सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

३४ दशकुमारचरितम् । [ पूर्वपीठिकायां

३४ दशकुमारचरितम् । [ पूर्वपीठिकायां
गता । तेन 'कुत्रत्योऽयम्' इति पृष्टा समभाषत—'राजन् ! अतीतायां रात्रौ
काचन दिव्यवनिता मत्पुरतः कुमारमेनं संस्थाप्य निद्रामुद्रितां मां विबो-
ध्य विनीताऽब्रवीत्—'देवि ! त्वन्मन्त्रिणो धर्मपालनन्दनस्य कामपालस्य
वल्लभा यक्षकन्याऽहं तारावली नाम, नन्दिनी मणिभद्रस्य । यक्षेश्वरानुमत्या
मदात्मजमेतं भवत्तनुजस्याम्भोनिधिवलयवेष्टितक्षोणीमण्डलेश्वरस्य भा-
विनो विशुद्धयशोनिधे राजवाहनस्य परिचर्याकरणायानीतवत्यस्मि । त्वमे-
नं मनोजसंनिभमभिवर्धय' इति विस्मयविकसितनयनया मया सविनयं
सत्कृता स्वक्षी यक्षी साप्यदृश्यतामयासीत्' इति ।

पतिम् । तेन राज्ञा । कुत्र भव इति कुत्रत्य इति कुत्रेत्यव्ययात्त्यप्प्रत्ययः । अयं
बालकः कुत्रोत्पन्नः-कस्य पुत्र इति भावः । अतीतायां गतायाम् । दिव्यवनिता
स्वर्गीया स्त्री । निद्रया मुद्रितां निमीलितनयनाम् । विबोध्य प्रबोध्य । वल्लभा
पत्नी । यक्षेश्वरस्य कुबेरस्याऽनुमत्याऽऽदेशेन । भवत्यास्तव तनूजस्य नन्दनस्य ।
भाविनो भविष्यतः । अम्भोनिधिः समुद्र एव वलयः कटकस्तेन वेष्टितं यत् क्षोणी-
मण्डलं भूमण्डलं तस्येश्वरः पतिः शासक इत्यर्थः । विशुद्धस्य निर्मलस्योज्ज्वलस्येति
यावत् । यशसः कीर्तेर्निधिर्निधानं तस्य । परिचर्येति शुश्रूषाकरणायेत्यर्थः । मनोजस्य
मनोजेन वा सन्निभः-कामदेवतुल्यः सौन्दर्येणेति यावत् । अभिवर्द्धय पालय ।
विस्मयेनाश्चर्यरसेन विकसिते प्रफुल्ले नयने नेत्रे यस्यास्तया । सत्कृता संमानिता ।
स्वक्षी-सु शोभने अक्षिणी नेत्रे यस्याः सा । यक्षी यक्षकूलोत्पन्ना न तु यक्षपत्नी ।
कामपालस्य यक्षत्वाभावात् । अदृश्यतामन्तर्धानम् ।

समीप आयी । राजाने उन्हें देखकर पूछा—'यह बालक कहांसे आया ?' उत्तरमें उन्होंने
कहा—हे महाराज ! गत रात्रिमें एक स्वर्गांगना मेरे समीप निद्रावस्थामें आयी और इस
सुकुमार कुमारको मेरी गोदामें धरकर नम्रतासे विनयपूर्वक बोली—'मैं मणिभद्र नामक
यक्षकी कुमारी हूँ तथा आपके अमात्य धर्मपालके सुत कामपालकी स्त्री हूँ । मेरा नाम
तारावली है । यक्षेश्वर महाराजकी अनुमतिसे मैं इस बालकको आपके समीप आपके पुत्र
राजवाहनकी सेवाके लिए लायी हूँ । कुमार राजवाहन भविष्यमें समुद्रोंसे परिवेष्टित समस्त
भूमण्डलका चक्रवर्ती राजा कीर्तिशाली नरपति होगा । अत एव कामदेवके सदृश अति रम्य
इस बालकका आप लालन-पालन करें । ये सब बातें सुनते ही मैं जाग पड़ी और नेत्रोंको
खोलकर आश्चर्य करने लगी तथा अति विनयसे मैंने उस यक्षिणीका स्वागत किया ।
स्वागतके बाद वह तुरन्त ही वहाँसे अदृश्य होकर चली गयी ।

