सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

६४ दशकुमारचरितम् । [ पूर्वपीठिकायां

६४ दशकुमारचरितम् । [ पूर्वपीठिकायां
थामात्यस्य पद्मद्भवस्यात्मसंभवो रत्नोद्भवो नामाहम् । वाणिज्यरूपेण
कालयवनद्वीपमुपेत्य कामपि वणिक्कन्यकां परिणीय तथा सह प्रत्यागच्छ-
न्नम्बुधौ तीरस्यानातिदूर एव प्रवहणस्य भग्नतया सर्वेषु निमग्नेषु कथंक-
थमपि दैवानुकूल्येन तीरभूमिमभिगम्य निजाङ्गनावियोगदुःखार्णव प्लव-
मानः कस्यापि सिद्धतापसस्यादेशादरेण षोडश हायनानि कथञ्चिन्नीत्वा
दुःखस्य पारं अनवेक्षमाणः गिरिपतनमकार्षम्' इति ।
(४) तस्मिन्नेवावसरे किमपि नारीकूजितमश्रावि—'न खलु समु-
चितमिदं यत्सिद्धादिष्टे पतितनयमिलने विरहमसहिष्णुवैधानं वि-
बिन्दून् । अपनयन् दूरीकुर्वन् । सौम्य सुन्दर ! मगधाधिनाथामात्यस्य राजहंसम-
न्त्रिणः । आत्मसम्भवः तनयः । वाणिज्यरूपेण वाणिज्याभिलाषेण । परिणीय
विवाह्य । प्रत्यागच्छन् तस्माद्वीपान्निवर्तमानः । अम्बुधौ समुद्रे । अनति-
दूरे समीपे प्रवहणस्य पोतस्य नौकाया इति यावत् । सर्वेषु पोतस्थितेषु निखिलज-
नेषु निमग्नेषु सागरे इति शेषः । कथंकथमपि अतिकष्टेन । दैवानुकूल्येन भागधे-
यसाहाय्येन । अभिगम्य प्राप्य । निजायाः स्वीकायाया अङ्गनायाः पत्न्या यद्वियोग-
दुःखं विनाशक्लेशः स एवार्णवः सागरस्तस्मिन् । प्लवमानः सन्तरन् । आदेशाद-
रेण वचनविश्वासेन । हायनानि वत्सराम् । कथञ्चित् महता कष्टेन । नीत्वा याप-
यित्वा । दुःखस्य पारं दुर्दशाशेषम् । अनवेक्ष्यमाणोऽपश्यन् ।
(४) अवसरे समये । नारीकूजितं स्त्रीक्रन्दितम् । अश्रावि श्रुतं मयेति शेषः ।
समुचितं युक्तम् । सिद्धादिष्टे सिद्धकथिते । पत्युः स्वामिनस्तनयस्य पुत्रस्य च मिलने
सम्मेलने । षोडशवर्षानन्तरं ते पतिपुत्रसमागमो भविष्यतीति सिद्धेन कथिते सती-
पतिके अमात्य पद्मोद्भवका पुत्र हूँ, मेरा नाम रत्नोद्भव है । व्यापारके सिलसिलेमें मैं काल-
यवन द्वीपमें गया था । वहाँ एक वणिक्सुताके साथ मेरा परिणय हुआ । उसे साथ लेकर
नावद्वारा मैं अपने देश आ रहा था । थोड़ी दूर आगे आनेपर समुद्रमें मेरी नाव एक
प्रस्तरसे टकराकर टूट गयी । तथा सभी उसपर आरूढ़ यात्री जलमग्न हो गये । दैववश मैं
बहता हुआ तीरभूमिपर आ लगा । फिर अपनी पत्नीकी विरहरूपी व्यथाके समुद्रमें
बहता एक तपस्वीके पास गया । उसके आश्वासन दिलानेपर कि सोलह वर्षमें तुम्हारी पत्नी
मिलेगी—१६ वर्ष बिताये, परन्तु अब भी उसके न मिलनेसे निराश होकर दुःखका अन्त
करनेके लिये पर्वतसे कूद पड़ा ।
(४) उसी क्षण एक तरफसे रोते हुए यह शब्द सुनाई पड़ा—'हे बाले ! जब एक
तपस्वीने बता दिया है कि तुम्हारे पति और पुत्र दोनों १६ वर्षमें मिल जायेंगे तो फिर क्यों

