दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
६ | दशकुमारचरितम् । | पूर्वपीठिकायां
६ | दशकुमारचरितम् । | पूर्वपीठिकायां
(५) विजितामरपुरे पुष्पपुरे निवसत सानन्तभोगलालिता बसुमती
वसुमतीव मगधराजेन यथासुखमन्वभावि ।
(६) तस्य राज्ञः परमविधेया धर्मपालपद्मोद्भवसितवर्मनामधेया धीर-
धिषणावधीरितविबुधाचार्यविचार्याकार्यसाहित्याः कुलामात्यास्त्रयोऽभूवन् ।
(७) तेषां सितवर्मणः सुमतिसत्यवर्माणौ, धर्मपालस्य सुमन्त्रसुमि-
त्रकामपालाः, पद्मोद्भवस्य सुश्रुतरत्नोद्भावाविति तनयाः समभूवन् ।
(८) तेषु धर्मशीलः सत्यवर्मा संसारासारतां बुद्ध्वा तीर्थयात्राभि-
लाषी देशान्तरमगमत् ।
(९) विटनटवारनारीपरायणो दुर्विनीतः कामपालो जनकाग्रजन्मनोः
शासनमतिक्रम्य भुवं बभ्राम ।
(५) विजितं समृद्ध्या तिरस्कृतममरपुरमन्द्रनगरं येन तस्मिन् । अनन्तभो-
गेन नानासुखोपभोगेन लालिता पुष्टा । वसुमती पृथिवीव । सापि अनन्तस्य वासुकेः
भोगेन फणेन मस्तकेनेति यावत्, लालिता धृता । वसुमती महिषी । मगधराजेन
राजहंसेन । अन्वभावि सम्भुक्ता ।
(६) परमविधेया अतिविनीताः । धीरधिषणया स्वतीक्ष्णबुद्ध्याऽवधीरितानि
अवज्ञातानि विबुधाचार्यस्य बृहस्पतेरपि विचार्याणां विचारणीयानां कार्याणां साहि-
त्यानि समूहा यैस्ते अतीवगम्भीरबुद्धय इत्यर्थः। कुलामात्या वंशपरम्परागत मन्त्रिणः।
(७) तेषां कुलामात्यानां मध्ये । निर्धारणे षष्ठी ।
(८) संसारस्य असारतां नश्वरतया तुच्छताम् । देशान्तरमन्यदेशम् ।
(९) विटो धूर्तः नटः शैलूषः, वारनारी वेश्या तासु परायणस्तत्पर आसक्त इत्य-
(५) इन्द्रपुरीको भी अपनी सुन्दरतासे जीतनेवाली पुष्पपुरी नगरीमें रहते हुए उस
राजा राजहंसने अनन्त (शेषनाग) के भोग (फणों) से लालित (धारण की हुई) पृथ्वीके
समान परिमित भोग्य पदार्थोंसे प्रमुदित वसुमती रानीके साथ सुखपूर्वक विहार किया ।
(६) उन महाराजके परम विनीत, अपनी गम्भीर बुद्धिसे सुरगुरुको भी विचारणीय
कार्य साहित्यमें अनादृत करनेवाले धर्मपाल, पद्मोद्भव और सितवर्मा नामके तीन कुल-
मन्त्री थे ।
(७) उन मन्त्रियोंमें सितवर्माके सुमति और सत्यवर्मा, धर्मपालके सुमन्त्र, सुमित्र
और कामपाल तथा पद्मोद्भवके सुश्रुत और रत्नोद्भव नामक पुत्र हुए ।
(८) उन पुत्रोंमेंसे धर्मशील सत्यवर्मा संसारको असार जानकर, तीर्थाटनकी इच्छासे
देशान्तरमें चला गया ।
(९) विट, नट तथा वारविलासिनियों (वेश्याओं) में अनुरागी एवं दुर्विनीत काम-
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ६
