सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

१३२ दशकुमारचरितम्। [ उत्तरपीठिकायां

१३२ दशकुमारचरितम्। [ उत्तरपीठिकायां
कोशदासः—'भूयासमेवं यावदायुरयाताक्षि, त्वत्प्रसादस्य पात्रम्' इति।
मया तु सस्मितमभिहितम्-'सखे, किमेतदाशास्यम्। अस्ति किञ्चिदञ्ज-
नम्। अनया तदक्तनेत्रया राजसूनुरुपस्थितो वानरीमिवैनां द्रक्ष्यति, वि-
रक्तश्चैनां पुनस्त्यक्ष्यति' इति। तया तु स्मेरयास्मि कथितः-'सोऽयमार्ये-
णाज्ञाकरो जनोऽत्यर्थमनुगृहीतः, यदस्मिन्नेव जन्मनि मानुषं वपुरपनीय
वानरीकरिष्यते। तदास्तामिदम्। अन्यथापि सिद्धं नः समीहितम्।
(१३) अद्य खलु कन्दुकोत्सवे भवन्तमपहसितमनोभवाकारमभि-
लषन्ती रोषादिव शम्बरद्विपातिमात्रमायास्यते राजपुत्री। सोऽयमर्थो
एवं-एवं रूपेण। यावदायूः-यावत्कालं जीविष्यामीत्यर्थः। आयते दीर्घे अक्षि-
णी नेत्रे यस्यास्तत्सम्बुद्धौ। त्वत्प्रसादस्य तवानुग्रहस्य। पात्रं-भाजनम्। मया-
मित्रगुप्तेन। आशास्यम्-आशंकनीयम्। अत्राशंकायाः सम्भव एव नास्तीत्यर्थः।
अञ्जनं कजलम्। तदक्तनेत्रया-तेनाञ्जनेन अक्ते रञ्जिते नेत्रे यस्यास्तया। अनया
चन्द्रसेनया हेतुभूतयेत्यर्थः। वानरीमिव-वानराकृतिम्। एनां चन्द्रसेनाम्।
तया चन्द्रसेनया। स्मेरया-स्मितं कुर्वत्या। आर्येण पूज्येन भवता। आज्ञाकरः
सेवकः। सोऽयं जनः-अहमित्यर्थः। अत्यर्थमत्यन्तम्। मनुष्यस्येदमिति मानु-
षम्। वपुः शरीरम्। अपनीय-दूरीकृत्य। आस्तां तिष्ठतु अलमनेनेत्यर्थः।
अन्यथा मनुष्यस्य वानरीकरणं विनाऽन्येनाप्युपायेन। सिद्धं सम्पन्नम्। नोऽस्मा-
कम्। समीहितमभीष्टम्।
(१३) भवन्तमित्यादि-अपहसितस्तिरस्कृतो मनोभवस्य कन्दर्पस्याकारो येन
तादृशं भवन्तं मित्रगुप्तमित्यर्थः अभिलषन्ती आकांक्षन्ती राजपुत्री रोषात्क्रोधा-
और मुझे प्रणामकर एकान्तमें अपने पतिके कधस कंधा मिलाकर प्रेमपूर्वक बैठ गयीं।
प्रसन्नतासे कोशदासने कहा—'हे विशालाक्षि ! यावज्जीवन पर्यन्त मुझे आप इसी तरह
प्रेमपात्र बनाये रखियेगा !' मैने हँसकर कहा—'हे मित्र ! ऐसी आशङ्का ही क्यों करनी
चाहिये। एक तरहका अञ्जन (मेरे पास) है। उस अञ्जनसे परिरञ्जित होनेपर यह
चन्द्रसेना राजपुत्रको बन्दरियाकी तरह दिखायी पड़ेगी। और उस कारणसे राजकुमार
विरक्त होकर इसे नहीं देखेगा। उसने हंसकर मुझसे कहा-'हे आर्य ! यह' जन (चन्द्रसेना)
आपकी आज्ञाकारिणी आपसे अत्यन्त अनुगृहीत है। क्योंकि आप इसी जन्ममें इसे मानुषी
देहसे बन्दरियाके रूपमें परिणत करनेवाले हैं अस्तु, यह कृपा रहने दीजिये। अन्य
उपायोंद्वारा भी यह कार्य सम्पन्न हो जायगा।
(.१३) आज कन्दुकक्रीडामें कामदेवको तिरस्कृत करनेवाले आपको राजकुमारी

