सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

५० दशकुमारचरितम् । [ पूर्वपीठिकायां

५० दशकुमारचरितम् । [ पूर्वपीठिकायां
तकी वर्षागमनमिव तवालोकनकाङ्क्षिणी चिरमतिष्ठम् । मन्मनोरथफला-
यमानं भवदागमनमवगम्य मद्राज्यावलम्बभूतामात्यानुमत्या मदनकृतसा-
रथ्येन मनसा भवन्तमागच्छम् । लोकस्यास्य राजलक्ष्मीमङ्गीकृत्य मां
तत्सपत्नीं करोतु भवान्' इति ।
( १८ ) मातङ्गोऽपि राजवाहनानुमत्या तां तरुणीं परिणीय दिव्याङ्ग-
नालाभेन हृष्टतरो रसातलराज्यमुररीकृत्य परमानन्दमाससाद ।
( १६ ) वञ्चयित्वा वयस्यगणं समागतो राजवाहनस्तदवलोकनकौतू-
हलेन भुवं गमिष्णुः कालिन्दीदत्तं क्षुत्पिपासादिकिलेशनाशनं मणि साहा-
य्यकरणसंतुष्टान्मातङ्गाल्लब्ध्वा कंचनाध्वानमनुवर्तमानं तं विसृज्य बिलप-
त्वद्दर्शनाभिलाषिणी । चिरं दीर्घकालम् । मम मनोरथोऽभिलाषस्तस्य फलं तद्वदा-
चरतीति । मम राज्यस्य लोकस्य पातालस्येत्यर्थः । अवलम्बभूतानां रक्षकाणां अमा-
त्यानां मन्त्रिणामनुमत्या सम्मत्या । मदनेन कामेन कृतं सारथ्यं सारथिकर्म
यस्य तेन मदनचालितेनेत्यर्थः । तस्या राजलक्ष्म्याः सपत्नीं प्रतिपक्षवनिताम् ।
( १८ ) राजवाहनानुमत्या राजकुमारदेशेन । परिणीयोद्वाह्य । हृष्टतरोऽति-
शयेन हृष्टः । उररीकृत्य स्वीकृत्य तद्राज्याधिपतिर्भूत्वेत्यर्थः । आससाद प्राप ।
( १९ ) वञ्चयित्वा विप्रलभ्य । वयस्यगणं मित्रमण्डलम् । तदवलोकनकौतूहलेन
तेषां सुहृदां अवलोकनकौतूहलेन दर्शनकौतुकेन । भुवं पृथिवीम् । गमिष्णुः गमनशी-
लोऽर्थात्पातालात् । कालिन्द्या मातङ्गपत्न्या दत्तमर्पितम् । क्षुत्पिपासेति-यस्य प्रभा-
वात् क्षुत्पिपासादयो नश्यन्तीत्यर्थः । मणिं रत्नम् । साहाय्यकरणसन्तुष्टात् साहाय्य-
उसी आदेशको शिरोधार्य्य करके मैं, मेघागमके लिए जैसी चातकी प्रतीक्षा किये रहती है
तद्वत, आपकी आशामें प्रतीक्षा किये बहुत दिनोंसे बैठी हूँ । मेरी अभिलाषाके फलस्वरूप
आपके आगमनको जानकर मेरे राज्यके आलम्बनभूत अमात्योंकी अनुमतिसे कामदेवको
सारथी बनाकर मेरा मन आपके समीप आया है—कामोन्मत्ता मैं आप तक आयी हूँ ।
अतः आप इस राज्यश्रीसहित राज्यपालनको अंगीकार करें और मुझे भी राज्यश्रीकी
सपत्नी ( सौत ) बनावें ।
( १८ ) राजवाहनकी अनुमतिसे मातंगने भी उस युवतीसे विवाह किया । तथा दिव्यां-
गनाकी प्राप्तिपर अति प्रसन्न होकर पातालके शासनकी प्राप्तिसे परमानन्दित हो गया ।
( १९ ) अपने मित्रोंको वनमें छोड़कर राजवाहन आया था । अतः मित्रोंको देखनेकी
अभिलाषासे जब वह पृथिवीपर आने लगा तब भूख और प्यासको दूर करनेवाली एक मणि जो
उसे कालिन्दीने दी और सहायता करनेसे सन्तुष्ट मातंग उसे पहुँचाने आया । कुछ दूरतक
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । ५१