(१०) रत्नोद्भवोऽपि वाणिज्यनिपुणतया पारावारतरणमकरोत् ।
(११) इतरे मन्त्रिसूनवः पुरन्दरपुरातिथिषु पितृषु यथापूर्वम-
न्वतिष्ठन् ।
(१२) ततः कदाचिन्नानाविधमहदायुधनेपुण्यरचितागण्यजन्यराज-
न्यमौलिपालिनिहितनिशितसायको मगधनायको मालवेश्वरं प्रत्यग्रसङ्ग्रा-
मघस्मरं समुत्कटमानसारं मानसारं प्रति सहेलं न्यक्कृतजलधिनिर्घोषा-
हङ्कारेण भेरीझाङ्कारेण हठिकाकर्णनाक्रान्तभयचण्डिमानं दिग्दन्तावलवलयं
र्थः । दुर्विनीतो दुर्निवारोऽशिष्टो वा । जनकाग्रजन्मनोः पितुर्ज्येष्ठसहोदरस्य च ।
शासनादेशम् ।
(१०) पारावारतरणं समुद्रलङ्घनेन द्वीपान्तरगमनम् ।
(११) इतरे अन्ये । पुरन्दरपुरस्य महेन्द्रनगरस्यातिथिषु प्राघुणिकेषु सत्सु,
स्वर्गंतेषु मृतेषु इति शेषः । यथापूर्वं पितृपुरुषानुक्रमेण । अन्वतिष्ठन्मन्त्रित्वमकुर्वन् ।
(१२) नानाविधानामनेकप्रकाराणां महतां विशालानामायुधानाम्स्त्राणां नैपु-
ण्येन प्रयोगकौशलेन रचितेषु सम्पादितेष्वगण्येष्वसंख्येयु जन्येषु युद्धेषु राजन्यानां
क्षत्रियाणां मौलिपालिषु किरीटप्रान्तभागेषु निहिता निक्षिप्ता निशितास्तीक्ष्णाः
सायका बाणा येन सः । विजितानेकभूपाल इत्यर्थः । मगधनायको राजहंसः । मा-
लवेश्वरं मालवाधिपतिम् । प्रत्यग्रे नवीने संग्रामे युद्धे घस्मरं शत्रु भक्षणशीलम् । समु-
त्कटोऽतिशयितो मानो बलमदं एव सारः स्थिरांशो यस्य तम् । मानसारं तन्नामानं
नरपतिं प्रति लक्ष्यीकृत्य । सहेलं सावज्ञम् । न्यक्कृतस्तिरस्कृतो जलधेः सागरस्य
निर्घोषाहङ्कारो निर्घोषविषयेऽभिमानो येन तथाविधेन भेरीझाङ्कारेण दुन्दुभिशब्देन
हठिकाकर्णनात् सहसा श्रवणात् आक्रान्तः प्राप्तो भयस्य चण्डिमा चण्डत्वं यं तम् ।
दिग्यां ये दन्तावला गजा ऐरावतादयस्तेषां वलयं मण्डलं विघूर्णयन् सञ्चालयन् ।
पाल अपने पिता तथा बडे भाइयोंकी शिक्षाओंका अनादर करके भूलोकमें इतस्ततः भ्रमण
करने लगा ।
(१०) रत्नोद्भव व्यापारमें कुशल होकर समुद्र पार करके द्वीप-द्वीपान्तरोंमें यात्रा
करने चला गया ।
(११) अन्य शेष मन्त्रियोंके पुत्र अपने-अपने पिताओंकी मृत्युके पश्चात् उनके
स्थानमें-पिताओंके पदोंपर-कार्य करने लगे ।
(१२) तब एक वार, अनेक प्रकारके शस्त्रोंकी कलाओंमें निपुण एवं कई वार युद्ध
करनेमें प्रवीण, नृपतियोंके सिरोंमें तेज-तेज बाण मारनेवाले मगधदेशाधिपति, थोड़े ही
दिनों पहले समरमें विजय प्राप्त करनेवाले प्रबलाभिमानी मालवेश्वर मानसारके ऊपर क्रोध
Nepal Sanskrit University, Balmeeki Campus, Kathmandu