दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
६ दशकुमारचरितम् । [ पूर्वपीठिकायां
[Header]
६ दशकुमारचरितम् । [ पूर्वपीठिकायां
(३) तस्य वसुमती नाम सुमती लीलावतीकुलशेखरमणी रमणी बभूव ।
(४) रोषरूक्षेण निटिलाक्षेण भस्मीकृतचेतने मकरकेतने तदा भयेना-
नवद्या वनितेति मत्वा तस्य रोलम्बावली केशजालम्, प्रेमाकरो रजनी-
करो विजितारविन्दं वदनम् , जयध्वजायमानो मीनो जायायुतोऽक्षि-
युगलम्, सकलसैनिकाङ्गवीरो मलयसमीरो निःश्वासः, पथिकहृद्दलन-
करवालः प्रवालश्वाधरबिम्बम , जयशङ्खो बन्धुरा लावण्यधरा कन्धरा-
( ३ ) तस्य राजहंसस्य वसुमती नाम सुमती शोभनबुद्धिशालिनी, लीलाव-
र्तीनां कामिनीनां कुलस्य मण्डलस्य शेखरमणिः शिरोभूषणरूपा, रमणी पत्नी राज्ञी-
त्यर्थः, आसीत् ।
( ४ ) वसुमतीं विशिनष्टि—रोषेण तपोभङ्गकरणजनितेन कोपेन रूक्षो निष्ठुर-
स्तेन, निटिले भाले अक्षि चक्षुर्यस्य तेन शिवेन भस्मीकृता विनाशिता चेतना चैत-
न्यं यस्य तस्मिन्, भस्मीकृते इत्यर्थः, मकरकेतने कामदेवे सति, तदा भस्मीकरण-
काले भयेन सहचरनाशजनितसम्भ्रमेण वनिता कामिनी अनवद्या निर्दोषा अतः सैव
समाश्रयणीया, निर्दोषां तां महादेवोऽपि न धक्ष्यतीति मत्वा निश्चित्य तस्य मदनस्य
रोलम्बावली भ्रमरपङ्क्तिः मौर्वीरूपा तस्या वसुमत्याः केशजालं कुन्तलकलापः समभू-
दिव, वचनविपरिणामेन सर्वत्रान्वयः । प्रेम्णः आकरः खनिः, प्रीत्युत्पादकः, रजनीकर-
श्चन्द्रः, प्रधानसहायः कामस्य, विजितं कान्त्या तिरस्कृतं अरविन्दं कमलं येन तत्
तिरस्कृतकमलमित्यर्थः, तस्या वदनं मुखं ( समभूदिव ), जयध्वज इवाचरतीति
जयध्वजायमानः (केतनं ध्वजमस्त्रियाम्), कामस्य मीनध्वजत्वं प्रसिद्धमेव । जायया
स्वपत्न्या युतः समेतो मीनोऽक्षियुगलं तस्या नेत्रद्वन्द्वं ( समभूदिव ), अत्राक्षियुगलं
प्रस्तुत मतो मीनस्यापि जायायुतत्वमपेक्षितम् । सकलसैनिकानां निखिलमदनसैन्या-
नां अङ्गवीरः प्रधानयोधः, मलयसमीरो दक्षिणानिलः, मल्यानिलस्य कामोद्दीपक-
त्वात् । तस्या निःश्वासः प्राणवायुः, पथिकानां प्रोषितानां हृद्दलने हृदयभेदने करवालः
( ३ ) उनकी वसुमती नामकी महारानां पत्नी ) थीं जो अति सुन्दरी एवं वनिताओं
में मुकुटमणि थीं । ( सुमतीका सुमति दोनों प्रयोग सिद्ध हैं )
( ४ ) एकवार क्रोधसे रक्त नेत्रवाले त्रिनेत्र भगवान्ने अपनी नेत्राग्निसे कामदेवको
जलाकर भस्म कर दिया । तब कामदेवकी सभी सेनाने मानो भयभीत होकर उस महिला
( महारानी ) को निर्दोष समझकर अपने-अपने स्वरूपके अनुसार उस महारानीके प्रत्येक
अंगोंमें आश्रय लिया । भौरोंकी श्रेणियोंने केशोंका, प्रेमके आकर चन्द्रने कमलविजयी
मुखका, जयध्वज चिह्न अर्थात् सपत्नीक मछली-दम्पतीने नयनयुगलोंका, समस्त सेनामें
प्रधान योधा ( सेनापति ) मलयपवनने मुखपवनका, पथिकोंके हृदयोंको विदारित करनेमें
[Footer]
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
थमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ७
पूर्णकुम्भौ चक्रवाकानुकारौ पयोधरौ, ज्यायमाने मार्दवासमाने बिसलते
च बाहू, ईषत्फुल्ललीलावतंसकह्लारकोरको गङ्गावर्त्तसनाभिर्नाभिः, दूरी-
कृतयोगिमनोरथो जैत्ररथोऽतिघनं जघनम् , जयस्तम्भभूते सौन्दर्यभूते
विघ्नितयतिजनारम्भे रम्भे चोरुयुगम् , आतपत्रसहस्रपत्रं पादद्वयम् ,
अस्त्रभूतानि प्रसूनानि तानीतराण्यङ्गानि च समभूवन्निव ।
कृपाणरूपः नूतनतरुपल्लवदर्शनेन पान्थानां हृदयमतितरां पीड्यते । प्रवालः किसल-
यञ्च अधरबिम्बं तस्या ओष्ठाधरौ, जयशङ्खः कामस्य विजयध्वनिकारकः शङ्खो बन्धुरा
उन्नतानता लावण्यधरा सौन्दर्यशालिनी तस्याः कन्धरा ग्रीवा, पूर्णकुम्भौ कामस्य
विजययात्रयामपेक्षितौ जलपूर्णकलशौ चक्रवाकानुकारौ चक्रवाकं पक्षिविशेषं अनु-
कुरुत इति, तत्सदृशावित्यर्थः, पयोधरौ तस्याः स्तनौ, ज्यायमाने मौर्वीसद्दश्यौ,
मार्दवे कोमलतायामसमानेऽतुलनीयेऽतिकोमले इति शेषः । बिसलते मृणालद्वयं
बाहू तस्या भुजौ, बाह्वोर्मृणालसादृश्यं कविप्रसिद्धम् । ईषत्फुल्लः स्वल्पविकसितो
लीलावतंसः कामस्य विलासभूषणं कह्लारकोरकः सौगन्धिककुङ्मलो गङ्गायास्तदा-
ख्यप्रसिद्धनद्या आवर्त्तस्य अम्भसां भ्रमस्य (स्यादावर्त्तोऽम्भसां भ्रम इत्यमरः )
सनाभिः सदृशस्तस्या नाभिः, दूरीकृतोऽपनीतो योगिनां तपश्चारिणां मनोरथो ध्या-
नाभिलाषो येन स तादृशो जैत्ररथः कामस्य जयनशीलरथः अतिघनमपिनिविडं
जघनं तस्याः कटिपुरोभागः, जयस्तम्भभूते कामस्य विजयस्तम्भस्वरूपे सौन्दर्यभूते
मनोरमत्वमधिगते, विघ्नितः विघ्नयुक्तः कृतो यतिजनानां संयमिनामारम्भो ध्यानो-
द्योगो याभ्यां ते, रम्भे कदल्यौ च तस्या ऊरुयुगं सक्थियुगलम् , आतपत्रं छत्रं तद्रूपं
कामस्य सहस्रपत्रं कमलं पादद्वयं तस्याश्चरणयुगलम्, तानि प्रसिद्धानि अस्त्रभूतानि
कामस्य बाणभूतानि प्रसूनानि पुष्पाणि अरविन्दादीनि इतराणि पूर्ववर्णितभिन्नानि
वसुमत्या अङ्गानि उदारादीनि समभूवन्निव जातानीव (उत्प्रेक्षा) ।
तलवारके समान नये पल्लवों ने अधरोष्ठोका, विजयशङ्ख के निम्नोन्नत लावण्यने ग्रीवा
का, दोनों पूर्णकुम्भोंने चक्रवाकके समान दोनो स्तनोंका, धनुषकी प्रत्यंचाने कमलके मृदु
तन्तुके समान बाहुओंका, किञ्चित् विकसित लाल-लाल कमलके कर्णाळङ्कार ने गङ्गाके आवर्त्त-
सदृश नाभिका, योगियोंके मनोरथोंको अर्थात् समाधि द्वारा परब्रह्म परमात्माकी प्राप्तिकी
अभिलाषाको दूर करनेवाले कामदेवके जैत्ररथने जघनस्थलका, मुनियोंके योगाभ्यासमें
विघ्नबाधा उपस्थित करनेवाले केलेके (स्तम्भों) खम्भोंने दोनों जाँघोंका, छत्रके सदृश
सहस्रपत्र (कमल) ने दोनों पैरोंका, तथा अन्य पुरुषोंने, जो कामके शस्त्र थे, उसके शेष
अंगोंका आश्रय लिया ।
[कामदेवके अस्त्र-शस्त्रोंने उस रानीके अंगोंमें वास कर लिया अर्थात् उस रानीके
मुख आदि चन्द्रादिके सदृश थे ।]
Nepal Sanskrit University, Balmeeki Campus, Kathmandu