चतुर्थोच्छ्वासः ] व्याख्याद्वयोपेतम् । ६५
शसि' इति ।
(५) तन्निशम्य मनोविदितजनकभावं तमवादिषम्—'तात, भवते
विज्ञापनीयानि बहूनि सन्ति । भवतु । पश्चादखिलमाख्यातव्यम् । अधुना
नारीकूजितमनुपेक्षणीयं मया । क्षणमात्रमत्र भवता स्थीयताम्' इति
(६) तदनु सोऽहं त्वरया किंचिदन्तरमगमम् । तत्र पुरतो भयङ्कर-
ज्वालाकुलहुतभुगवगाहनसाहसिकां मुकुलिताञ्जलिपुटां बनितां कांचिदव-
लोक्य ससंभ्रममनलादपनीय कूजन्त्या वृद्धया सह मत्पितुरभ्यर्णमभिग-
मय्य स्थविरामवोचम्—'वृद्धे, भवत्यौ कुत्रत्ये । कान्तारे निमित्तेन केन
त्त्वर्थः । असहिष्णुः सोढुमशक्नुवन् । वैश्वानरमग्निम् । विशसि त्वमिति अनुचित-
मिदमिति कयाचिदुच्यते ।
(५) मनसा चित्तेन ममेति शेषः विदितो ज्ञातो जनकभावो मत्पितृत्वं यस्य
तम् अयमेव मे पितेति मया निश्चयविषयीकृतमिति भावः । तं पुरुषम् । अवादिषम्
उक्तवानहमिति शेषः । भवते तुभ्यम् । विज्ञापनीयानि अवश्यवक्तव्यानि । पश्चात्
नारीकूजितश्रवणानन्तरम् । अखिलं सर्वम् आख्यातव्यं कथनीयं मयेति शेषः ।
अनुपेक्षणीयं उपेक्षितुमनुचितम् ।
(६) तदनु तदनन्तरम् । सोऽहं तथाविध एव । त्वरया वेगेन । अन्तरं दूरम्
पुरतोऽग्रतः भयंकरज्वालाभिः भीषणशिखाभिराकुले व्याप्ते हुतभुजि वह्नौ अवगाहने
प्रवेशे साहसिकां कृतोत्साहाम्–अनलम्प्रवेष्टुमुद्यतामित्यर्थः । मुकुलिताञ्जलिपुटां
बद्धाञ्जलिम् । ससम्भ्रमं सत्वरम् । अनलाद् अग्नेः । अपनीय दूरीकृत्य । कूजन्त्या
क्रन्दन्त्या । अभ्यर्णं समीपम् । अभिगमय्य प्रापय्य । अभिपूर्वकंगमेर्णिजन्ताल्ल्यप् ।
स्थविरां वृद्धाम् । भवत्यौ त्वमेषा च । कुत्रत्ये कस्मात् । स्थानादागते । निमित्तेन
वियोगजनित कष्टको सहनेमें असमर्थ होकर प्राणोंको अग्निमें कूदकर छोड़ना चाहती हो,
यह बात सर्वथा अनुचित है ।
(५) यह वार्ता श्रवणकर मेरे मनमें आया कि ये मेरे पिता हैं और मैने उनसे कहा-‘हे
तात ! मुझे आपसे अभी बहुत कुछ बातों करनी है । अतः आप बैठें, मैं क्षणभर भी उस
नारीके रोदनकी उपेक्षा नहीं कर सकता हूँ' ।
(६) ऐसा कहकर मैं शीघ्र बड़े वेगसे उस ओर गया जिधरसे महिलाकी वह ध्वनि आ
रही थी । वहाँपर मैंने देखा कि, एक वनिता हाथ जोड़े बैठी हुई है और उसके सम्मुख
भयंकर अग्निज्वाला जल रही है तथा वह उसकी ज्वालामें कूदनेको उद्यत है । मैंने तुरत ही
वहाँ पहुँचकर उसे पहले अग्निके पाससे दूर कर दिया । फिर समीपमें ही रोनेवाली एक वृद्धा
५ द० कु० पू०