दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
३७४ दशकुमारचरितम् । [ उत्तरपीठिकायां
३७४ दशकुमारचरितम् । [ उत्तरपीठिकायां
शतानि, तामगत्यन्तरामात्मवश्या मकरोत् । तदिदमुक्तम्—'दुष्करसाधनं
प्रज्ञा' इति ।
( ४८ ) इदमाकर्ण्य ब्रह्मराक्षसो मामपूजयत् । अस्मिन्नेव क्षणे नाति-
प्रौढपुंनागमुकुलस्थूलानि मुक्ताफलानि सह सलिलबिन्दुभिरम्बरतलाद-
पतन् । अहं तु 'कि न्विदम्' इत्युच्चक्षुरालोकयन्कमपि राक्षसं काञ्चिदङ्गनां
विचेष्टमानगात्रीमाकर्षन्तमपश्यम् । कथमपहरत्यकामापि स्त्रियमनाचारो
नैर्ऋतः इति गगनगमनमन्दशक्तिरशस्त्रश्चातप्ये । स तु मत्संबन्धी ब्रह्म-
राक्षसः 'तिष्ठ तिष्ठ पाप, क्वापहरसि' इति भर्त्सयन्नुत्थाय राक्षसेन
समसृज्यत ।
न्तरमन्यागतिर्यस्यास्ताम् । दुष्करसाधनं प्रज्ञा बुद्धिवलेन दुष्करमपि साधयितुं
शक्यते इति भावः ।
(४८) नातिप्रौढेति-नातिप्रौढानि अनतिपुष्टानि यानि पुंनागमुकुलानि
बकुलकलिकाः तद्वत् स्थूलानि । मुक्ताफलानि मौक्तिकानि । अहं मित्रगुप्तः ।
उच्चक्षुः-ऊर्ध्वीकृतनेत्रः । विचेष्टमानगात्रीं वेपमानावयवाम् । अकामां अनिच्छ-
न्तीम् । अनाचारः दुराचारः नैर्ऋतः राक्षसः । गगनेति-गगनगमने आकाशत-
ल्लारोहणे मन्दा हीना शक्तिः सामर्थ्यं यस्य सः । अतप्ये तापमभजम् । मत्सम्ब-
न्धी-मत्सम्पर्कितः सुहृद्भूत इति यावत् । उत्थाय गगन्नतले इति शेषः । सम-
सृज्यत-संस्पृष्टोऽभवत् अयुध्यतेति शेषः ।
उपायको रचा । अतः हे प्रिये ! इस सेवकपर अनन्यगति होकर प्रसन्न हो । ऐसा कहकर
वह कलहकंटक उस नितम्बवतीके चरणोंपर बार-बार शीश धरने लगा । बहु प्रकारसे
सान्त्वना देकर उस रमणीको जिसकी दूसरी गति नहीं थी, अपने वशमें कर लिया ।
इसीसे कहा है-'दुष्कर साधन भी बुद्धिसे साधे जा सकते हैं।'
(४८) इन बातोंको श्रवण करके उस ब्रह्मराक्षसने मेरी पूजा की । उसी समय
आकाशसे अनतिप्रौढ़ बकुलकी कलीके सदृश मोतीके दाने, जलबिन्दुओंके सहित
गिरे । मैंने (मित्रगुप्तने ) 'यह क्या है' ज्ञात करनेके लिये ऊपर नेत्रोंको किया तो
देखा कि कोई एक राक्षस किसी कम्पित अङ्गवाली अङ्गनाको पकड़े लिये जा रहा है ।
यह राक्षस इस अनिच्छित महिलाको क्योंकर जबर्दस्ती पकड़े लिये जा रहा है ?'
ऐसा सोचते हुए तथा आकाशमें जानेकी शक्तिमे हीन एवं शस्त्ररहित मैं सन्ताप करने
लगा । मेरे सुहृद् उस ब्रह्मराक्षसने कहा—'ठहरो, ठहरो, पापी ! कहां लिये जाते हो ?'
