सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

३६२ दशकुमारचरितम् । [ उत्तरपीठिकायां

३६२ दशकुमारचरितम् । [ उत्तरपीठिकायां
च सहारिहस्तम् । निरस्तधैर्यस्तां स राजा नियतं संजिघृक्षेत् । तदसहा
च सा सती गरलसादिना सद्यः संतिष्ठेत । तस्यां च तादृशीं दशां गतायां
जनस्यास्यानन्यजेन हन्येत शरीरधारणा । सा का स्याद्गतिः' इति ।
(११) अत्रान्तर आन्ध्रनगरादागच्छन्नग्रजः कश्चिदैक्ष्यत । तेन चेयं
कथा कथिता—'यथा किल जयसिंहेनानेकनिकारदत्तसंघर्षणजिघांसितः
स कद्देनः कनकलेखादर्शनेधितेन रागेणारद्यत । सा च दारिका यक्षेण
केनचिदधिष्ठिता न तिष्ठत्यग्रे नरान्तरस्य । आयस्यति च नरेन्द्रसार्थसंग्र-
जनयित्र्या जनन्या । अरिहस्तं शत्रुवशम् । निरस्तधैर्यः—अधीरः । स राजा—
आन्ध्रराजः । नियतमवश्यम् । संजिघृक्षेत् संग्रहीतुमिच्छेत् स्ववशीकर्तुमिच्छेदिति
यावत् । सम्पर्वकग्रहधातोः सन्नन्ताद् विधिलिङ् । तदसहा—तस्य वशीभावं
सोढुमसमर्था । सा कनकलेखा । गरलसादिना विषादिभक्षणेन । सद्यस्तत्क्षणात् ।
संतिष्ठेत म्रियेत । तस्यां कनकलेखायाम् । तादृशीं दशां मृत्युम् । जनस्य अस्य•
ममेत्यर्थः । अनन्यजेन कामेन । 'कुसुमेषुरनन्यज' इत्यमरः । हन्येत नाश्येत ।
शरीरधारणा देहस्थितिः जीवनमित्यर्थः । गतिरभ्युपायः ।
(११) अत्रान्तरे एतस्मिन् समये । अग्रजो ब्राह्मणः । ऐक्ष्यत—दृष्टो-
ऽभवत् । तेन अग्रजेन । कथा वार्त्ता । अनेकेति—अनेकैर्नानाविधैर्निकारैर्यार्त-
नाभिर्दत्तेन संघर्षणेन पराभवेण जिघांसितो हन्तुमिष्टः । कनकलेखाया दर्शनेन
अवलोकनेन एधितो वर्धितस्तेन । रागेण प्रेम्णा । अरद्यत रक्षितोऽभवत् ।
कनकलेखायां जनितानुरागत्वादेव तत्पितरं कद्देनं न हतवानिति भावः । दारि-
का कन्या । यक्षेण गुह्यकेन । अधिष्ठिता आक्रान्ता । अग्रे सम्मुखे । नरान्तरस्य
अन्यपुरुषस्य । आयस्यति-सम्यक् चेष्टते । यसु प्रयत्ने इत्यस्य रूपम् । नरे-
न्द्रेति नरेन्द्रसार्थस्य तन्त्रमन्त्रवित्समाजस्य संग्रहेण समाहरणेन । तत्-यज्ञा-
पसन्द न करके तुरत ही अपने प्राणोंको, विषरस पान करके, त्याग देगा । उसकी
ऐसी दुर्दशा होनेपर इस जनकी ( मेरी ) क्या दशा होगी—कामदेवसे मेरा देह
नष्ट कर दी जायगी—कामदेव मुझे मार डालेगा । हा ! यह कैसी भयप्रद दशा होगी !"
(११) इसी विचारके समय आंध्र नगरसे आता हुआ एक ब्राह्मण दिखलाई
दिया । उसकेद्वारा यह कथा कही गयी—'यद्यपि राजा जयसिंह अनेक यातनाओं तथा
अपमानोंसे कर्दिनाधिपतिको मारना चाहता था, परन्तु, उसने उसकी पुत्री कनक-
लेखाका अवलोकन किया और उसपर ( कनकलेखापर) आसक्त हो गया । ( उत्पन्न हुए
विपुलानुरागसे ) अभीतक उसे मारा नहीं । किन्तु, उस कन्यापर कोई यक्ष सवार है ।

