सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

२६६ दशकुमारचरितम् । [ उत्तरपीठिकायां

२६६ दशकुमारचरितम् । [ उत्तरपीठिकायां
रागसाध्वसं लक्षसुप्तः स्थितोऽस्मि । सापि किमप्युत्कम्पिना रोमोद्भेद-
वता वामपार्श्वेन सुखायमानेन मन्दमन्दजृम्भिकारम्भमन्थराङ्गी, त्वङ्गद-
ग्रपक्ष्मणोश्चक्षुषोरलसतान्ततारकेणानतिपक्कनिद्राकषायितापाङ्गपरभागेन
युगलेनेषदुन्मिषन्ती, त्रासविस्मयहर्षरागशङ्काविलासविभ्रमव्यवहितानि
व्रीडान्तराणि यानि कान्यपि कामेनाद्भुतानुभावेनावस्थान्तराणि कार्य-

आविद्धोऽनुस्यूतो राग आसक्तिः साध्वसं भयं च यस्मिंस्तत्तथा । अपूर्वकन्या-
लाभाद्रागः स्पृष्टा चेदार्त्तस्वरं कुर्यादिति साध्वसम् । लक्षसुप्तः कपटनिद्रितः । किं-
मियं करोतीति द्रष्टुं कपटनिद्रामधिगत इत्यर्थः । सा-कन्या । किमपि-किञ्चित् ।
उत्कम्पिना कम्पनशीलेन । रोमोद्भेदेवता-रोमाञ्चयुक्तेन । सुखायमानेन-सुखमनु-
भवता । वामपार्श्वेनेत्यस्य विशेषणम् । वामपार्श्वेनेत्यत्रोपलक्षणे तृतीया । मन्द-
मन्देति-मन्दमन्दं स्वरूपं यथा तथा जृम्भिकाया गात्रमोटनस्य आरम्भेण मन्थर-
मलसमङ्गं यस्याः सा । त्वङ्गदिति-स्वङ्गत् चलदग्रपक्ष्म पक्ष्माग्रं ययोस्तयोः । चक्षु-
षोरित्यस्याग्रिमेण युगलेनेत्यनेन सम्बन्धः । अलसेति-अलसे-मन्थरे महद्दर्शनार्थ-
मिति भावः । तथा तान्ते क्लान्ते निद्राया अपरिपक्वतेयति भावः, तारके कनीनिके
यत्र तेन । अनतिपक्ववेति-अनतिपक्कया असम्पूर्णया निद्रया कषायितो मलिनीकृतः
अपाङ्गयोर्नेत्रप्रान्तयोः परभागो गुणोत्कर्षो यस्य तेन तादृशेन चक्षुषोर्युगलेन ।
ईषत्-मन्दं मन्दम् उन्मिषन्ती-नेत्रोन्मीलनं कुर्वाणा । त्रासेति-त्रासः अपरिचितोऽयं
कथमागत इति भीतिः-विस्मयः-कथं सुरक्षितेऽपि गृहेऽस्यागम इति आश्चर्यम्,
हर्षः तथाविधमनोहरवपुर्दर्शनादानन्दम् रागः हर्षजनितोऽनुरागः, शङ्का-एवंविधा
मां विलोक्य किं कथयिष्यन्ति जना इत्याशङ्का । विलासः स्त्रीणां सात्त्विको भाववि-
शेषः । विभ्रमोऽपि तथा-अस्थाने वसनभूषणादीनां न्यासरूपः एतद्व्यवहितान्यनु-
विद्धानि, व्रीडान्तराणि-व्रीडा लज्जा अन्तरा मध्ये येषां तानि । कानि कानि अनिर्वच-

कन्याको अनुरागमसे जरा स्पर्श किया । पुनः इस शंकासे कि यह चिल्लायेगी कपटनिद्रासे सो
गया, पुनः उसका स्पर्श किया आदि । वह रमणी भी स्वोत्पन्न कुछ रोमाञ्चोंसे अपने
बायें पार्श्वसे सुखका अनुभव करती हुई, धीरे-धीरे आलस करती हुई अपने शरीरकी
प्रक्रिया प्रारम्भ करने लगी । कांपते हुए पक्ष्मोंसे आलस्यपूर्ण नयनोंको खोलनेसे तथा
उनमें पर्याप्त मात्रामें निद्रा न होनेके कारण व्यथित तथा अर्धविकसित नेत्रोंसे देखती
हुई मालूम पड़ी । अपरिचित पुरुषको देखनेसे उसे भय उत्पन्न हुआ । यह पुरुष यहां
किस तरह आया इसका ठीक ज्ञान न होनेसे उसे आश्चर्य हुआ । मेरे समान युवकके
दर्शनलाभसे उसे हर्ष हुआ । उसी हर्षके कारण उसे प्रेम भी उत्पन्न हुआ । इस प्रकार

