दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
५४ दशकुमारचरितम् । [ पूर्वपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
५४ दशकुमारचरितम् । [ पूर्वपीठिकायां
(३) 'भूदेव, एतत्कटकाधिपती राजा कस्य देशस्य, किं नामधेयः,
किमत्रागमनकारणमस्य' इति पृष्टोऽभाषत महीसुरः- 'सौम्य, मत्तकालो
नाम लाटेश्वरो देशस्यास्य पालयितुर्वीरकेतोस्तनयां वामलोचनां नाम तरु-
णीरत्नमसमानलावण्यं श्रावं श्रावमवधूतदुहितृप्रार्थनस्य तस्य नगरीमरौ-
त्सीत् । वीरकेतुरपि भीतो महदुपायनमिव तनयां मत्तकालायादात् । तरु-
णीलाभहृष्टचेता लाटपतिः 'परिणेया निजपुर एव' इति निश्चित्य गच्छ-
न्निजदेशं प्रति संप्रति मृगयादरेणात्र वने सैन्यावासमकारयत् ।
(४) कन्यामारेण नियुक्तो मानपालो नाम वीरकेतुमन्त्री मानधन-
श्रतुरङ्गबलसमन्वितोऽन्यत्र रचितशिविरस्तं निजनाथावमानखिन्नमान-
(३) एतस्य पुरतो वर्त्तमानस्य कटकस्य सन्यस्याधिपतिः स्वामी । किन्नाम-
धेयः किमाख्यकः किं नामधेयं यस्येति विग्रहः । महीसुरो भूसुरः । लाटेश्वरः लाट-
देशाधिपतिः । असमानं अद्वितीयं लावण्यं सौन्दर्यं यस्य तत् । श्रावंध्रावं पुनः पुनः
श्रुत्वा । अवधूता तिरस्कृता न स्वीकृतेति यावत्, दुहितुः कन्याया वामलोचनाया
इति यावत् प्रार्थना लाटेश्वरकृता याच्ञा येन तस्य । तस्य वीरकेतोः । अरौत्सीत्
रुद्धवान् । उपायनमुपढौकनम् । अदात् प्रददौ । तरुण्याः कन्याया लाभेन प्राप्त्या
हृष्टं सन्तुष्टं चेतश्चित्तं यस्य सः । परिणेया विवाहा । निजपुरे स्वनगरे । मृगयाद-
रेण मृगयाभिलाषेण ।
(४) कन्यैव सारो धनं यस्य तेन वीरकेतुनेत्यर्थः । नियुक्तः प्रेरितः । मान
एव धनं यस्य सः अभिमानीत्यर्थः । चतुरङ्गं हस्त्यश्वरथपदातिरूप बलं सैन्यं तेन
(३) मैने पूछा- हे विप्रवर ! इस सेनाका राजा कौन है और उसका क्या नाम है ?
और यह राजा सेनासहित क्यों इस स्थान पर आया है ? ऐसा पूछनेपर उत्तर देते हुए
उसने कहा-हे सौम्य ! लाट देशके स्वामी मत्तकालने इस देशके अधिपति वीरकेतुकी तनया,
जो अपनी सुन्दरतामें अद्वितीया है तथा नारियोंमें मणिके समान है, के साथ विवाह करने
की अभिलाषा प्रकट की परन्तु, वीरकेतुने उसकी इच्छाको विफल कर दिया- वामलोचना
कन्या देनेसे इनकार कर दिया। तब क्रोध करके मत्तकालने इसका राज्य घेर लिया। इस
पर वीरकेतु अतिभयान्वित हो गया और विशाल भेंटमें अपनी पुत्री वामलोचना उसे
समर्पित कर दी। उक्त तरुणीकी प्राप्तिपर प्रसन्नचित्त मत्तकालने यह विचार किया कि
इसके साथ विवाह संस्कार अपने राज्यमें जाकर कर लेंगे-और वह वहाँसे चल पड़ा।
अपने राज्यको जाते हुए शिकार खेलनेकी इच्छासे उसने मार्गमें पड़ाव डाल दिया ।
(४) इधर वीरकेतुके आदेशसे मानपाल नामक मन्त्रीने भी चतुरंगिणी सेनाके साथ