प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ३५
(७४) कामपालस्य यक्षकन्यासङ्गमे विस्मयमानमानसो राजहंसो
रञ्जितमित्रं सुमित्रं मन्त्रिणमाहूय तदीयभ्रातृपुत्रमर्थपालं विधाय तस्मै
सर्वं वार्त्तादिकं व्याख्यायादात् ।
(७५) ततः परस्मिन्दिवसे वामदेवान्तेवासी तदाश्रमवासी समारा-
धितदेवकीर्त्ति निर्भर्त्सितमारमूर्तिं कुसुमसुकुमारं कुमारमेकवगमय्य नर-
पतिमवादीत्—'देव ! विलोलालकं बालमं निजोत्सङ्गतले निधाय रुदतीं
स्थविरामेकां विलोक्यावोचम्—'स्थविरे ! का त्वम् , अयमर्भकः कस्य
नयनानन्दकरः, कान्तारं किमर्थमागता, शोककारणं किम्' इति ।
(७६) सा करयुगेन बाष्पजलमुन्मृज्य निजशोकशङ्कूत्पाटनक्षमं
(७४) यक्षकन्यासङ्गमे यक्षीविवाहे । विशेषेण स्मयमानं आश्चर्य्यान्वितं मानसं
मनो यस्य सः । रञ्जितानि स्वभावेनावर्जितानि मित्राणि सुहृदो येन तम् । सुमित्रं
तन्नामानं कामपालज्येष्ठभ्रातरम् । अर्थपालं तन्नामानम् ।
(७५) अन्ते वसतीति अन्तेवासी—वामदेवस्यान्तेवासी छात्रः । 'छात्रान्तेवा-
सिनौ शिष्ये' इत्यमरः । तस्य वामदेवस्याश्रमवासी आश्रमस्थः । समाराधिता
प्राप्त्यर्थं संसेविता देवानां कीर्त्तिर्येन तं देवतुल्यकीर्त्तिमन्तमित्यर्थः । निर्भर्त्सिता
स्वसौन्दर्येण तिरस्कृता मारस्य कन्दर्पस्य मूर्त्तिः स्वरूपं येन तम् । कुसुमवत् पुष्प-
मिव सुकुमारं कोमलम् । अवगमय्य प्रापय्य पुरतः संस्थाप्येत्यर्थः । विलोलाश्च-
ञ्चला अलकाः कुन्तला यस्य तम् । उत्सङ्गतले अङ्के । स्थविरां वृद्धाम् । अर्भकः
शिशुः कान्तारं दुर्गममार्गम् ।
(७६) बाष्पजलम् अश्रु । उन्मृज्यापनीय । निजस्य स्वस्य शोक एव शङ्कुः
(७४) कामपालका यक्षकन्यासे सम्पर्क हुआ। इसपर राजहंसका चित्त विस्मित हुआ।
तब उसने सुहृदोंको सुखी बनानेवाले सुमन्त्र नामक मन्त्रीको बुलाया और समस्त वृत्तान्त
सुनाकर उस बालकका नाम अर्थपाल धरा ।
(७५) तत्पश्चात् कुछ दिनोंके अनन्तर एक दिन उसी आश्रमके निवासी वामदेव मुनिके
शिष्यने आकर देवोंके समान कीर्तिशाली तथा कामदेवके समान सुन्दर एवं सुकुमार एक
बालकको वहाँ लाकर राजासे कहा—'हे देव, मैं तीर्थाटन करते हुए कावेरी नदीके तटपर
गया था । वहाँपर चंचलकेशकलापवाले इस बालकको अपनी गोदीमें धरकर रोती हुई एक
वृद्धाको देखा तथा रोनेका कारण पूछा—'ऐ वृद्धे, तुम कौन हो ? यह कुमार किसका है ?
तुम इस वनमें क्यों आयीं ? तुम इतनी दुःखी क्यों हो रही हो ?'
(७६) मेरी जिज्ञासापर वृद्धाने, दोनों हाथोंसे अपने आँखोंके आसुओंको पोंछकर और