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
पञ्चमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २६७

माणा, परिजनप्रबोधनोद्यतां गिरं कामावेगपरवशं हृदयमङ्गानि च साध्व-
सायाससम्बध्यमानस्वेदपुलकानि कथंकथमपि निगृह्य सस्पृहेण मधुरकू-
णितत्रिभागेन मन्दमन्दप्रचारितेन चक्षुषा मदङ्गानि निर्वर्ण्य, दूरोत्सर्पि-
तपूर्वकायापि तस्मिन्नेव शयने सचकितमशयिष्ट ।
(८) अजनिष्ट मे रागाविष्टचेतसोऽपि किमपि निद्रा। पुनरनुकूल-
स्पर्शदुःखायत्तगात्रः प्राबुध्ये । प्रबुद्धस्य च सैव मे महाटवी, तदेव तरु-
नीयानि, अवस्थान्तराणीत्यस्य विशेषणानि । अद्भुतानुभावेन=विस्मयकरप्रभावेण ।
अवस्थान्तराणि=दशाविशेषान् । कार्यमाणा=अनुभाव्यमाना । णिजन्तात् कृधातोः
कर्मणि शानच् । परिजनेति-परिजनानां सुप्तसहचरीणां प्रबोधनाय जागरणाय
उद्यतां प्रवृत्तां गिरं वाचम् । निगृह्येति वक्ष्यमाणया क्रियया सम्बन्धः । तथा अग्रेऽ-
पि । कामस्यावेग आवेशस्तस्य परवशमधीनम् तादृशं हृदयं चित्तं निगृह्येति शेषः ।
साध्वसेति-साध्वसेन भयेन य आयासः खेदस्तेन संबध्यमानानि जायमानानि स्वेद-
पुलकानि सघर्मरोमाञ्चानि येषु तानि । अङ्गानीत्यस्य विशेषणम् । निगृह्य निरुध्य
सस्पृहेण-सतृष्णेन । मधुरेति-मधुरं यथा तथा कूणितः सङ्कुचितः त्रिभागः प्रान्त-
भागो यस्य तेन । मन्दमन्दप्रचारितेन-ईषद्रीषत् सञ्चारितेन । चक्षुर्विशेषणान्ये-
तानि । निर्वर्ण्य-दृष्ट्वा । दूरोत्सर्पितेति-दूरमत्यन्तं उत्सर्पितं ऊर्ध्वीकृतं पूर्वकायं देह-
पूर्वभागो यया सा । सचकितं-सभयम् ।
(८) अजनिष्ट जाता । मे मम प्रमतेरित्यर्थः । रागाविष्टचेतसः-प्रेमपूर्ण-
मानसस्य । किमपि अनिर्वाच्यहेतुका । पुनरिति पुनः पुनरपि अननुकूलः अप्रियो
यः स्पर्शस्तेन यद्दुःखं खेदस्तेनायत्तमधीनं गात्रं शरीरं यस्य तादृशः । प्राबुध्ये-
मुझे देखकर लोग क्या कहेंगे इसपर शंका हुई । मुझ देखनेसे उसे जो सात्त्विकभाव
उत्पन्न हुआ उस कारण वह अपने अलंकार आदिको यथास्थान स्थित होनेपर भी
बीच-बीचमें उन्हें बजाकर सँवारती हुई तथा लज्जा दिखाती हुई और कामके बाणसे
पराधीन होकर अनेक रीतिसे अपने विचित्र अनुभावोंको करने लगी । अपने सखीजनों
को जगानेवाली उद्यत वाणीको, कामवेगसे परवश चित्तको, भयसे उत्पन्न जो खेद उससे
उद्भूत जो पसीनेकी बूँदें उनको और अपने रोमाञ्चोंको दबाती हुई वह बाला दिखाई
पड़ी । तृष्णाके साथ अपने नयनोंके तीन भागोंको बन्दकर चौथे भागसे धीरे-धीरे मेरे
शरीरको देखकर वह बाला अपनी देहके ऊपरी भागको अत्यन्त दूरकर उसी पलङ्गपर
भययुक्त हो सो गयी ।
(८) मेरे (प्रमतिके) अन्तःकरणमें उसका अनुराग प्रविष्ट हो गया । परन्तु मैं
कुछ निद्रित हो गया । फिर वही शरीरको कष्टप्रद शयन प्रतीत होने लगा । जब मैं
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF

तलम्, स एव पत्रास्तरो ममाभूत् । विभावरी च व्यभासीत् । अभूच्च मे
मनसि किमयं स्वप्नः, किं विप्रलम्भो वा, किमियमासुरी दैवी वा कापि
माया । यद्भावि तद्भवतु । नाहमिदं तत्त्वतो नावबुध्य मोक्ष्यामि भूमिश-
य्याम् । यावदायुरत्रत्यायै देवतायै प्रतिशयितो भवामि' इति निश्चितम-
तिरतिष्ठम् ।
( ६ ) अथाविर्भूय कापि रविकराभितप्तकुवलयदामतान्ताङ्गयष्टिः,
क्लिष्टनिवसनोत्तरीया, निरलक्तकरूक्षपाटलेन निःश्वासोष्मजर्जरितत्विषा
जागरितः । सैव पूर्ववदेव । पत्रास्तरः-पर्णशयनम् । निद्रापगमे पूर्ववदेव दशा
सञ्जातेति भावः। व्यभासीत्-प्रभाता । अयं-यन्मे महति प्रासादे तादृश्यास्तरुण्या
दर्शनं तत् । विप्रलम्भः प्रतारणम् । केनापि वञ्चितोऽहमस्मि किमित्यर्थः । माया-
छलना । तत्त्वतो-याथाथ्र्येन । न अवबुध्य-अज्ञात्वा । मोक्ष्यामि-त्यक्ष्यामि ।
यावदायुः-यावज्जीवनम् । अत्रत्यायै अरण्यस्थितायै । देवतां द्रष्टुमित्यर्थः ।
प्रतिशयितः-यावद्देवतागत्य वृत्तान्तममं न प्रकाशयेत्तावदशनादिकं परित्यज्यात्रैव
शयिष्ये इति प्रतिज्ञां कृत्वा शयितः । निश्चितमतिः-स्थिरबुद्धिः ।
( ९ ) आविर्भूय-सम्मुखमागत्य । कापीत्यादि विशेषणानि सीमन्तिन्याः ।
रविकरेति-रवेः सूर्यस्य करैः किरणैरभितप्तं सन्तप्तं यत्कुवलयदाम नीलोत्पलमाला
तद्वत् तान्ता क्लान्ता अङ्गयष्टिः देहलता यस्याः सा। क्लिष्टे जीर्णे निवसनोत्तरीये
परिधेयाच्छादने यस्याः सा । निरलक्तकोऽलक्तकरागशून्यः अत एव रूक्षः कर्कशः,
पाटलः स्वभावत रक्तश्च तेन । दन्तच्छदेनेत्यस्य विशेषणम् । निःश्वासोष्मणा तप्तनिः-
श्वासेन जर्जरिता म्लाना त्विट् कान्तिर्यस्य तेन । दन्तच्छदेन ओष्ठेन । वमन्तीव-
जगा तो अपनेको पुनः उसी अरण्यमें, उसी पेड़के नीचे, उस पत्र-शय्यापर सोया हुआ
पाया । रात्रि बीत गयी । मेरे अन्तःकरणमें चिन्ता व्याप्त हुई कि क्या यह स्वप्न था,
अथवा मै प्रतारित किया गया, अथवा दैवी या आसुरी ( राक्षसी ) माया थी ? जो भी
हो, सो हो। जबतक मैं इस रहस्यको न ज्ञात कर लूँगा तबतक इस भूमिपर सोना न
छोड़ूँगा। अपने जीवनभर यहीं रहूंगा-अर्थात् जबतक यहाँकी देवी मुझे आकर यह
रहस्य न बता देंगी तबतक यह स्थान न छोड़ूँगा। ऐसी दृढमतिकर मैं वहीं अवस्थित रहा।
( ९ ) इतनेमें ही, भगवान् सूर्यकी किरणोंद्वारा परितप्त कमलोंकी मालाके समान
क्लान्त और क्षीण देहवाली, एक अङ्गना दिखाई पड़ी। जिसके उत्तरीय वस्त्र जीर्ण
( पुराने ) थे। जिसके अधर अलक्त रागसे शून्य होनेसे किञ्चित् लाल दीख रहे थे।

