्च शवावगुण्ठनपटादिभिः काम-
प्यर्हन्तिकां नाम श्रमणिकामुपासाञ्चक्रे । तन्मुखेन च नितम्बवतीमुपांशु
मन्त्रयामास । सा चैनां निर्भर्त्सयन्ती प्रत्याचचक्षे ।
(४४) श्रमणिकामुखाच्च दुष्करशीलभ्रंशां कुलस्त्रियमुपलभ्य रहसि
दूतिकामशिक्षयत्-'भूयोऽप्युपतिष्ठ सार्थवाहभार्याम् । ब्रूहि चोपह्वरे
वतीति तन्नाम यथार्थमिति भावः । सौन्दर्यविस्मितेन-तत्सौन्दर्यमवलोक्याश्चर्या-
न्वितेन । सः कुलपुत्रः उन्मनायमानः उत्कण्ठितः । तद्दर्शनाय तस्या नितम्बवत्या
दर्शनार्थम् । परिवव्राज जगाम। भार्गवः दैवज्ञः 'भार्गवौ शुक्रदैवज्ञावि'ति वैजयन्ती।
नामेत्यलीके । भिक्षानिभेन-भिक्षाच्छलेन । तद्गृहं नितम्बवतीमन्दिरम् । अत्या-
रूढमन्मथः-प्रवृद्धमदनः । श्मशानरक्षां श्मशानरक्षकताम् । तत्र-श्मशाने । शवे-
ति-शवानां मृतानां यानि अवगुण्ठनपटादीनि शववेष्टनवस्त्रादीनि तैः । श्रमणिकां
बौद्धप्रव्राजिकाम् । उपासांचक्रे सिषेवे । तन्मुखेन-श्रमणिकामुखेन । उपांशु निर्जने ।
मन्त्रयामास-प्रलोभयामास । सा नितम्बवती । एनां श्रमणिकाम् । प्रत्याचचक्षे-
प्रत्याख्यातवती ।
(४४) दुष्करेति-दुष्करोऽशक्यः शीलस्य चारित्रस्य भ्रंशो नाशो यस्या-
म्तादृशीम् । कुलस्त्रियं-कुलवधूम । उपलभ्य ज्ञात्वा । भूयोऽपि पुनरपि । उपतिष्ठ
म आश्चर्य्यान्वित हो गया और यह चित्र मेने चित्रित किया' । वह कलहकण्टक उसी
समय उत्कण्ठित चित्तसे उस नितम्बवतीके दर्शनार्थ उज्जैन चला गया । भार्गव नामक
दैवज्ञ बनकर भिक्षाके बहाने वह नितम्बवतीके घरमें गया और उसको देखा । उसे देखकर
अतिकाम आतुर होकर वह कलहकंटक वहांसे निकल आया और नगरीके मुख्य-मुख्य
लोगोंसे श्मशानरक्षककी नौकरी मांगी । नौकरी प्राप्त भी कर ली । वहां श्मशानपर
मिलनेवाले मृतकोंके कफन आदिसे उसने एक बौद्ध संन्यासिनीको अपने अनुकूल कर
लिया । उसी संन्यासिनीके द्वारा उसने एकान्तमें नितम्बवतीके प्रति सन्देश कहलाया ।
परन्तु उस नितम्बवतीने उस संन्यासिनीको फटकार दिया ।
(४४) उस संन्यासिनीके मुखसे यह जानकर (कि यह् नितम्बवती कुलांगना है
और) कुलांगनाओं द्वारा सुचरित्रका नाश होना कठिन है । फिर से एकान्तमें उसने उस
