दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
२७२ दशकुमारचरितम् । [ उत्तरपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
२७२ दशकुमारचरितम् । [ उत्तरपीठिकायां
तन्मूलमेवास्य मरणं भवेत्' इति । अतोऽत्रैकान्ते यथेष्टमश्रु मुक्त्वा तस्य
साधोः पुरः प्राणान्मोक्तुकामो बध्नामि परिकरम्' इति ।
(१४) मयापि तत्पितृव्यसनमाकर्ण्य पर्यश्रुणा सोऽभिहितः-
'सौम्य, किं तव गोपयित्वा । यस्तस्य सुतो यक्षकन्यया देवस्य राजवाह-
नस्य पादशुश्रूषार्थं देव्या वसुमत्या हस्तन्यासः कृतः सोऽहमस्मि । श-
क्ष्यामि सहस्रमपि सुभटानामुदायुधानां हत्वा पितरं मोचयितुम् । अपि
तु संकुले यदि कश्चित्पातयेत्तदङ्गे शस्त्रिकां सर्व एव मे यत्नो भस्मनि हुत-
मिव भवेत्' इति ।
रणीये-उत्पाटनीये । यथा येन प्रकारेण । तन्मूलं-नेत्रोत्पाटनहेतुकम् । अस्य
कामपालस्य । अतः अस्मात्कारणात् । एकान्ते निर्जने । यथेष्टं यथेच्छम् ।
तस्य साधोः-कामपालस्य । पुरोऽग्रे । परिकरं बध्नामि-उद्योगं करोमि । इत्यन्तं
पूर्णभद्रवचनम् । इतः परमर्थपालवचनं बोद्धव्यम् ।
(१४) मया-अर्थपालेन । पितृव्यसनं पितुर्विपदम् । पर्यश्रुणा-रुदता । सः
पूर्णभद्रः । गोपयित्वा अवगुह्य तव पुरो गोपनेनालमिति भावः । तस्य काम-
पालस्य । यक्षकन्यया-तारावल्या । हस्तन्यासः हस्ते निःक्षेपः । सः सुतः ।
सुभटानां सुयोद्धृणाम् । उदायुधानां गृहीतशस्त्राणाम् । अपि तु किन्तु । संकुले-
जनसंकटे । पातयेत्-निःक्षिपेत् । तदंगे-मत्पितुः शरीरे । भस्मनि हुतमिव-
निरर्थकमित्यर्थः ।
हृदयकी पीड़ाको दर्शानेवाला और येन केन प्रकारेण राजकुलके राजकार्योंको करनेवाला
दिखाई दे रहा था । उसके दोषोंको स्थान-स्थानपर उद्घोषित कराया गया । इन
अपराधोंके बदले यह आज्ञा सुनाई गयी कि 'उसकी आँखें इस तरीकेसे निकाली जायें
जिससे उसकी मृत्यु हो जाय ।' यह भी प्रयत्न किया गया ।'
उस पूर्णभद्रने इस प्रकारसे वृत्तको सुना करके कहा- 'इसी क्लेशके कारण यहाँ
निर्जनमें खूब आँसुओंको बहाकर उस विवेकी कामपालके आगे अपने प्राणोंको त्यागनेका
उद्योग कर रहा हूँ ।
(१४) मैंने (अर्थपालने) अपने पिताजीके इन दुःखोंको श्रवण करके रोते हुए इस
पूर्णभद्रसे कहा- 'हे भद्र ! अब आपसे गुप्त रखनेकी कोई आवश्यकता नहीं है । जिस
बालकको यक्षकन्या तारावली देव राजवाहनकी पादशुश्रूषा करनेके लिए रानी वसुमतीके
हाथमें धर आयी थी वह कामपालका पुत्र मैं ही हूँ । मुझमें इतनी शक्ति है कि सहस्रों
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
चतुर्थोच्छ्वासः ] बालबोधिनीव्याख्यासहितम् । २७३
