दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
३८८ दशकुमारचरितम् । [ उत्तरपीठिकायां
३८८ दशकुमारचरितम् । [ उत्तरपीठिकायां
दस्रकरालितेक्षणा निजशेखरकेसराग्रसंलग्नषट्चरणगणरणितसंशयित-
कलगिरः शनैरकथयन्—'आर्य, यदत्यादित्यतेजसस्त एषा नयनलक्ष्यतां
गता, ततः कृतान्तेन न गृहीता । दत्ता चेयं चित्तजेन गरीयसा साक्षीकृत्य
रागानलम् । तदनेनाश्चर्यरत्नेन नलिनाक्षस्य ते रत्नशैलशिलातलस्थिरं
रागतरलेनालंक्रियतां हृदयम् । अस्याश्चरितार्थं स्तनतटं गाढालिङ्गनैः
यावत् । तथा क्षरदस्रेति-क्षरता निःसरता अस्रेण अश्रुणा कराळिते व्याप्ते ईक्षणे
नेत्रे यासां ताः । तथा निजशेखरेति-निजशेखरे स्वशिरोभूषणे यानि केसराणि
वकुलपुष्पाणि तेषामग्रे पुरोभागे संलग्नानां स्थितानां षट्चरणानां भ्रमराणां
गणस्य यद् रणितं गुञ्जितं तेन संशयितः भ्रमरगुञ्जितं वा कण्ठस्वरो वेति सञ्जा-
तसंदेहा कला मधुरा गीर्वाग् यासां ताः । शनैर्मन्दं मन्दम् । यद् यतः । अत्यादि-
त्यतेजसः-आदित्यमतिक्रान्तमत्यादित्यं तादृशं तेजो यस्य तस्य विजितसौर-
प्रतापरयेत्यर्थः । ते तव एषा अस्मत्सखी नयनलक्ष्यतां दृष्टिगोचरताम् । ततः
तस्मादेव कारणात् कृतान्तेन मृत्युना न गृहीता । त्वद्दर्शनादेव कृतान्तेन त्यक्तेति
भावः । दत्ता तुभ्यमिति शेषः । गरीयसा अतिगुरुणा चित्तजेन कामेन रागानलं
प्रेमाग्निं साक्षीकृत्य दत्तेति सम्बध्यते । तदनेनेति-तत्तस्मात् अनेन रागतरलेन
प्रेमविह्वलेन कनकलेखारूपेण आश्चर्यरत्नेन श्रेष्ठमणिना नलिनाक्षस्य कमलनयनस्य
ते रत्नशैलस्य सुमेरोः शिलातलवत् पाषाणपट्टवत् स्थिरं सुदृढं हृदयं वक्षःस्थलं
अलंक्रियतां भूष्यताम् । यथा कौस्तुभमणिविष्णोर्वक्षोऽलंकरोति तथेयमपि तव
हृदयमलंकरोतु इति भावः । अस्या इति-सदृशतरस्य योग्यतरस्य सहचरस्य दयि-
तस्य तव गाढालिङ्गनैर्निर्दयाश्लेषैः अस्याः कनकलेखायाः स्तनतटं वक्षःस्थलं
ले आयीं । आनेके अनन्तर उन सखियोंने अपने शिरोंको मेरे चरणोंपर धर कर
प्रणाम करने और आँखोंसे अश्रुपात करने लगीं । अपने शिरोभूषणोंके ऊपर लगे
हुए पुष्पोंके परागोंपर गुञ्जायमान भ्रमरोंकी अस्पष्ट मधुर ध्वनिसे सन्दिग्धसी मधुर
वाणी धीरे-धीरे बोलीं-'हे आर्य ! यह मेरी सखी, भगवान् सूर्यके तेजको भी जीतन-
वालेसे, आपके नेत्रोंकी लक्ष्यभूता हुई है—आप द्वारा देखी गयी है । इसी हेतुसे यमराजने
भी इसे नहीं ग्रहण किया-क्योंकि वह सूर्य पुत्र है और आप सूर्यको जीतनेवाले तेजको
धारण किये हुए हैं । अतिबलशाली कामदेवने इस राजपुत्रीको रागरूपी अग्निको
साक्षी बनाकर, आपके हाथोंमें समर्पित कर दिया है । अतः प्रेमसे विह्वल इस कनक-
लेखारूपी श्रेष्ठमणिद्वारा आप ऐसे कमलनेत्रका सुमेरु पर्वतके प्रस्तरके समान सुदृढ़