संन्यासिनी से कहा-'हे संन्यासिनी ! तुम फिर एक बार सार्थवाहकी भार्या नितम्बवतीके

षष्ठोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३६६
संसारदोषदर्शनात्समाधिमास्थाय मुमुक्षमाणो मादृशो जनः कुलवधूनां
शीलपातने घटत इति क्व घटते । एतदपि त्वामप्युदारया समृद्ध्या रूपे-
णातिमानुषेण प्रथमेन वयसोपपन्नां किमितरनारीसुलभं चापलं स्पृष्टं न
वेति परीक्षा कृता । तुष्टास्मि तथैवमदुष्टभावतया । त्वामिदानीमुत्पन्ना-
पत्यां द्रष्टुमिच्छामि । भर्ता तु भवत्याः केनचिद्दुग्रहेणाधिष्ठितः पाण्डुरोग-
दुर्बलो भोगे चासमर्थः स्थितोऽभूत् । न च शक्यं तस्य विघ्नमप्रतिकृत्या
पत्यमस्माल्लब्धुम् । अतः प्रसीद । वृक्षवाटिकामेकाकिनी प्रविश्य मदुप-
नीतस्य कस्यचिन्मन्त्रवादिनश्छन्नमेव हस्ते चरणमर्पयित्वा तदभिमन्त्रि-
गच्छ । सार्थवाहभार्यां नितम्बवतीम् । उपह्वरे-निर्जने । संसारदोषदर्शनात्-संसा-
रासारतावलोकनात् । समाधिं योगम् । आस्थाय-आश्रित्य । मुमुक्षमाणः-मुक्ति-
मिच्छन् । मादृशः-मत्सदृशो मुमुक्षुः । शीलपातने चरित्रभ्रंशने । घटते यतते । क्व
घटते-कथं सम्भवति । एतदपि-यत्तन्मुखेन त्वामकथयत् तदपि । उदारया सम-
धिकया समृद्धया सम्पदा । अतिमानुषेण अलौकिकेन रूपेण सौन्दर्येण ।
प्रथमेन वयसा यौवनेन उपपन्नां युक्ताम् । त्वामपीत्यस्य विशेषणम् । इतरनारी-
सुलभम्-अन्यस्त्रीसदृशम् । चापलं चञ्चलता । अदुष्टभावतया-शोभनस्वभाव-
तया तवेति शेषः । उत्पन्नापत्यां जातसन्तानाम् । ग्रहेणाधिष्ठितः-दुष्टग्रहेणा-
क्रान्तः । पाण्डुरोगेण रोगविशेषेण दुर्बलः शक्तिहीनः । भोगे विषयोपभोगे । तस्य
भर्तुः । विघ्नं ग्रहजनितं दोषम् । अप्रतिकृत्य-प्रतीकारमकृत्वा । अपत्यं सन्ता-
नम् । अस्मात् भर्तृसकाशात् । मदुपनीतस्य मया उपनीतस्य । मन्त्रवादिनः मन्त्र-
ज्ञस्य । छन्नं गुप्तम् । चरणं स्वकीयं पदम् । तदभिमन्त्रितेन-तन्मन्त्रपूतेन चर-
समीप जाओ तथा एकान्त में उससे कहो कि सांसारिक असारताके कारणको
ज्ञातकर मैं समाधि लगाकर मुक्तिकी इच्छा कर रही हूँ । क्या मेरी जैसी मुक्तिकी
इच्छुकाएं संन्यासिनियां कुलांगनाओंके सुचरित्रको नष्ट करनेका उपाय कर सकती हैं !
