दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
११८ दशकुमारचरितम् । [ उत्तरपीठिकायां
११८ दशकुमारचरितम् । [ उत्तरपीठिकायां
( १४ ) क्षणे च तस्मिन्मुमुचे तदङ्घ्रियुगलं रजतशृङ्खलया । सा
चैनं चन्द्रलेखाच्छविः काचिदप्सरा भूत्वा प्रदक्षिणीकृत्य प्राञ्जलिव्र्यजि-
ज्ञपत्—'देव, दीयतामनुग्रहार्द्रं चित्तम् । अहमस्मि सोमरश्मिसम्भवा
सुरतमञ्जरी नाम सुरसुन्दरी । तस्या मे नभसि नलिनलुब्धमुग्धकलहंसा-
नुबद्धवक्त्रायास्तन्निवारणलोभविच्छिन्नविगलिता हारयष्टिर्यदृच्छया जातु
हैमवते मन्दोदके मग्नोन्मग्नस्य महर्षेर्मार्कण्डेयस्य मस्तके मणिकिरण-
द्विगुणितपलितमपतत् ।
( १४ ) मुमुचे मुक्तमभवत् । तदङ्घ्रियुगलं राजवाहनचरणद्वयम् । सा
रजतशृङ्खला । एनं राजवाहनम् । चन्द्रलेखाया ज्योत्स्नायाः छविरिव छविर्यस्याः
सा । काचित्-अनिर्वचनीया । व्यजिज्ञपत् निवेदितवती । दीयतामनुग्रहार्द्रं चित्तम्
अनुग्रहेण कृपया आर्द्रं सिक्तं - चित्तमित्यस्य विशेषणम् । मयि प्रसन्नो भवेति
भावः । सोमरश्मिसम्भवा-तदाख्यगन्धर्वकन्या । सुरसुन्दरी अप्सराः । नभसि
आकाशे नलिने पद्मे लुब्ध आसक्तो मुग्धो मूढो यः कलहंसो राजहंसस्तेनानुबद्ध-
मनुसृतं वक्त्रं मुखं यस्यास्तथाभूतायाः मन्मुखं नलिनं बुद्ध्वा कलहंसस्तदनुसरती
त्यर्थः । मे इत्यस्य विशेषणम् । तन्निवारणेति-तस्य कलहंसस्य निवारणे यः क्षोभ-
श्चाञ्चल्यं तेन विच्छिन्ना त्रुटिता अत एव विगलिता भ्रष्टा-हारयष्टिर्हारलता । यदृ-
च्छया स्वेच्छया । जातु कदाचित् हैमवते मन्दोदके हिमालयसम्बन्धिनि स्वल्प-
जले । मग्नोन्मग्नस्य स्नानं कुर्वतः । मणिकिरणैति-क्रियाविशेषणम् । मणिकिरणै-
र्हारस्थरत्नमयूखैर्द्विगुणितं वर्द्धितं पलितं जराजनितशौक्ल्यं यत्र तद्यथा तथा ।
( १४ ) उस समय राजवाहनके पैरोंमें पड़ी हुई चाँदीवाली वह जंजीर आप ही
आप टूट गयी तथा वह जंजीर एक स्त्रीका रूप धरकर उस राजवाहनके सामने हाथ
जोड़कर खड़ी हो गयी और कहने लगी- 'हे देव ! मेरे ऊपर कृपा कीजिये' मैं चन्द्रमासे
प्रादुर्भूत किरणोंसे उत्पन्न सुरतमंजरी नामक अप्सरा हूँ। एक बार मैं अपनी इच्छासे
आकाशमें घूम रही थी । उस समय एक कलहंस उड़ता हुआ आया और उसने मेरे
मुखको कमल समझकर आच्छादित कर लिया । इस कारण मैं घबड़ा गयी । व्याकुलताके
साथ उसे हटाते हुए अनजानमें मेरे गलेकी माला टूट गयी । उसी समय हिमवान् पर्वतके
तालावमें श्रीमार्कण्डेय ऋषि डुबकियाँ लगा-लगाकर नहा रहे थे । मेरी वह माला जाकर
उन के शुभ्र और लम्बी-लम्बी जटावाले मस्तकपर गिरीं ।