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

पञ्चमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २६६
दन्तच्छदेन वमन्तीव कपिलधूमधूम्रं विरहानलम्, अनवरतसलिलधारा-
विसर्जनाद्रुधिरावशेषमिव लोहिततरं द्वितयमदणोरुद्वहन्ती, कुलचारित्र-
बन्धनपाशविभ्रमेणैकवेणीभूतेन केशपाशेन नीलांशुकचीरचूलिकापरिवृता
पतिव्रतापताकेव सञ्चरन्ती, क्षामक्षामापि देवतानुभावादनतिक्षीणवर्णाव-
काशा सीमन्तिनी, प्रणिपतन्तं मां प्रहर्षोत्कम्पितेन भुजलताद्वयेनोत्थाप्य
पुत्रवत्परिष्वज्य शिरस्युपाघ्राय वात्सल्यमिव स्तनयुगलेन स्तन्यच्छलात्प्र-
क्षरन्ती, शिशिरेणाश्रुणा निरुद्धकण्ठी स्नेहगद्गदं व्याहार्षीत्—
उद्गिरन्तीव-प्रकटयन्तीवेति यावत् । कपिलः पिङ्गलः यो धूमस्तेन धूम्रमारक्तश्यामं
तादृशं विरहानलं विच्छेदाग्निम् । अनवरतं निरन्तरं सलिलधारया अश्रुधा-
राया विसर्जनात् त्यागात् निरन्तराश्रुवर्षेणेत्यर्थः । रुधिरावशेषं शोणितमात्र-
मिव लोहिततरमतिरक्तमदृगोश्चक्षुषोर्द्वितयं युगलमुद्वहन्ती धारयन्ती, कुलं
वंशः चारित्रं पातिव्रत्यं तयोर्बन्धनाय पाशस्य रज्ज्वा इव विभ्रमो विलासो
यस्य तेन, एकवेणीभूतेन एकवेण्याकारेण केशपाशेन चिकुरकलापेनोपलक्षिता।
नीलं श्यामवर्णं यदंशुकचीरं वस्त्रखण्डं तन्निर्मिता या चूलिका कञ्चुलिका
तया परिवृता व्याप्ता । अत एव सञ्चरन्ती भ्रमन्ती । पतिव्रतायाः पताका वैज-
यन्तीव । पातिव्रत्यसूचिकेत्यर्थः । क्षामक्षामा-अतिकृशा । देवतानुभावात्-देव-
त्वप्रभावात् । अनतिक्षीणः-नातिमलिनो वर्णावकाशो वर्णोज्ज्वल्यं यस्याः सा
प्रणिपतन्तं-नमस्कुर्वन्तम् । मां-प्रमतिमित्यर्थः । प्रहर्षोत्कम्पितेन आनन्दातिशय-
वशाद् वेपथुमता । उपाघ्राय आलिङ्ग्य । वात्सल्यम् स्नेहरसम् । स्तन्यच्छलात्-
स्तनदुग्धव्याजेन । शिशिरेण-शीतलेन । निरुद्धकण्ठी-स्तब्धकण्ठस्वरा । व्याहा-
र्षीत् अवोचत् ।
गरम निःश्वासोंके पवनसे पीड़ित ओष्ठ कुछ लाल तथा धूमरङ्गके होकर विच्छेदाग्निको
खूब वमन कर रहे थे । जिसके दोनों नेत्र निरन्तर अश्रुधारा बहानेके कारण लाल-लाल
वर्णवाले दिखाई पड़ते थे । जो अपने वंशानुरूप चरित्रके सेवनके कारण बन्धन विभ्रमके
एकवेणी व्रतको पालन करती हुई नीले वस्त्र और नीले वस्त्रकी बनी हुई चोलीको धारण
किये हुए पतिव्रताकी ध्वजाके सदृश दीख रही थी । जो शरीरसे अत्यन्त दुर्बल होनेपर भी
देवताओंके प्रभावसे उज्ज्वल कान्तिवाली महिला दिखलायी पड़ती थी । जब उपर्युक्त
लक्षणोंवाली महिला दिखलायी पड़ी तो मैंने उसको प्रणाम करना चाहा । मुझे नतमस्तक
होते अवलोकन करके उस मान्य महिलाने अत्यन्त हर्षान्वित होकर अपनी काँपती
हुई भुजारूपी लताओं से उठा लिया और पुत्र के तुल्य मेरे शिर को सूँघ करके
२० द० कृ० उ०
Nepal Sanskrit University, Balmeeki Campus, Kathmandu