यह सम्भव कैसे हो सकता है ? मैंने यह जाननेकी चेष्टारूपमें तुम्हारी परीक्षा की थी
कि तुम्हारी नयी जवानीकी अवस्था है और तुम अलौकिक सुन्दरी हो, खूब पैसेवाली हो,
अतः तुममें अन्य अंगनाओंकी तरह चञ्चलता भी है कि नहीं । परन्तु यह जानकर
परम प्रसन्न हूँ कि तुममें असतीत्वके दुर्गुण नहीं हैं । अब मैं तुम्हें सन्तानवती देखना
चाहती हूँ । तुम्हारे पति किसी दुष्टग्रहसे आक्रान्त हैं । पाण्डुरोगसे शक्तिहीन होकर
विषय करनेमें असमर्थ हैं । अतः अपने पतिके रोगको दूर किये बिना या ग्रहदोषका
निवारण किये बिना आपके पतिसे आपका सन्तान नहीं हो सकती है । अतः प्रसन्न हो ।
वृक्षवाटिका में अकेली चलो और मेरेद्वारा बुलाये हुए एक मन्त्रशास्त्रीके हाथमें गुप्त रूपसे
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

तेन प्रणयकुपिता नाम भूत्वा भर्तारमुरसि प्रहर्तुमर्हसि उपर्यसावुत्तम-
धातुपुष्टिमूर्जितापत्योत्पादनक्षमामासादयिष्यति । अनुवर्तिष्यते देवीमि-
वात्रभवतीम् । नात्र शङ्का कार्या' इति ।
(४५) सा तथोक्ता व्यक्तमभ्युपेष्यति नक्तं मां वृक्षवाटिकां प्रवेश्य
तामपि प्रवेशयिष्यसि तावतैव त्वयाहमनुगृहीतो भवेयम्' इति । सा
तथैवोपाग्राहितवती । सोऽतिप्रीतस्तस्यामेव क्षपायां वृक्षवाटिकायां गतो
नितम्बवतीं निर्ग्रन्थिकाप्रयत्नेनोपनीतां पादे परामृशन्निव हेमन्नूपुरमेकमा-
णेन । प्रणयकुपिता-मानिनीव । नामेत्यलीकसम्भावनायाम् । उपरि तदन-
न्तरम् । असौ तव पतिः । उत्तमधातुपुष्टिं-उत्तमस्योत्कृष्टस्य धातोः शुक्रस्य पुष्टिं
वृद्धिम् । उर्जितेति-उर्जितस्य बलवतः अपत्यस्य सन्ततेरुत्पादने जनने क्षमां
समर्थाम् । धातुपुष्टिमित्यस्य विशेषणम् । आसादयिष्यति प्राप्स्यति । अनुवर्त्ति-
ष्यते अनुसरिष्यति त्वदासक्तो भविष्यति तव पतिरिति शेषः । अत्रभवतीं त्वा-
मित्यर्थः । शङ्का संशयः ।
(४५) सा नितम्बवती । तथोक्ता श्रमणिकया । तथा कथिता । व्यक्तं
असन्दिग्धम् । अभ्युपेष्यति-स्वीकरिष्यति-तथा कर्तुमिति शेषः । वृक्षवाटिकां
गृहोद्यानम् । प्रवेश्य प्रवेशं कारयित्वा । ताम् नितम्बवतीम् । तावता एतावता
कर्मणा । सा श्रमणिका । उपग्राहितवती-नितम्बवतीं स्वीकारयामास । स कलह-
कण्टकः । निर्ग्रन्थिकाप्रयत्नेन-श्रमणिकाचेष्टया । निर्ग्रन्थिका बौद्धभिक्षुकी । उप-
नीताम् उपस्थापिताम् । पादे नितम्बवत्याश्चरणे । परामृशन् हस्तं चालयन् ।
अपने चरणोंको अर्पित कर देना । उसके द्वारा अभिमन्त्रित होकर तुम अपने पतिके
ऊपर मान करके बैठ जाना । और पतिके द्वारा मान निवारणपर उसके वक्षःस्थलमें
एक लात मारना । तदनन्तर तुम्हारा पति उत्तम धातुपुष्टिको प्राप्त कर लेगा और बलवती
सन्तान उत्पन्न करनेकी शक्तिवाला हो जायगा । तुम्हारा पति तुम्हें देवीकी तरह
मानेगा। इसमें शंका मत करो।'
(४५) ऐसा कहनेपर वह नितम्बवती निःसन्देह प्रक्रियाको स्वीकार कर लेगी
तब आप (संन्यासिनी) रातमें मुझे उस वृक्षवाटिकामें प्रवेशित कराकर फिर उसे भी