प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ११९
( १५ ) पातितश्च कोपितेन कोऽपि तेन मयि शापः- 'पापे, भजस्व
लोहजातिमजातचैतन्या सती' इति । स पुनः प्रसाद्यमानस्त्वत्पादपद्मद्व-
यस्य मासद्वयमात्रं सन्दानतामेत्य निस्तरणीयामिमामापदमपरिक्षीणश-
क्तित्वं चेन्द्रियाणामकल्पयत् । अनल्पेन च पाप्मना रजतशृङ्खलीभूता
मामैक्ष्वाकस्य राज्ञो वेगवतः पौत्रः, पुत्रो मानसवेगस्य, वीरशेखरो नाम
विद्याधरः शङ्करगिरौ समध्यगमत् । आत्मसात्कृता च तेनाहमासम् ।
( १६ ) अथासौ पितृप्रयुक्तवैरे प्रवर्त्तमाने विद्याधरचक्रवर्तिनि वत्स-
( १५ ) पतितो दत्तः । कोपितेन क्रुद्धेन । कोपः सञ्जातोऽस्येतीतच् । लोह-
जातिं लोहभावम् । अजातचैतन्या चैतन्यरहिता । सः मार्कण्डेयः । प्रसाद्यमानः
प्रसन्नीक्रियमाणः । मयेति शेषः । त्वत्पादेति-तव भवतो राजवाहनस्येत्यर्थः । पाद्-
पद्मद्वयस्य चरणकमलयुगलस्य । मासद्वयं प्रमाणमस्येति मात्रच्प्रत्ययः । सन्दानतां
बन्धनत्वम् । 'सन्दानं पादबन्धनमि'त्यमरः । एत्य प्राप्य । निस्तरणीयाम् उद्धर-
णीयां समाप्यामिति यावत् । इमामापदं- शृङ्खलात्वप्राप्तिरूपाम् । अपरिीणश-
क्तित्वम् अनष्टस्वस्वविषयग्रहणसामर्थ्यम् । इन्द्रियाणां चक्षुरादीनाम् । अकल्पयत्
सम्पादयामास । पाप्मना पापेन । ऐक्ष्वाकस्य इक्ष्वाकुवंशीयस्य वेगवतः वेगवा-
निति नाम्नः । शङ्करगिरौ कैलासे । समध्यगमत् प्राप । मामिति शेषः । आत्मसा-
त्कृता गृहीता ।
( १६ ) असौ वीरशेखरः । पित्रा स्वजनकेन मानसवेगेनेत्यर्थः । प्रयुक्तं कृतं
( १५ ) बस, इसी कारण वे मुनिवर क्रुद्ध हो गये और मुझे शाप दे दिया कि ओ
पापे ! जा, निर्जीव होकर लौह-द्रव्यमें एकीभूत हो जा । उनके शापको श्रवण कर जब
मैंने उनसे अनुनय-विनयपूर्वक बड़ी प्रार्थना की तब उन्होंने मेरे शापकी अवधि निश्चित
की कि मुझे दो मासों तक आपके पैरोंमें पड़े रहना पड़ेगा, तत्पश्चात् मेरी मुक्ति हो
जायगी । साथ ही मुझे यह भी सुविधा प्रदान कर दी कि चेतनाहीन अवस्थामें भी मुझे
इन्द्रियोंका ज्ञान और शक्ति का अनुभव होता रहे । इस प्रकार एक असाधारण
अपराधके कारण मुझे चाँदीकी जंजीर बनना पड़ा । शापके अनुसार जब मेरी यह
अवस्था हुई तब इक्ष्वाकुवंशी राजा वेगवानके पौत्र तथा मानसवेगके पुत्र वीरशेखर
नामक विद्याधर कैलास पर्वतपर आ पहुँचे । उन्होंने जंजीररूपमें मुझे अवलोकित करके
उठा लिया और अण्टीमें रख लिया ।
( १६ ) तब कुछ दिनों के पश्चात् वीरशेखर और उनके पितामें वैमनस्य हो गया,