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
तृतीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । ५५
षोऽन्तर्बिभेद' इति ।
(५) विप्रोऽसौ बहुतनयो विद्वान्निर्धनः स्थविरश्च दानयोग्य इति
तस्मै करुणापूर्णमना रत्नमदाम् । परमाह्लादविकसिताननोऽभिहितानेका-
शीः कुत्रचिदग्रजन्मा जगाम । अध्वश्रमखिन्नेन मया तत्र निरवेशि नि-
द्रासुखम् । तदनु पश्चान्निगडितबाहुयुगलः स भूसुरः कशाघातचिह्नित-
गात्रोऽनेकैर्नैस्त्रिंशिकानुयातोऽभ्येत्य माम् 'असौ दस्युः' इत्यदर्शयत् ।
(६) परित्यक्तभूसुरा राजभटा रत्नावाप्तिप्रकारं मदुक्तमनाकर्ण्य भ-
यरहितं मां गाढं नियम्य रज्जुभिरानीय कारागारम् 'एते तव सखायः'
समन्वितो युक्तः । रचितशिविरः कृतसैन्यावासः । तं मत्तकालम् । निजनाथस्य स्व-
स्वामिनोऽवमानेन परिभवेन खिन्नं विषण्णं मानसं मनो यस्य सः । अन्तर्बिभेद
प्रकृत्यमात्यादीनां भेदं चकार ।
(५) दानयोग्यो दानपात्रम् । करुणापूर्णमनाः सदयचित्तोऽहं सोमदत्त इत्य-
र्थः । परमेणोत्कृष्टेनाह्लादेनानन्देन विकसितं प्रफुल्लमाननं मुखं यस्य सः । अभि-
हिता उक्ता दत्ता इति यावत् । अनेका असंख्येया आशिष आशीर्वादा येन सः । कुत्र-
चिदनिर्दिष्टे स्थाने । अग्रजन्मा ब्राह्मणः । अध्वनि मार्गे यः श्रमः परिश्रमस्तेन खिन्नः
तेन । निरवेशि उपभुक्तम् । तदनु तदनन्तरम् । पश्चात् पृष्ठदेशे निगडितं बद्धं बाहु-
युगलं हस्तद्वयं यस्य सः । कशाघातेन वेत्रप्रहारेण चिह्नितं गात्रं शरीरं यस्य सः ।
अनेकैर्बहुभिर्नैस्त्रिंशिकैरखधारिपुरुषैरनुयातोऽनुसृतः । दस्युश्चौरः ।
(६) परित्यक्तो मुक्तो भूसुरो ब्राह्मणो यैस्ते । रत्नावाप्तिप्रकारं मम रत्नलाभ-
वृत्तान्तम् । भयरहितं निर्भयम् । गाढं नियम्य दृढं बद्ध्वा । एते कारागारस्थिताः
पड़ाव डाल रखा है और अपने स्वामीके अनादरसे खिन्नचित्त होकर उनमें बुद्धिभेद करा
दिया है ।
(५) इस वृत्तान्तको श्रवणकर मैने सोचा कि यह ब्राह्मण विद्वान् है, वृद्ध है और निर्धन
तथा बहुकुटुम्बी भी है अतः दानके देने योग्य है- ऐसा सोचकर मैने वह रत्न दयावश उसे
दानमें दे दिया । रत्नकी प्राप्तिपर उसे बड़ा हर्ष हुआ और वह अनेक आशीर्वाद देता हुआ
वहाँसे चला गया । अध्वपरिश्रमसे क्लान्त होकर मैं भी वहाँ सो गया । थोड़ी देरमें वह
ब्राह्मण दोनों हाथ निगडित होकर कई सिपाहियोंके साथ मेरे पास आया । मैंने देखा कि
उसके शरीरपर चाबुकोंकी मारके निशान भी पड़े हैं। मुझे संकेत कर उसने कहा- यही
चोर हैं ।
(६) उन राजपुरुषोंने इस बातको श्रवणकर उस ब्राह्मणको छोड़ दिया और मुझे
रस्सियोंसे कसकर बाँध दिया । रत्नप्राप्तिका सारा वृत्तान्त मैंने उनसे कह सुनाया । परन्तु