हृदय अलंकृत किया जाय । आप ऐसे योग्यतर प्रीतमकेद्वारा इस कनकलेखाका कुच-
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
सप्तमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३८६
सहशतस्य सहचरस्य च' इति । ततः सखीजनेनातिदक्षिणेन दृढतरी-
कृतस्नेहनिगडस्तया संनताङ्ग्या संगत्यारंसि ।
( ६ ) अथ कदाचिदायासितजायारहितचेतसि, लालसालिलङ्घ-
नम्लानघनकेसरे, राजदरण्यस्थलीललाटलीलायिततिलके, ललितानङ्ग-
राजाङ्गीकृतनिन्निद्रकर्णिकारकाञ्चनच्छत्रे, दक्षिणदहनसारथिरयाहृतसह-
कारचञ्चरीककलिके, कालाण्डजकण्ठरागरक्तरक्ताधरारतिरणाग्रसंनाह-
चरितार्थं कृतार्थं जायतामिति शेषः । तत इति—अतिदक्षिणेन अतिनिपुणेन अति-
सरलेन वा सखीजनेन सहचरीवृन्देन दृढतरीकृतः सुश्लिष्टीकृतः स्नेहनिगडः प्रेम-
पाशो यस्यैवं भूतोऽहं सन्नतांग्या कोमलशरीरया तया कनकलेखया सह संगत्य
मिलित्वा अरंसि क्रीडितवान् ।
( ९ ) अथेति—अथ तया सह संगत्यनन्तरम् कदाचित् कस्मिन्नपि काले । तमेव
कालं विशिनष्टि—आयासितेति । आयासितानि खेदितानि जायारहितानां भार्या-
वियुक्तानां चेतांसि हृदयानि यत्र तादृशे तथा लालसाः मधुलोलुपा ये अलयो
भ्रमरास्तेषां लंघनेन विदलनेन म्लानाः क्लान्ताः घनाः निबिडाः केसराः पुंना-
गवृक्षा यत्र तादृशि तथा राजत् शोभमानं अरण्यस्थल्या वनभूमिरूपाया नायि-
कायाः ललाटे भाले लीलायितं विलासवदाचरितं तिलकं तिलकुसुमं यत्र तादृशे
तथा ललितेन सुन्दरेण अनङ्ग एव राजा अनङ्गराजस्तेन अङ्गीकृतं स्वीकृतं धृत-
मिति यावत् निन्निद्रो विकसितः कर्णिकारो वृक्षविशेष एव काञ्चनच्छत्रं हेमातपत्रं
यत्र तादृशे तथा दक्षिणो मलयपर्वतादागतो यो दहनसारथिरग्निसहायः अनिल
इत्यर्थस्तस्य रयेण वेगेन आहृता आनीता उत्पादिताश्च सहकारेषु आम्रतरुषु
चञ्चरीका भ्रमराः कलिकाः कोरकाश्च यत्र तादृशि तथा कालाण्डजाः कोकिला-
प्रान्त प्रगाढ़तासे आलिंगित किया जाय ।' तत्पश्चात् अति निपुण अथवा अति सरला
सहचरियोंकेद्वारा मैं प्रेमपरिवद्ध किया गया । एवं प्रेमपाशमें सम्बद्ध होकर मैंने उस
कृशांगीसे लिपटकर खूब रमण किया ।
( ९ ) रमण करते हुए कुछ समय बीतनेके पश्चात्—रमणीहीन पुरुषोंके चित्तोंको
क्लेशित करनेवाला, मधुलोलुपभ्रमरों द्वारा निविड़ पुंनाग वृक्षोंको क्लान्त करानेवाला,
शोभायमान वनभूमिरूपा नायिकाके भालमें विलाससे तिलकुसुम धारण करानेवाला,
सुन्दर कामदेव रूपी राजाद्वारा स्वीकृत विकसित कर्णिकारवृक्षरूपी स्वर्णछत्रवाला,
मलयपर्वतसे आनेवाले अग्निके सहायक पवनवेग द्वारा उत्पादित आमकी कलियोंपर
विराजमान भ्रमरोंवाला, कोयलोंकी मधुर कूक ( वाणी ) से अनुरागवाली रक्ताधरोष्ठियोंके