हणेन तन्निराकरिष्यन्नरेन्द्रो न चास्ति सिद्धिः' इति । तेन चाहं दर्शि-
ताशः शंकरनृत्यरणदेशजातस्य जरत्सालस्य स्कन्धरन्ध्रान्तर्जटाजालं
निष्कृष्य तेन जटिलतां गतः कन्थाचीरसंचयान्तरितसकलगात्रः कांश्चि-
च्छिष्यानग्रहीषम् । तांश्च नानाश्रर्यक्रियातिसंहिताज्जनादाकृष्टान्नचेला-
दित्यागान्नित्यहृष्टानकार्षम् । अयासिपं च दिनैः कैश्चिदान्ध्रनगरम् ।
( १२ ) तस्य नात्यासन्ने सलिलराशिसदृशस्य कलहंसगणदलित-
ष्ठिानम् । निराकरिष्यन् दूरीकरिष्यन् । नरेन्द्रो जयसिंहः । न चास्ति सिद्धिः—
महता प्रयत्नेनापि तत्कार्यं न सिद्धमित्यर्थः । तेन अग्रेजेन । दर्शिताशः प्रद-
शितमार्गः । दर्शिता आशा दिक् यस्मै स इति समासः । शंकरेति—शंकरस्य
शिवस्य नृत्यं ताण्डवं तस्य रङ्गदेशः रङ्गभूमिः श्मशानं तत्र जातस्योत्पन्नस्य ।
शिवस्य नृत्यं ताण्डवं तस्य रङ्गदेशः रङ्गभूमिः श्मशानं तत्र जातस्योत्पन्नस्य ।
जरत्सालस्य जीर्णवृक्षस्य । स्कन्धेति स्कन्धानां रन्ध्रस्य कोटरस्य अन्तर्मध्ये स्थितं
यज्जटाजालं शिफासमूहस्तत् निष्कृष्य आकृष्य तेन जटाजालेन जटिलतां जटा-
धरत्वं गतः प्राप्तः । कन्थेति-कन्थाचीरस्य जीर्णवस्त्रखण्डस्य सञ्चयेन संग्रहेण
अन्तरितं आच्छादितं सकलं गात्रं शरीरं येन तादृशोऽहम् । शिष्यान् भक्तानि-
र्यर्थः अग्रहीषं संगृहीतवान् । तान्-शिष्यान् । नानेति-नानाभिर्बहुविधाभिः
अद्भुतकर्मभिः अतिसंहितात् प्रतारितात् जनात् लोकात् आकृष्टानि संगृहीतानि
लब्धानीति यावत् । यानि अन्नचेलादीनि भोज्यवस्त्रादीनि । तेषां त्यागात् तेभ्यो
दानात् नित्यहृष्टान् सर्वदासन्तुष्टान् अकार्ष कृतवान् । अयासिपं-गतवान् ।
कैश्चित् कतिपयैः ।
( १२ ) तस्य आन्ध्रनगरस्य । नात्यासन्ने किञ्चिद्दूरे । सलिलराशिसदृशस्य
जिससे वह कन्या अन्य किसी पुरुषके सम्मुख नहीं आती है। राजा (आंध्रेश) उस
कन्या पर यक्ष दूर करानेके अनेकों उपाय मान्त्रिकों-तान्त्रिकोंसे करा रहे हैं, परन्तु,
अभीतक कोई सिद्धि नहीं प्राप्त हुई है।' उस विप्रकेद्वारा प्रदर्शित मार्ग पाकर
( आशान्वित होकर ) मैंने भगवान् शङ्करके तांडवके रंगस्थलमें ( श्मशानमें ) उत्पन्न
एक जीर्ण वृक्षके तने ( स्कन्धदेश ) के कोटर ( खोखला ) से जटा समूहको निकाल
लिया और अपने शिरपर धारणकर, जटाधारी रूपको बना लिया । अपने शरीरको
फटे-पुराने वस्त्रोंसे आच्छादित कर लिया । कुछ भक्तोंको भी एकत्र कर लिया । अनेक
प्रकारके अद्भुतकर्म दिखाकर दर्शकोंको मुग्धकर जो अन्य-वस्त्र उनसे प्राप्त करता वह
सब भक्तोंमें वितरित कर देता, जिससे मेरे सभी भक्तगण सन्तुष्ट थे । मैं कुछ भक्तों के
साथ कुछ दिनोंमें आंध्र देशमें गया ।
( १२ ) आंध्र देशके समीपमें ही ( थोड़ी दूरीपर ), समुद्रके तुल्य, और कलहंसों-