( १५ ) अनवसितवचन एव मयि महानाशीविषः प्राकाररन्ध्रेणो-
दैदयच्छिरः । तमहं मन्त्रौषधबलेनाभिगृह्य पूर्णभद्रमब्रवम्—'भद्र, सिद्धं
नः समीहितम् । अनेन तातमलक्ष्यमाणः संकुले यदृच्छया पातितेन नाम
दंशयित्वा तथा विषं स्तम्भयेयं यथा मृत इत्युदास्येत । त्वया तु मुक्त-
साध्वसेन माता मे बोधयितव्या—'यो यक्ष्या वने देव्या वसुमत्या हस्ता-
पितो युष्मत्सूनुः सोऽनुप्राप्तः पितुरवस्थां मदुपलभ्य बुद्धिबलादित्थमा-
चरिष्यति । त्वया तु मुक्तत्रासया राज्ञे प्रेषणीयम्—'एष खलु क्षात्रधर्मो
( १५ ) अनवसितवचने-असमाप्तवाक्ये । आशीविषः सर्पः । प्राकाररन्ध्रेण-
भित्तिच्छिद्रेणः । उदैरयत्-ऊर्ध्वंचकार । तं सर्पम् । मन्त्रौषधिवलेन-मन्त्रौ-
षधिप्रभावेण । अभिगृह्य-धृत्वा । समीहितम्-अभिलषितम् । अनेनेति-संकुले
जनसंबाधे अलक्ष्यमाणोऽन्यैरदृश्योहं यदृच्छया स्वेच्छया पातितेन निःक्षिप्तेनानेन
सर्पेण तातं पितरं कामपालमित्यर्थः दंशयित्वा दष्टं कारयित्वा {विषं तथा तेन
प्रकारेण स्तम्भयेयं निश्चलं कुर्यां यथा येन प्रकारेण मृतो विनष्ट इति जनैरूदा-
स्येतोपेक्ष्येत । त्वया पूर्णभद्रेण । मुक्तसाध्वसेन त्यक्तभयेन । माता कान्तिमती ।
यो युष्मत्सूनुः भवत्याः पुत्रः । यक्ष्या तारावल्या । वसुमत्याः राजहंसमहिष्याः ।
अनुप्राप्तः समागतः । मत् मम सकाशात् । बुद्धिबलाद् बुद्धिप्रभावात् । इत्थं-
वक्ष्यमाणप्रकारम् । त्वया कान्तिमत्या । मुक्तत्रासया—त्यक्तशंकया । राज्ञे
शस्त्रसज्जित योद्धाओंको मारकर पिताको बचा सकता हूँ । किन्तु, जनसमूहमें यदि कोई
मेरे पिताके शरीरपर प्रहार कर देगा तो मेरा यह प्रयास भस्ममें होमके सदृश विफल
हो जायगा ।
(१५) मेरा वाक्य पूरा भी न हो पाया था कि प्राकार ( चहार दीवारी ) की
दीवालके छेदमेंसे एक बड़े भारी साँपकी मूड़ी दिखाई दी । उस साँपको मैंने अपने मन्त्र
और औषध बलसे पकड़ लिया और पूर्णभद्रसे कहा—'हे सौम्य ! अब मेरा अभिलषित
मनोरथ सिद्ध हो गया । जिस समय जनसमूह एकत्र हो जायगा उसी समय मैं अदृश्य
होकर स्वेच्छासे इस साँपको अपने पिता कामपालके ऊपर छोड़ करके उनको दंशित करा
दूंगा । फिर उसके विषको स्तम्भित कराकर पिताको मृततुल्य प्रदर्शित करूंगा और
इस कारणसे सभी उदास हो जायेंगे । आप निर्भय होकर मेरी माता कान्तिमतीसे
कह दीजियेगा कि आपका वह पुत्र जिसे राजवाहनकी परिचर्याके लिये रानी वसु-
मतीके हाथमें यक्षिणी साप आयी थी, इस जगहपर आ गया है तथा अपने
पिताकी दशा, मेरे द्वारा, ज्ञात करके अपनी बुद्धिकी शक्तिसे उक्त रीतिसे व्यवहार करेगा।