सामग्री पर जाएँ
सर्वकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 88, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 88

राजवाहनं विलोकयन्त्यतिष्ठत् ।
(८) सोऽपि तस्यास्तदोत्पादितभावरसानां सामग्र्या लब्धबलस्येव
विषमशरस्य शरव्यायमाणमानसो बभूव ।
(६) सा मनसीत्थमचिन्तयत्—'अनन्यसाधारणसौन्दर्येणानेन क-
स्यां पुरि भाग्यवतीनां तरुणीनां लोचनोत्सवः क्रियते । पुत्ररत्नेनामुना पु-
रन्ध्रीणां पुत्रवतीनां सीमन्तिनीनां का नाम सीमन्तमौक्तिकीक्रियते । कास्य
देवी । किमत्रागमनकारणमस्य । मन्मथो मामपहसितनिजलावण्यमेनं
विलोकयन्तीमसूययेवातिमात्रं मथ्नन्निजनाम सान्वयं करोति । किं करोमि
तथा राजवाहनः स्वलावण्येन अवन्तिसुन्दरीं समाचकर्षेति इति भावः ।
(८) सोऽपि राजवाहनोऽपि । तस्या अवन्तिसुन्दर्याः । तदा तस्मिन् काले
उत्पादिता जनिता ये भावा विकारास्त एव रसास्तेषां सामग्र्या समग्रतया पूर्णतये-
त्यर्थः लब्धं प्राप्तं बलं सामर्थ्यं येन तस्य । अन्योऽपि रसायनोपयोगाल्लब्धबलो
भवतीति प्रसिद्धमेव । विषमा अयुग्मसंख्यकाः पञ्च शरा बाणा यस्य तस्य, कामस्ये
त्यर्थः । शरव्यं लक्ष्यं तदिवाचरत् शरव्यायमाणं मानसं यस्य सः । सोऽपि तदा मद-
नबाणवेध्यो बभूवेत्यर्थः ।
(९) अनन्यसाधारणम् अद्वितीयं सौन्दर्यं यस्य तेन । पुरि नगर्याम् । लोच-
नोत्सवो नयनानन्दः । कुत्रायं निवसतीति भावः । पुत्रेषु रत्नमिव, पुत्रश्रेष्ठ इत्यर्थ-
स्तेन । सीमन्तिनीनां कामिनीनां मध्ये सीमन्तमौक्तिकीक्रियते शिरोभूषणीक्रियते ।
या खल्वस्य जननी सा तु सर्वसीमन्तिनीनां शिरोमणिरिति भावः । देवी महिषी ।
अपहसितं उपहासविषयं कृतं निजं स्वकीयं लावण्यं सौन्दर्यं कामस्येति शेषः येन
तम् । एनमित्यस्य विशेषणम् । असूयया अक्षमया। मथ्नन् पीडयन् । निजनाम
इनके कटाक्ष विक्षेप उस हिरणी (अवन्तिसुन्दरी) को फंसानेके लिये जाल बिछा रहे हैं
और उसी मोहजालमें वह फंस गयी—अर्थात् राजवाहनकी शोभा खूब देखने लगी ।
(८) कुमार राजवाहनका चित्त भी अवन्तिसुन्दरीके भावमय रसोंसे-कटाक्षविक्षेपों
से-वर्द्धित होकर कामदेवके बाणोंसे विद्ध हो गया ।
(९) वह अपने मनमें सोचने लगी—ये अनन्यसाधारण शोभाशाली राजकुमार
किस पुरकी सौभाग्यवती नारीके होंगे जो इन्हें देखकर प्रमुदित होगी । वे रमणियां धन्य
होंगी जो इन्हें देखकर नेत्र सफल करती होंगी । वह धन्य-धन्य पुत्रवती है जिसने इन्हें
पुत्ररूपमें प्राप्त किया है । अवश्य ही वह अंगना सर्वश्रेष्ठ होगी जो इन्हें पुत्र कहकर आनन्दित
होती होगी । न जाने इनकी वल्लभा कौन है ? ये इस उपवनमें क्यों आए ? हा, वह
मन्मथ भी इनके सौन्दर्यसे निर्जित ईर्ष्याके साथ देखनेवाली मुझ कुमारीको मथता है तथा