प्रवेशित करा देना । आपके द्वारा यह कार्य होनेसे मैं आपका अति आभारी रहूँगा ।
उस संन्यासिनीने उसी तरहसे उस नितम्बवतीको राजी कर लिया । वह उसी रातमें
प्रमुदित होकर वृक्षवाटिकामें गया । संन्यासिनीके प्रयत्न से आयी हुई नितम्बवतीके
चरणपर हाथ लगाते हुए उसने एक सुवर्णका नूपुर (पैरका भूषण) खींच लिया और

षष्ठोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३०१
क्षिप्य छुरिकयोरुमूले किंचिदालिख्य द्रुततरमपासरत् । सा तु सान्द्रत्रासा
स्वमेव दुर्णयं गर्हमाणा जिघांसन्तीव श्रमणिकां तद्व्रणं भवनदीर्घिकायां
प्रक्षाल्य दत्त्वा पटबन्धनं सामयापदेशापरं चापनीय नूपुरं शयनपरा
त्रिचतुराणि दिनान्येकान्ते निन्ये । स धूर्तः 'विक्रेष्ये' इति तेन नूपुरेण
तमनन्तकीर्तिमुपाससाद । स दृष्ट्वा 'मम गृहिण्या एवैष नूपुरः, कथम-
यमुपलब्धस्त्वया' इति तमब्रुवाणं निर्बन्धेन पप्रच्छ ।
( ४६ ) स तु 'वणिग्ग्रामस्याग्रे वक्ष्यामि' इति स्थितोऽभूत् । पुनरसौ

आच्छिद्य अवतार्य । छुरिकया शस्त्रिकया । आलिख्य क्षतं कृत्वा । अपासरत्
पलायिष्ट । सा नितम्बवती । सान्द्रत्रासा अतिभीता । स्वं निजम् । दुर्णयं अनु-
चिताचारम् । गर्हमाणा निन्दन्ती-कथं मया श्रमणिकाविश्वासेन एवं कृतमिति
भावः । जिघांसन्तीव हन्तुमिच्छन्तीव । तद्व्रणं तत्क्षतम् । भवनदीर्घिकायां गृहा-
न्तर्गतजलाशये । पटबन्धनं-पट्टिकाम् । सामयापदेशा-सामया सरोगा इति
अपदेशः छलं यस्याः सा । पादे कश्चन रोगः सञ्जात इति कपटमाश्रित्येति भावः ।
अपरं अन्यचरणस्थितं नूपुरमपि । अपनीय-अपसार्य । शयनपरा-शयित्वैव । निन्ये
यापयामास । स धूर्त्तः कलहकण्टकः । विक्रेष्ये-नूपुरविक्रयं करिष्यामीति कथय-
न्नित्यर्थः । अनन्तकीर्त्तिं नितम्बवतीभर्त्तारम् । उपाससाद्-तत्समीपं जगाम ।
सः अनन्तकीर्त्तिः । उपलब्धः प्राप्तः । तं कलहकण्टकम् । अब्रुवाणं नूपुरप्राप्ति-
वृत्तान्तमकथयन्तम् । निर्बन्धेन-आग्रहातिशयेन ।
( ४६ ) स कलहकण्टकः । वणिग्ग्रामस्य-वणिक्समुदायस्य । अग्रे पुरतः ।

छूरीसे उसको जाँघमें हल्का प्रहारकर भाग गया । जांघमें प्रहारके पश्चात् वह नितम्बवती
अतिभयान्वित हुई और वह अपने अनुचित आचारकी निन्दा करती हुई तथा उस
संन्यासिनीको मारने की इच्छा करती हुई ( घर ) लौटी । ( घर आकर ) उसने अपने
घावको बावलीमें धोया तथा पट्टी बाँधी । बीमारीका बहाना कर दूसरे नूपुरको दूर
करके तीन-चार दिन एकान्तमें पड़ी रही । वह धूर्त्त कलहकंटक 'मैं नूपुरको बेचता
हूँ' ऐसा कहते हुए उस अनन्तकीर्तिके समीप उपस्थित हुआ । उसने देखकर कि
'यह नूपुर तो मेरी पत्नीका ही है, इसे इसने कैसे प्राप्त किया ?' ऐसा सोचकर उस
कलहकंटकको बुलाकर आग्रहसे उससे नूपुरप्राप्तिका वृत्तान्त पूछा ।
( ४६ ) उसने उत्तर दिया कि 'मैं वणिक्समूहके समक्ष इस वृत्तान्तको कहूंगा ।'
फिर उस अनन्तकीर्तिने अपनी पत्नीसे दोनों नूपुरोंको भेजनेके लिये सन्देश भेजा ।