दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
२२८ दशकुमारचरितम् । [ उत्तरपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
२२८ दशकुमारचरितम् । [ उत्तरपीठिकायां
नामापत्यनिर्विशेषं मत्संवर्धितायाश्चम्पकलतायाः स्वयमवचिताभिः सुम-
नोभिरलमकार्षीत् । मदुपभुक्तमुक्ते चित्रकूटगर्भवेदिकागते रत्नतल्पे तया
सह व्यहार्षीत् । अयोग्यश्च पुमानवज्ञातुं च प्रवृत्तः । तत्किमित्यपेक्ष्यते ।
परलोकभयं चैहिकेन दुःखेनन्तरितम् । अविषह्यं हि योषितामनङ्गशर-
निषङ्गीभूतचेतसामनिष्टजनसंवासयन्त्रणादुःखम् । अतोऽऽमुना पुरुषेण
ममाद्योद्यानमाधवीगृहे समागमय । तद्वार्ताश्रवणमात्रेणैव हि ममातिमात्रं
संवर्द्धितायाः जलसेकादिना पुष्टिं गमितायाः । चम्पकळतेति वृक्षविशेषः । स्वयम्
स्वहस्तेन । अवचिताभिः-लूनाभिः । सुमनोभिः कुसुमैः । सुमनःशब्दस्य स्त्री-
लिङ्गत्वात्तद्विशेषणस्य स्त्रीत्वम् । अलमकार्षीत्-भूषयामास । मदुपभुक्तेति-मया
आदौ उपभुक्तमनुभूतं पश्चान्मुक्तं त्यक्तं यत्तस्मिन् । चित्रकूटति-चित्रकूटः क्रीड़ा-
पर्वतस्तस्य गर्भे गुहायां या वेदिका परिष्कृतभूमिस्तत्र गतं तस्मिन् । रत्नतल्पे-
रत्ननिर्मितशयने । तया रमयन्तिकया । व्यहार्षीत् विहारमकरोत् । अयोग्यश्चेति
यः पुरुषः स्वयमयोग्यो मूर्खत्वादिदोषयुक्तः स पुनरन्यं तिरस्कर्तुं प्रवृत्तः एतदेवा-
श्चर्यमिति भावः । तत् तस्मात् कारणात् । किमिति-कथम् । अपेक्ष्यते-नैवापे-
क्ष्यते मयेति शेषः । तस्यापेक्षा न कार्येति भावः । परलोकभयमिति-योषितां पति-
परित्यागेन परलोकाद्भयमस्त्येव तथापि तद्द्वयं परलोकगमने सति भाव्यम्
ऐहिकं दुःखमिहजन्मनि भोग्यमतः परलोकभयमैहिकेन दुःखेनन्तरितं व्यवधानी-
कृतमिति भावः । अविषह्यं सोढुमशक्यम् । अनङ्गेति-अनङ्गशराणां कामबाणा-
नां निषङ्गीभूतं तूणीरीभूतं आधारभूतमितियावत् चेतश्चित्तं यासां तथाभूतानाम् ।
अनिष्टेति-अनिष्टजनेन अप्रियजनेन सह संवासश्चिरमेकत्रवसतिस्तस्य या
यन्त्रणा नियमनं चिरमनेन सह त्वया वस्तव्यमित्येतद्रूपं तेन यद्दुःखं क्लेशः ।
अमुना त्वयोक्तेन । पुरुषेण युवकेन सहेति शेषः । मम मामित्यर्थः । उद्यानमाध-
वीगृहे-उद्यानस्थितवासन्तीलतागृहे । समागमय-सम्मेलय । अतिमात्रमत्यन्तम् ।
है और इसीसे अन्योंका तिरस्कार करने में प्रवृत्त हुआ है । मैं अब क्यों उसकी
अपेक्षा करूँ। यदि यह कहा जाय कि परलोक के भय से डरूँ तो इस लोकके दुःखोंसे
परलोक का भय भी व्यवधानीभूत (बाधित) हो जाता है । कामदेवके बाणके आधारभूत
अन्तःकरणवाली अबलाओंको अपनेको कष्ट देनेवाले पति के सहवास से जो यन्त्रणाएँ
(व्यथाएँ) होती हैं वे असह्य होती हैं । अतएव इस चित्रगत पुरुष के साथ आज
उपवनके माधवीलता-मण्डप में मेरा संयोग करा दो । उस राजपुत्रकी वार्त्ताके श्रवणसे