रतिसंग्रामके प्रथम प्रयास में अग्रसर स्वभाववाला, अप्रगल्भ कन्याओके हृदयोंमें प्रेम
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
३६० दशकुमारचरितम् । [ उत्तरपीठिकायां
शालिनि, शालीनकन्यकान्तःकरणसंक्रान्तरागलङ्घितलज्जे, दर्दुरगिरितट-
चन्दनाश्लेषशीतलानिलाचार्यदत्तनानालता नृत्यलीले काले, कलिङ्गराजः
सहाङ्गनाजनेन सह च तनयया सकलेन च नगरजनेन दश त्रीणि च
दिनानि दिनकरकिरणजालालङ्घनीये, रणदलिसङ्घलङ्घितनतलताग्र-
किसलयालीढ सैकततटे, तरलतरङ्गशीकरासारसङ्गशीतले सागरतीरकानने
क्रीडारसजातासक्तिरासीत् ।
स्तेषां कण्ठरागेण मधुरस्वरेण रक्तानां कान्तं प्रति अनुरागवतीनां रक्ताधराणां
शोणदशनच्छदानां कामिनीनां रतिरेव रणः सुरतयुद्धं तस्य अग्रसंनाहेन प्रथमो-
द्यमेन शालते शोभते तस्मिन् । तथा शालीनानामप्रगल्भानां कन्यकानां अन्तः-
करणेषु हृदयेषु संक्रान्तेन समुदितेन रागेण प्रेम्णा लंघिता अतिक्रान्ता लज्जा यत्र
तादृशे तथा दर्दुरगिरेः तदाख्यपर्वतस्य तटे ये चन्दनाश्चन्दनवृक्षास्तेषामाश्लेषेण
सम्पर्केण शीतलो योऽनिलः स एवाचार्यः शिक्षागुरुस्तेन दत्ता अर्पिता नानाल-
ताभ्यो नृत्यलीला यत्र तादृशे काले समये वसन्ते इति शेषः । कलिङ्गराजः कर्द्दन-
भूपतिः । तनयया दुहित्रा कनकलेखयेति यावत् । दश त्रीणि च दिनानि त्रयो-
दशदिनानि । दिनकरेति-दिनकरस्य सूर्यस्य किरणजालेन मयूखमण्डलेन अलं-
घनीये अनतिक्रमणीये—सागरतीरकानने इत्यस्य विशेषणम् । काननं घनसन्नि-
विष्टैः पादपैस्तथा आवृतं यथा सूर्यकिरणानामपि तत्र प्रवेशो न भवतीत्यर्थः ।
तथा रणदलीति-रणन्तो गुञ्जन्तो ये अलयो भ्रमरास्तेषां सङ्घेन समूहेन
लङ्घिता-आक्रान्ता अतएव नता नम्रीभूता या लताः व्रतत्यस्तासां अग्रकिसलयैः
पल्लवाग्रैः आलीढं व्याप्तं सैकततटं सिकतामयस्थानं यत्र तथाभूते । तथैव
तरलेति-तरलतरङ्गाणां वायुवशाच्चञ्चललहरीणां शीकरासारस्य जलकणवर्षणस्य
संगेन सम्पर्केण शीतले एवंभूते सागरतीरकानने समुद्रतटस्थवने । क्रीडेति-स
राजा कर्द्दनः क्रीडायां विहारे यो रसोऽनुरागस्तत्र जाता समुत्पन्ना आसक्तिरावेशो
यस्य तादृश आसीत् ।
उत्पन्न करके उन्हें लज्जा रहित बनानेवाला, दर्दुर नामक पर्वतके तटमे ( पासमें ) लगे
हुए चन्दनके पेड़ों से आश्लिष्ट होकर शीतल पवनरूपी आचार्य ( शिक्षक ) द्वारा नाना
लताओंको नृत्यलीला दिलानेवाला वसन्तका समय आ गया । तब कलिङ्गराज अपनी
अंगनाओं, पुत्री, नगरनिवासियोंके साथ समुद्रके तीरवाले आरामबागमें विहारकी
इच्छामें वशीभूत होकर गये—वह आरामबाग वहाँकी बालुकामयी भूमिपर लताओंके
पल्लवोंसे आच्छादित कर लिया गया था और वे लताएं भी गुंजायमान भ्रमर-
समूहोंके आरोहणसे झुकी हुई थीं । उस भूमिपर चंचलायमान लहरों (तरंगों) के
