दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
२४४ दशकुमारचरितम् । [ उत्तरपीठिकायां
२४४ दशकुमारचरितम् । [ उत्तरपीठिकायां
वर्माणम्—'धूर्तोऽसि त्वमकृतज्ञश्च । मदनुग्रहलब्धेनापि रूपेण लोकलोच-
नोत्सवायमानेन मत्सपत्नीभिरभिरमयिष्यसि । नाहमात्मविनाशाय वेतालो-
त्थापनमाचरेयम्' इति ।
( २७) श्रुत्वेदं त्वद्वचः स यद्वक्ष्यति तन्मह्यमेकाकिन्युपागत्य निवे-
दयिष्यसि । ततः परमहमेव ज्ञास्यामि । मत्पदचिह्नानि चोपवने पुष्करि-
कया प्रमार्जय' इति । सा 'तथा' इति शास्त्रोपदेशमिव मदुक्तमाहृत्यातृ-
प्सुसुरतरागैव कथंकथमप्यगादन्तःपुरम् । अहमपि यथाप्रवेशं निर्गत्य
स्वमेवावासमयासिषम् ।
( २८ ) अथ सा मत्तकाशिनी तथा तमर्थमन्वतिष्ठत् । अतिहृष्टश्च
श्रवणे । कृतनर्मेति-कृतं विहितं नर्मस्मितं परिहासहसितं यया सा । धूर्त्तः-वञ्चकः ।
अकृतज्ञः-अस्मृतोपकारः । मदनुग्रहलब्धेन-मत्प्रसादाधिगतेन । रूपेण-आकारेण ।
लोकलोचनेति-लोकलोचनानां जननयनानामुत्सवमिवाचरता । आत्मविनाशाय-
स्वमरणाय । वेतालोत्थापनं भूतविशेषोत्पादनम् ।
( २७) स विकटवर्मा । ज्ञास्यामि-तदानीं यद्विधेयं तदहमेव करिष्या-
मीत्यर्थः । पुष्करिकया तन्नामकदास्या मार्जय-प्रोञ्छय । सा कल्पसुन्दरी । तथा-
तथा भवतु । आहृत्य-सादरं स्वीकृत्य । अतृप्तसुखरागा असम्पूर्णसुरताभिलाषा ।
कथं कथमपि-अतिकृच्छ्रेण । यथाप्रवेशं-येन पथा प्रविष्टस्तेनैव पथा ।
( २८ ) मत्तकाशिनी-वरवर्णिनी । तथा-यथा मयोक्तं तेन प्रकारेण । तं
पूर्वकथितम् । अर्थ-विषयम् । •अन्वतिष्ठत्-अकरोत् । तन्मते-कल्पसुन्दरीकथिते-
प्राप्त रूपस जो रूप लोगोके नयनों का उत्सव बढ़ानेवाला होगा उसी रूपसे आप मेरी
सौतों ( सपत्नीजनों ) के साथ रमण करेंगे। अतः अपना विनाश करनेके लिये वेतालका
आह्वान न करूंगी ।
( २७ ) इन बातोंको सुन करके वह नृपति जो कहे वह आप मुझसे अकेली आ
करके कह दीजियेगा । उसके अनन्तर जो कुछ होगा वह मैं समझ लूँगा । उपवनमें जो
मेरे पैरोंके चिह्न हैं उन्हें पुष्करिकाद्वारा मिटवा दीजियेगा । उन रानी कल्पसुन्दरीने
'तथा' (स्वीकार है ) कह करके शास्त्रोंके उपदेशोंके सदृश मेरे वचनोंको माना और
रतिक्रीड़ासे अतृप्ति पाकर भी येन केन प्रकारसे अन्तःपुरमें गयी । मैं भी उक्तो पूर्व मार्गसे
निकल कर के निवासस्थलपर आकरके विराम करने लगा ।
( २८ ) तदनन्तर उस उत्तमाङ्गना रानीने मेरे कथनानुसार सब कार्य कर दिया ।
उस रानी कल्पसुन्दरीके आदेशानुसार वह दुर्मति राजा विकटवर्मा भी राजी हो गया !
[तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २४५
तन्मते स दुर्मतिः । अभ्रमच्च पौरजानपदेष्वियमद्भुतायमाना वार्ता—
'राजा किल विकटवर्मा देवीमन्त्रबलेन देवयोग्यं वपुरासादयिष्यति ।
नूनमेष विप्रलम्भो नातिकल्याणः । कैव कथा प्रमादस्य । स्वस्मिन्नेवान्तः-
पुरोपवने स्वाग्रमहिष्यैव संपाद्यः किलायमर्थः । तथाहि बृहस्पतिप्रतिमबु-
द्धिभिर्मन्त्रिभिरप्यभ्यूह्यानुमतः । यद्येवं भावि नान्यदतः परमस्ति किञ्चि-
दद्भुतम् । अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः' इति प्रसूतेषु लोकप्रवा-
देषु प्राप्ते पर्वदिवसे, प्रगाढायां प्रौढतमसि प्रदोषवेलायामन्तःपुरोद्यानादु-
दैरयदधूर्जटिकण्ठधूम्रो धूमोद्गमः । क्षीराज्यदधितिलगौरसर्षपवसामांसरु-
ऽभिप्राये । स विकटवर्मा । अभ्रमत्-प्रससार । अद्भुतायमाना-आश्चर्यवदा-
चरन्ती । देवीमन्त्रबलेन-पट्टमहिष्या मन्त्रप्रभावेण देवयोग्यं देवतोचितम् । आ-
सादयिष्यति-प्राप्स्यति । नूनं निश्चयेन । विप्रलम्भः प्रतारणं, नेत्यनेन सम्बध्यते ।
अतिकल्याणः-अतिशुभप्रदः । कैव कथा प्रमादस्य-प्रमादस्य नात्र सम्भव
इत्यर्थः । स्वस्मिन् स्वकीये । स्वाग्रमहिष्या-स्वभार्यया । वृहस्पतिप्रतिमबुद्धि-
भिः-वाचस्पतितुल्यमतिमद्भिः । अभ्यूह्य वितर्क्य विचार्येति यावत् । अनुमतः-
अनुमोदितः । भावि-भविष्यति । अतः परम्-अस्मादप्यधिकम् । अचिन्त्यः-
अभावनीयः । प्रसृतेषु-प्रचारितेषु । लोकप्रवादेषु-जनरवेषु । प्राप्ते-उपस्थिते ।
पर्वदिवसे-अमावास्यायाम् । प्रौढतमसि-घनान्धकारायाम् । उदैरयत्-उदगच्छ-
त् । धूर्जटीति-धूर्जटेः शिवस्य कण्ठवद् गलवत् धूम्रो नीलः । धूमोद्गमः-धूम-
प्रवाहः । उदैरयदित्यस्य कर्तृपदमेतत् । क्षीराज्येति-क्षीरं दुग्धमाज्यं घृतं दधि
क्षीरविकारः, तिलाः प्रसिद्धाः, गौरसर्षपाः सिद्धार्थः, वसा वपा, मांसं पललं
यह आश्चर्यकारिणी वार्त्ता पुरवासियों और नागरिकलोकसंघोंमें फैल गयो—'राजा
विकटवर्मा अपनी पटरानी कल्पसुन्दरीके मन्त्रके प्रभावसे देवताओंके अनुरूप शरीरको
प्राप्त करेंगे । निश्चय ही इसमें कपट नहीं है अपितु यह अतिशुभप्रद है । इसमें प्रमाद
(कपट) की तो कोई बात ही नहीं मालूम पड़ती है क्योंकि अपने ही अन्तःपुरमें
अपनी ही भार्याके द्वारा यह कार्य सम्पादित होगा । इसी कारणसे वाचस्पतिके सदृश
बुद्धिमान् मन्त्रियोंने भी बहुत विचार करके अनुमोदन किया है । यदि यह बात सत्य
हो गयी तो इससे अधिक आश्चर्यकी और कोई बात नहीं है । रत्न, ओषधि और मन्त्रोंका
प्रभाव सदा अचिन्त्य होता है । इस तरहका लोकमे प्रवाद फैल गया तथा कुछ दिनमें
अमावास्या भी आ गयी । उस दिन जब प्रदोषकालमें घनान्धकार छा गया तब
अन्तःपुरके उद्यानसे महादेवजीके कण्ठके समान नीला ( यहाँपर श्याम) धूम्रका आविर्भाव