ही मेरा चित्त उसकी ओर अत्यधिक अनुरक्त हो गया है । वह जो धनकी राशि मेरे पास है
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २२६
मनोऽनुरक्तम् । अस्ति चायमर्थराशिः । अनेनामुष्य पदे प्रतिष्ठाप्य तमे-
वात्यन्तमुपचर्य जीविष्यामि' इति । मयापि तदभ्युपेत्य प्रत्यागतम् ।
अतः परं भर्तृदारकः प्रमाणम्' इति ।
( १६ ) ततस्तस्या एव सकाशादन्तःपुरनिवेशमन्तर्वंशिकपुरुषस्था-
नानि प्रमदवनप्रदेशानपि विभागेनावगम्य, अस्तगिरिकूटपातक्षुभितशो-
णित इव शोणीभवति भानुबिम्बे, पश्चिमाम्बुधिपयःपातनिर्वापितपतङ्गा-
ङ्गारधूमसंभार इव भरिततमसि नभसि विजृम्भिते, परदारपरामर्शोन्मु-
अस्ति मत्समीप इत्यर्थः । अर्थराशिः-धनसमूहः । अनेन-अर्थराशिना । अमुष्य-
विकटवर्मणः । पदे-स्थाने भर्तृपद इत्यर्थः । तमेव-चित्रलिखितं युवानमेव । उप-
चर्य संसेव्य । इत्यन्तं कल्पसुन्दरीवाक्यम् । मया-वृद्धतापस्या । अभ्युपेत्य-एवं
करिष्यामीति स्वीकृत्य । भर्तृदारको राजपुत्रः भवानित्यर्थः । प्रमाणं यदत्र विधेयं
तत्क्रियतामित्यर्थः ।
( १६) तस्या एव-वृद्धाया एव । अन्तःपुरनिवेशम् अवरोधप्रदेशम् । अन्त-
वंशिकेति-अन्तर्वंशिकपुरुषाणाम् अवरोधाधिकृतानां रक्षिपुरुषाणां स्थानानि के
कुत्र तिष्ठन्तीति भावः । प्रमदवनप्रदेशान् क्रीडोद्यानदेशान् । एतानि अवग-
म्येति क्रियायाः कर्मभूतानि । विभागेन पृथक् पृथग्रूपेण । अवगम्य-विदित्वा ।
अस्तगिरीति-अस्तगिरेरस्ताचलस्य कूटाच्छिखरात्पातेन पतनेन क्षुभितं निर्गतं
शोणितं रुधिरं यस्य तस्मिन्निवेत्युत्प्रेक्षा । शोणीभवति रक्तोभवति । भानुबिम्बे
सूर्यमण्डले । पश्चिमेति-पश्चिमाम्बुधेः पश्चिमसमुद्रस्य पयसि जले पातेन निमज्ज-
नेन निर्वापितः शान्तः पतङ्गः सूर्य एवाङ्गारो ज्वलत्काष्ठावयवस्तस्य धूमसम्भारो
धूमराशियंस्मिन् तस्मिन्निवेत्यत्र रूपकोत्प्रेक्षयोः सङ्करः । भरिततमसि-भरितं पूर्ण-
इसी धनके समूहद्वारा मैं उस राजपुत्रको इस विकटवमो राजाके स्थानपर आरूढ़ करा
करके उसी राजपुत्रकी सेवा-अर्चा करके जीवन व्यतीत करूंगी।' मैं भी (वृद्धा भी)
उस रानीको स्वीकृति दे करके यहां आयी हूँ। अब इसके पश्चात् हे राजपुत्र ! आप जो
चाहें सो कार्य करें ।
( १६ ) इसके अनन्तर मैंने उसी वृद्धासे अन्तःपुरका प्रदेश, अन्तःपुरके रक्ष पुरुषोंके
स्थानोंको और क्रीड़ोद्यानके प्रवेशस्थानको पृथक्-पृथक् रूपसे ज्ञात कर लिया । अस्ताचल
की चोटीके ऊपरसे गिरनेके कारण निकले हुए शोणितके समान जब सूर्यबिम्ब लाल लाल
हो गया तब, तथा जब पश्चिमके समुद्रमें सूर्यके बिम्बरूपी अंगारेके बुझनेसे उत्पन्न जो
धूम्र-पटल द्वारा आकाश परिव्याप्त हो गया तब, एवं जब दूसरेकी स्त्रीके साथ समागम