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
सप्तमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३६१
(१०) अथ संततगीतसंगीतसंगताङ्गनासहस्रशृङ्गारहेलानिरर्गला-
नङ्गसंघर्षहर्षितश्च । रागतृष्णैकतन्त्रस्तत्र रन्ध्र आन्ध्रनाथेन जयसिंहेन
सलिलतरणसाधनानीतेनानेकसंख्येनानीकेन द्रागागत्यागृह्यत सकलत्रः ।
सा चानीयत त्रास्तरलाक्षी दयिता नः सह सखीजनेन कनकलेखा ।
तदाहं दाहेनानङ्गदहनजनितेनान्तरिताहारचिन्तश्चिन्तयन्दयितां गलित-
गात्रकान्तिरित्धतर्कयम्—'गता सा कलिङ्गराजतनया जनित्रा जनयित्र्या
(१०) सन्ततेति—सन्ततगीतेषु निरन्तरप्रवृत्तेषु सङ्गीतेषु गानेषु संगतानां
मिलितानामङ्गनानां कामिनीनां सहस्रस्य शृङ्गारहेलया निधुवनलीलसा निर-
र्गलः अप्रतिहतो यः अनङ्गसङ्घर्षः कामोद्रेकस्तेन हर्षितः तथा रागतृष्णयोः अनु-
रागभोगेच्छयोः एकतन्त्रः पराधीनः स राजा कर्दण इति शेषः । तत्र तस्मिन्
रन्ध्रे अवकाशे । आन्ध्रनाथेन आन्ध्रदेशाधिपेन । सलिलतरेति—सलिलतरणसा-
धनं नौकारूपं तेन आनीतेन तद्देशं प्रापितेन अनेकसंख्येय बहुना अनीकेन सैन्येन
द्राग् झटिति आगत्य तत्रैव सागरतीरवने इति शेषः । अगृह्यत गृहीतोऽभवत् सक-
लत्रः सपरिवारः । सा च कनकलेखाऽपि । अनीयत जयसिंहेन स्वनगरं नीता ।
त्रास्तरलाक्षी भयचञ्चलनयना । दयिता-वल्लभा नः अस्माकम् । तदाहमित्यादि-
तदा अहं मन्त्रगुप्त इत्यर्थः अनङ्गदहनजनितेन—मदनानलोत्पादितेन दाहेन तापेन
अन्तरिता अवगता आहारचिन्ता यस्य सः गलितगात्रकान्तिः भ्रष्टदेहशोभः ।
इति-वक्ष्यमाणप्रकारम् । अतर्कयम् व्यचारयम् । सा कनकलेखा । जनित्रा पित्रा ।
छोटे छोटे विन्दु पवनके झोकोंसे आ रहे थे जिससे वह भूमि अति शीतल थी ।
(१०) आरामबागमें पहुंचनेपर-निरन्तर संगीत और गानमें प्रवृत्त सहस्र
रमणियोंकी निधुवनलीलासे अप्रतिहत कामोद्रेकसे हर्षित होकर तथा अनुराग और
भोगेच्छायुक्त होकर पराधीन (विलासीसा पराधीन) हो रहा था उसी कालमें आंध्र-
देशाधिपति जयसिंह, नावोंद्वारा अनेक सैन्यदलके साथ वहां आया और उसने शीघ्रतासे
सागर तीरवाले बागमें विहार करनेवाले उस राजाको स्त्रियोंके सहित पकड़ लिया ।
वह भयसे चञ्चलनयनी मेरी प्राणप्रिया कनकलेखा भी सखियोंके सहित उस राजा
जयसिंह द्वारा उसके यहां ले जायी गयी । तब मैं (मन्त्रगुप्त) भी कामदेवरूपी आगसे
उत्पन्न दाहसे दग्ध होकर भूख-प्यासकी चिन्ता त्यागकर उसी प्यारीकी चिन्तामें
लीन हो गया । चिन्ताग्रस्त होनेसे क्षीणकान्तिवाला होकर मैने विचार किया—'वह
मेरी प्यारी कनकलेखा अपने माता-पिताके साथ शत्रुके हाथमें चली गयी। वह आंध्रराज
(आंध्रेश) अवश्य उसे अपने वशमें लानेकी कोशिश करेगा । वह कन्या इस बातको