दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
२४६ दशकुमारचरितम्। [ उत्तरपीठिकायां
२४६ दशकुमारचरितम्। [ उत्तरपीठिकायां
स्निग्धदीर्घां दृष्टिम् 'आचष्टां भवानात्मीयचरितम्' इत्यादिदेश। सोऽपि
बद्धाञ्जलिरभिदधे—
इति श्रीदण्डिनः कृतौ दशकुमारचरित उपहारवर्मचरितं नाम
तृतीय उच्छ्वासः।
अभ्युपैति-प्राप्नोति। अर्थपालमुखे-अर्थपालस्य कुमारेष्वन्यतमस्य मुखे आन-
ने। निधाय- संस्थाप्य। स्निग्धदीर्घां-स्निग्धां स्नेहपूर्णामाग्रहातिशयेन दीर्घां च।
आचष्टां-कथयतु। आङ्पूर्वाच्चक्ष्धातोर्लोटि रूपम्। आत्मीयचरितं स्ववृत्तान्तम्।
सोऽपि-अर्थपालोऽपि। अभिदधे-उवाच।
इति श्रीताराचरणभट्टाचार्यकृतायां बालविबोधिनीसमाख्यायां श्रीदशकुमार-
चरित-व्याख्यायामुपहारवर्मचरितं नाम तृतीयोच्छ्वासः।
अपहरण पाप नहीं है ।) ठीक ही है, ऐसी कौनसी कृति है जो बुद्धिमान पुरुषोंके द्वारा
की जानेपर शोभाको न प्राप्त करे । (-बुद्धिमानोंके द्वारा बुरा कार्य भी भले प्रकारसे
होता है।) इसके पश्चात् राजवाहनने आग्रहपूर्वक स्नेहपूर्ण नेत्रोंसे अर्थपालकी ओर
देखा और कहा—'आप भी अपनी चरितावली सुनायें।'
इस प्रकार बालक्रीडानामक हिन्दी टीका समाप्त हुई ।
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
चतुर्थोच्छ्वासः
( १ ) देव, सोऽहमप्येभिरेव सुहृद्भिरेककर्मोर्मिमालिनेमि भूमिव-
लयं परिभ्रमन्नुपासरं कदाचित्काशीपुरीं वाराणसीम्। उपस्पृश्य मणिभङ्ग-
निर्मलाम्भसि मणिकर्णिकायामविमुक्तेश्वरं भगवन्तमन्धकमथनर्माभप्र-
णम्य प्रदक्षिणं परिभ्रमन्पुरुषमेकमायामवन्तमायसपरिघपीवराभ्यां भुजा-
भ्यामाबध्यमानपरिकरमविरतरुदितोच्छूनताम्रादृष्टिमद्राक्षम् । अतर्कयं
च—'कर्कशोऽयं पुरुषः, कार्पण्यमिव वर्षति क्षीणतारं चक्षुः, आरम्भश्च
( १ ) साम्प्रतमर्थपालनामा कुमारः स्वभ्रमणवृत्तान्तं वर्णयितुमारेभे देवे-
त्यादिना । देव-राजन् । सोऽहमर्थपाल इत्यर्थः । एभिः-अनन्तरोक्तैः । एककर्मा-
एकं समानं कर्म भवदन्वेषणरूपं यस्यासौ । ऊर्मिमालीति-ऊर्मीणां तरङ्गाणां
माला पंक्तिरस्यास्तीति ऊर्मिमाली समुद्रः नेमिः सीमा यस्य तत्-समुद्रवेष्टित-
मित्यर्थः । भूमिवलयं-भूमण्डलम् । उपासरमगच्छम् । काशीपुरीं-काशीप्रदेशस्य
प्रधाननगरीम् । वाराणसों तन्नामिकाम् । उपस्पृश्य-स्नात्वा । मणिभङ्गेति-
मणीनां रत्नानां भङ्गः शकलस्तद्वद् निर्मलं स्वच्छमम्भस्तोयं यस्यास्तस्याम् ।
मणिकर्णिकायां-तन्नामवतीर्थे । अविमुक्तेति-अविमुक्तेति काशीक्षेत्रस्य नामान्तरं
तस्येश्वरं प्रभुम् । अन्धक मथनमन्धकासुरसंहार कम्-महेशम् । प्रदक्षिणं परिभ्र-
मन्-परिक्रमं कुर्वन् । आयामवन्तं-दीर्घाकारम् । आयसेति-अयसा लोहेन
निर्मितः आयसस्तादृशो यः परिघोऽर्गलस्तद्वत् पीवराभ्यां स्थूलाभ्याम् । भुजाभ्यां
बाहुभ्याम् । आबध्येति-आबध्यमानो विरच्यमानः क्रियमाण इति यावत् परिकरः
कक्षाबन्धो येन तम् । अविरतेति-अविरतं सन्ततं यद् रुदितं रोदनं तेनोच्छूने
स्फीते ताम्रेऽरुणे दृष्टी नेत्रे यस्य तम् । एवंभूतं पुरुषमद्राक्षम् दृष्टवान् । अतर्कयं
व्यचारयम् । कर्कशः कठोरः परुष इति यावत् । कार्पण्यं-दैन्यम् । वर्षति प्रकट-
अब अर्थपाल नामक कुमारने अपने पर्यटन-वृत्तको सुनाना प्रारम्भ किया—
( १ ) हे देव ! आपके अन्वेषणार्थ समानकर्ममें सुदृढ़ मित्रोंके साथ समुद्रान्त पृथिवी-
मण्डलपर पर्यटन करता हुआ मैं एकदा काशीप्रदेशकी वाराणसी नगरीमें पहुँचा ।
मणिकी कणिकाके सदृश निर्मलजल-( गङ्गाजल ) वाले मणिकर्णिका तीर्थमें स्नान किया
तथा काशीनाथ, अन्धकासुरसंहारक-(भगवान् विश्वनाथ-) को प्रणाम किया और
प्रदक्षिणा ( परिक्रमा ) करने लगा । उसी समय मैंने लोहेके परिघ तुल्य ( बेवड़ेके समान )
स्थूल तथा अपने दोनों बाहुओंमें कक्ष कसे हुए एवं सदा रोदन करनेके कारण जिसके
Nepal Sanskrit University, Balmeeki Campus, Kathmandu