थेन तेन निर्ययौ । तत्र च मित्रगणमनवलोक्य भुवं बभ्राम ।
( २० ) भ्रमंश्च विशालोपशल्ये कमप्याक्रीडमासाद्य तत्र विश्रमि-
षुरान्दोलिकारूढं रमणीसहितमाप्तजनपरिवृतमुद्याने समागतमेकं पुरुषम-
पश्यत् । सोऽपि परमानन्देन पल्लवितचेता विकसितवदनारविन्दः 'मम
स्वामी सोमकुलावतंसो विशुद्धयशोनिधी राजवाहन एषः । महाभाग्यत-
याकाण्ड एवास्य पादमूलं गतवानस्मि । संप्रति महानयनोत्सवो जातः'
इति ससंभ्रममान्दोलिकाया अवतीर्य सरभसपदविन्यासविलासिहर्षोत्क-
र्षचरितस्त्रिचतुरपदान्युद्गतस्य चरणकमलयुगलं गलदुल्लसन्मल्लिका-
वलयेन मौलिना पस्पर्श ।
विधानपरितुष्टात् । कञ्चन कियन्तम् । अनुवर्त्तमानमनुसरन्तम् ।
( २० ) विशाले महति उपशल्ये ग्रामप्रान्तभागे । आक्रीडमुद्यानम् । विश्र-
मिषुः विश्रमितुमिच्छुः । आन्दोलिकायां दोलायामारूढमुपविष्टम् । आप्तजनैरात्मीयैः
परिवृतं परिवेष्टितम् । सोऽपि आन्दोलिकारूढः पुरुषोऽपि । पल्लवितं विकसितं चेतो
हृदयं यस्य सः प्रसन्नहृदय इत्यर्थः । विकसितवदनारविन्दः प्रफुल्लमुखकमलः ।
स्वामी प्रभुः । सोमकुलावतंसः चन्द्रवंशभूषणम् । विशुद्धयशोनिधिर्विमलकीर्ति-
शेवधिः । महद्भाग्यं यस्य तस्य भावस्तया अनुकूलदैवप्रभावेण । अकाण्डे असमये
सहसेत्यर्थः । पादमूलं चरणसमीपम् । नयनोत्सवो नेत्रानन्दः । ससम्भ्रमं सत्वरा-
दरम् । सरभसेन वेगवता पदविन्यासेन चरणनिक्षेपेण विलसतीति विलासी
तथाभूतश्चासौ हर्षोत्कर्षौ चरिते यस्य स चेति कर्मधारयः । त्रीणि चत्वारि वेति त्रिच-
तुराणि उद्गतस्य चलितस्य । गलद् अवनमनेन भ्रश्यद् उल्लसन्मल्लिकावलयं विक-
सन्मल्लिकामाल्यं यस्मात्तेन । मौलिना शीर्षेण । पस्पर्श चरणयुगलमिति शेषः,
नमश्चकारेत्यर्थः ।
आनेपर राजवाहनने उसे कांचनसे ही लौटा दिया तथा स्वयं विवरके द्वारसे बाहर आ गया ।
जहांसे मित्रवर्गको वंचित करके वह पाताल गया था उस स्थलपर आनेपर उसने उन लोगोंको
वहां न पाया । उन्हें न पाकर उनकी खोजमें वह पृथ्वीतलपर इतस्ततः घूमने लगा ।
( २० ) घूमते हुए वह एक दिन विशालापुरीके समीप एक बागमें आया । वहां
विश्राम करनेकी चेष्टा करने लगा । इतनेमें पालकीमें बैठे हुए रमणीके साथ तथा
आप्तजनोंसे परिवृत होकर आये हुए एक मनुष्यको उसने देखा । परमानन्द हर्षोल्लाससे
मुदित मन एवं प्रफुल्लित मुखवाले उस पुरुषने कहा—'अरे ये तो चन्द्रवंशके भूषण स्वच्छ
सुयशके निधान मेरे स्वामी राजवाहन हैं । बड़े भाग्योदयसे आज अनायास इनके
दर्शन मिले । अब इनके चरण-कमलोंको छूना चाहिये । इस समय नेत्रोंको बड़ा
सुख हो रहा है।' ऐसा कहते हुए हर्षके साथ अति शीघ्र पालकीसे उतरकर बड़े
वेगसे विलासके साथ पैरोंको भूमिपर रखते हुए तीन-चार पैर आगेसे ही राजवाहनके