दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
३३८ दशकुमारचरितम् । [ उत्तरपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
३३८ दशकुमारचरितम् । [ उत्तरपीठिकायां
हर्षकिलकिलारवमकुर्वन्मां चापूजयन् । दुर्वांरा तु सा नौरनुकूलवात-
नुन्ना दूरमभिपत्य कमपि द्वीपं निबिडमाशिलिष्टवती । तत्र च स्वादु पानी-
यमेधांसि कन्दमूलफलानि संजिघृक्षवो गाढपातितशिलावलयमवाताराम ।
तत्र चासीन्महाशैलः । सोऽहम् 'अहो रमणीयोऽयं पर्वतनितम्बभागः,
कान्ततरेयं गन्धपाषाणवत्युपत्यका, शिशिरमिदमिन्दीवरारविन्दमकर-
न्दबिन्दुचन्द्रकोत्तरं गोत्रवारि, रम्योऽयमनेकवर्णहुसुममञ्जरीभरस्तरुव-
नाभोगः' इत्यतृप्ततया दृशा बहुबहु पश्यन्नलक्षिताध्यारूढक्षोणीधरशि-
स्तेनैवेत्यर्थः । तं भीमधन्वानम् । हर्षकिलकिलारवं-हर्षजनिताव्यक्तध्वनिम् । दु-
र्वारा अप्रतिरोध्या । नौः तरिः । अननुकूलेति-अननुकूलेन प्रतिकूलेन वातेन
वायुना नुन्ना प्रेरिता । अभिपत्य उपेत्य । द्वीप समान्ततो जलवेष्टितं भूमिभागम् ।
आश्लिष्टवती प्राप्तवती । तत्र द्वीपे । स्वादु मधुरम् । पानीयं जलम् । एधांसि
काष्ठानि । संजिघृक्षवः संग्रहीतुकामाः । गाढेति-गाढमतिदृढं पातितानि जले
निःक्षिप्तानि शिलावलयानि वलयाकारपाषाणानि 'लङ्गर' इति भाषाप्रसिद्धानि
यस्मिंस्तद् यथा तथेति क्रियाविशेषणम् । अवाताराम-अवतीर्णा द्वीपे इति शेषः ।
तत्र द्वीपे । महाशैलः विशालः पर्वतः । पर्वतनितम्बभागः शैलमध्यप्रदेशः कटक
इति यावत् । कान्ततरा अतिमनोरमा । गन्धपाषाणवती मनःशिलादिधातुमयी ।
उपत्यका पर्वतासन्नभूमिः । उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यकेति कोषः । शिशिरं
शीतलम् । इन्दीवरेति-इन्दीवराणां नीलकमलानामरविन्दानां कमलानाञ्च
मकरन्दविन्दुभिर्मधुकणैश्चन्द्रकोत्तरं मेचकप्रचुरम् । जले तैलादिपतनेन मयूर-
बर्हवन्नानावर्णं तज्जलं भवतीति प्रसिद्धम् । गोत्रवारि पर्वतनिर्झरसलिलम् । अनेक-
वर्णेति-अनेकवर्णानां नानाविधानां कुसुममञ्जरीणां पुष्पवल्लरीणां भरोऽतिशयो यत्र
सः । तरुवनाभोगः वृक्षप्रधानारण्यविस्तारः । अतृप्ततया सतृष्णया । दृशा चक्षुषा ।
प्रतिकूल वायु चलनेसे वह मेरी नाव अप्रतिरोधित होकर बहती हुई एक द्वीपके
किनारेपर लगी। उस द्वीपसे स्वादिष्ट जल और काठ तथा कन्द-मूल-फलोंको एकत्रकर
नावपर धरनेकी इच्छासे नाविकों ( मल्लाहों ) ने एक बड़ा भारी लंगर डालकर नाव
रोक दी और उस द्वीपमें उतर पड़े । उस द्वीपमें एक विशाल पर्वत था । मैंने कहा-
'इस पर्वतका मध्य प्रदेश अति रमणीय है । इस पर्वतकी उपत्यका गन्ध-पाषाणवती है
तथा अति मनोरम है । इस पर्वतका जल शीतल है तथा कमलों एवं नीलकमलोंसे
परिपूर्ण होते हुए नानावर्णवाला .स्वच्छ है । अर्थात्-इसके झरनोंका जल अत्यन्त विशद