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
षष्ठोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३३३
विदितभावया मया स्वमात्रे तया च तन्मात्रे, महिष्या च मनुजेन्द्राय,
निवेदयिष्यते । विदितार्थस्तु पार्थिवस्त्वया दुहितुः पाणि ग्राहयिष्यति ।
ततश्च त्वदनुजीविना राजपुत्रेण भवितव्यम् । एष हि देवतासमादिष्टो
विधिः । त्वदायत्ते च राज्ये नालमेव त्वामतिक्रम्य मामवरोद्धुं भीमधन्वा
तत्सहतामयं त्रिचतुराणि दिनानि' इति मामामन्य प्रियं चोपगृह्य प्रत्य-
यासीत् ।
( १४ ) मम च कोशदासस्य च तदुक्तानुसारेण बहुविकल्पयतोः
दिव शम्बरद्विषा कामेनातिमात्रमप्यर्थम् आयास्यते पीड्यते । अयमर्थः विषयः ।
विदितभावया-ज्ञाताशयया । स्वमात्रे-निजजनन्यै-चन्द्रसेनाया मात्रे इत्यर्थः ।
तया चन्द्रसेनाजनन्य । तन्मात्रे तस्याः कन्दुकावत्या जनन्यै । महिष्या-राज्ञ्या
मनुजेन्द्राय राज्ञे । निवेदयिष्यते-कथयिष्यते । विदितार्थः-ज्ञातवृत्तान्तः । त्वया
मित्रगुप्तेन । दुहितुः स्वकन्यायाः कन्दुकावत्याः । पाणिं ग्राहयिष्यति-विवाहं
कारयिष्यतीत्यर्थः । ततः विवाहानन्तरम् । त्वदनुजीविना त्वदायत्तेन । देवतास-
मादिष्टः-दैवनिर्दिष्टः । विधिर्विधानम् त्वदायत्ते-भवदधीनीकृते । अलं समर्थः ।
त्वां भवन्तं मित्रगुप्तमित्यर्थः । अतिक्रम्योल्लंध्य । मां चन्द्रसेनामित्यर्थः । अवरोद्धुं
बलान्निरोद्धुम् । तत् तस्मात् । सहतां अपेक्षताम् । अयं-कोशदासः । मां मित्र-
गुप्तम् । आमन्त्र्य आभाष्य । प्रियं-दयितं कोशदासमिति यावत् । उपगृह्य
आलिङ्ग्य । प्रत्ययासीत् प्रतिगता ।
( १४ ) तदुक्तानुसारेण-चन्द्रसेना वचनानुसारेण । बहु अनेकप्रकारम् । विक-
ल्पयतोः-जल्पतोः विशेषणमिदम् मम च कोशदासस्य चेत्यनेन चकाराच्चित्तस्य
अभिलाष कर रही थी, इसी कारण कामदेव क्रोधसे राजकन्याको पीड़ित कर रहा है ।
राजकुमारीके भावको जाननेवाली मैं इन बातोंको अपनी मातासे कहूँगी, मेरी माता
राजकुमारीकी मातासे कहेगी और वे राजमाता अपने पतिसे निवेदित करेंगी। इन
बातोंको ज्ञातकर राजा अपनी पुत्रीका विवाह आपसे कर देंगे। तत्पश्चात् यह राजपुत्र
आपके ही अधीन हो जायगा । क्योंकि देवताने यही विधानकी आज्ञा दी है। जब यह
राज्य आपके अधिकारमें हो जायगा, तब यह राजपुत्र भीमधन्वा आपकी आज्ञाका
उल्लंघन करके मुझे रोक नहीं सकता-विवाह करनेसे । अत एव तीन-चार दिनोंके
कष्टोंको और झेलना चाहिये । ऐसे वाक्य मुझसे कहकर तथा अपने प्रियका आलिङ्गन
करके वह चन्द्रसेना चली गयी ।
(१४) हम लोगोंने, उसी चन्द्रसेनाके कथनानुसार उसके वाक्योंपर विचार विनिमय
Nepal Sanskrit University, Balmeeki Campus, Kathmandu