इस प्रकारसे डराते हुए वह आकाशकी ओर उड़ा । और वहां उसके साथ संश्लिष्ट हो
युद्ध करने लगा ।
[Header]
षष्ठोच्छ्वासः] | वासन्तिकी हिन्दीटीकयासहितम् । ३७५
(४९) तां तु रोषादनपेक्षापविद्धाममरवृक्षमञ्जरीमिवान्तरिक्षादाप-
तन्तीमुन्मुखप्रसारितोभयकरः कराभ्यामग्रहीषम् । उपगृह्य च वेपमानां
सम्मीलिताक्षीं मदङ्गस्पर्शसुखेनोद्भिन्नरोमाञ्चां तादृशीमेव तामनवतार-
यन्नतिष्ठम् । तावत्तावुभावपि शैलशृङ्गभङ्गैः पादपैश्च रभसोन्मूलितैर्मुष्टि-
पादप्रहारैश्च परस्परमक्षपयेताम् । पुनरहमतिमृदुनि पुलिनवति कुसुमद-
बलाञ्छिते सरस्तीरेऽवरोप्य सस्पृहं निर्वर्णयंस्तां मत्प्राणैकवल्लभां
राजकन्यां कन्दुकावतीमलक्षयम् ।
(५०) सा हि मया समाश्वास्यमाना तिर्यङ्मामभिनिरूप्य जातप्र-
(४९) तां अपहियमाणां स्त्रियम् । रोषात् क्रोधात् अनपेक्ष्येति-अनपेक्ष्या
निरपेक्षतया अपविद्धां त्यक्ताम् । अमरवृक्षमञ्जरी कल्पतरुमञ्जरीम् । उन्मुखेति=
उन्मुखौ प्रसारितौ आततीकृतौ उभयकरौ येन सः । उपगृह्य गृहीत्वा । वेपमानां
कम्पमानाम् । संमीलिताक्षीम्-निमीलितनयनाम् । मदंगेति-मदङ्गस्य मद्देहस्य
स्पर्शेन यत् सुखं तेन । उद्भिन्नरोमाञ्चां उद्गतपुलकाम् । तादृशीं तदवस्थाम् ।
अनवतारयन्-भूमावस्थापयन् । उभौ राक्षसब्रह्मराक्षसौ । शैलशृङ्गभंगैः पर्व्वत-
शिखरशकलैः । पादपैः वृक्षैः । रभसान्मूलितैः-वेगादुत्पाटितैः । मुष्टिपादप्रहारैः
मुष्टिप्रहारैः पादप्रहारैश्च । परस्परमन्योन्यम् । अक्षपयेतां नाशितवन्तौ । अति-
मृदुनि-अतिकोमले । पुलिनवति-सिकतामये । कुसुमवललाञ्छिते-पुष्पशकल-
शोभिते । अवरोप्य स्वभुजादवतार्य तामिति शेषः । सस्पृहं सानुरागम् । निर्वर्ण-
यन् निरूपयन् । मत्प्राणैकवल्लभां समहृदयैकदयिताम् । अलक्षयम्-अपश्यम् ।
(५०) सा कन्दुकावती । समाश्वास्यमाना सान्त्व्यमाना । तिर्यक्-वक्री-
(४९) युद्धके समय रोषके साथ उपेक्षित भावसे परित्यक्त आकाशसे गिरती हुई
उस महिलाको कल्पवृक्षकी मञ्जरीके समान ऊपरकी ओर मुख करके तथा दोनों हाथोंको
फैलाकर मैंने रोक लिया । रोकनेके पश्चात् निमीलित नयनवाली एवं काँपती हुई तथा
मेरे शरीरके स्पर्शसुखसे रोमाञ्चित होनेवाली उस महिलाको मैं उसी दशा में अपने
हाथोंपर लिये हुए खड़ा रहा । वे दोनों (राक्षस-ब्रह्मराक्षस) परस्पर वेगसे उखाड़े हुए
पहाड़ोंके शिखरोंके टुकड़ोंसे, पेड़ोंसे, मुष्टियोंसे, लातोंसे लड़ते हुए विनष्ट हो गये ।
फिर मैंने अत्यन्त कोमल बालुकापर जहांपर पुष्पांश पड़े हुए थे, तालाबके किनारे उस
रमणीको सानुराग देखा तो प्रतीति हुई कि वह रमणी मेरी हृदयवल्लभा राजपुत्री
कन्दुकावती है।
(५०) मेरे द्वारा समाश्वासित होनेपर उस रमणीने तिरछी दृष्टिसे जरा मुझे देखा