है । इस शैलमें, अनेक वर्गोंके पुष्पोंकी मञ्जरियोंसे परिपूर्ण तथा मनोहर वृक्षावलीसे
युक्त वनस्थल हैं।' ऐसी पर्वतीय शोभाको देखती हुई मेरी आँखें तृप्ति नहीं पा रहीं,
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
खरः शोणीभूतमुत्प्रभाभिः पद्मरागसोपानशिलाभिः किमपि नालीक-
परागधूसरं सरः समध्यगाम्।
(१६) स्नातश्च कांश्चिदसूनस्वादून्विसभङ्गानास्वाद्य, असंलग्नकह्ला-
रस्तीरवर्तिना केनापि भीमरूपेण ब्रह्मराक्षसेनाभिपत्य 'कोऽसि, कुतस्त्यो-
ऽसि' इति निर्भर्त्सयताऽभ्यधीये। निर्भयेन च मया सोऽभ्यधीयत-'सौम्य,
सोऽहमस्मि द्विजन्मा। शत्रुहस्तादर्णवम्, अर्णवाद्यवननावम्, यवनना-
वश्चित्रग्रावाणमेनं पर्वतप्रवरं गतः, यदृच्छयास्मिन्सरसि विश्रान्तः, भद्रं
बहुबहु असकृत् = वारंवारमिति यावत् । अलक्षितेति-अलक्षितमविदितं यथा तथा
अध्यारूढं क्षोणीधरस्य पर्वतस्य शिखरं येन सः। शोणीभूतं रक्तीकृतम्। उत्प्र-
भाभिः उद्गतकान्तिभिः। पद्मरागसोपानशिलाभिः मरकतमयसोपानपंक्तिभिः।
शोणीभूतमित्यनेनान्वयः। किमपि-अनिर्वाच्यम्। नालीकेति-नालीकानां पद्मानां
परागैः किञ्जल्कैर्धूसरं धूम्रवर्णं सरः सरोवरम् । समध्यगाम् प्राप्तवान् ।
(१९) स्नातः तत्र कृतस्नानः। अहमिति शेषः। अमृतस्वादून् सुधामधु-
रान्। विसभङ्गान्-मृणालखण्डान्। आस्वाद्य उपभुज्य। अंसेति-अंसयोः
स्कन्धयोर्लग्नं सक्तं कह्लारं जलजविशेषो यस्य सः । तादृशोऽहं तीरवर्त्तिना सर-
स्तीरस्थितेन। भीमरूपेण-भीषणमूर्त्तिना ब्रह्मराक्षसेन देवयोनिविशेषेण । अभिपत्य
आगत्य। कुतस्त्यः कुत आगतः। निर्भर्त्सयता-तर्जयता। अभ्यधीये उक्तोऽस्मि।
स ब्रह्मराक्षसः। अभ्यधीयत उक्तः। द्विजन्मा-ब्राह्मणः। शत्रुहस्तात् वैरिकरात्।
अर्णवं समुद्रं गत इति प्रत्येकं सम्बध्यते। यवननावं यवनपोतम्। यवननावः
यवनपोतात्। चित्रग्रावाणं-चित्रा मनोहरा ग्रावाणः प्रस्तरा यत्र तादृशम्।
थीं। अतः मैं पुनः-पुनः उसी शोभाको देखता हुआ अज्ञात पर्वतके शिखर भागपर
चढ़ गया। वहाँपर, पद्मरागमणिकी शिलाओंकी उत्कृष्ट प्रभासे रक्तीभूत तथा कमलोंके
किञ्जल्कोंसे धूसरीभूत एक तालाबपर मैं पहुँचा।
(१९) उस तालाबमें स्नान करके मैंने सुधाके समान मधुर मृणालखण्डोंका
आस्वादन किया। कन्धेपर जलजविशेषको धारण करनेवाले, मुझसे उस तालाबके तीरवर्त्ती
किसी भयङ्कररूपधारी ब्रह्मराक्षसने आकर कहा-'तुम कौन हो, कहाँसे आये हो ?'
इस प्रकार जब उसने मुझे भयान्वित करते हुए पूछा तो मैंने निःशंक होकर उत्तर दिया-
'हे भद्र ! मैं ब्राह्मण हूँ। वैरीके हाथसे समुद्रमें फेंका गया। समुद्रसे यवनोंकी नावमें
लाया गया। यवन नावसे इस श्रेष्ठ पर्वतपर आया हूँ। जिसके पत्थर बड़े मनोहर हैं।