सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

२४२ | दशकुमारचरितम् । | [ उत्तरपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF

२४२ | दशकुमारचरितम् । | [ उत्तरपीठिकायां

तापसी देशान्तरभ्रमणलब्धप्रागल्भ्या मम च मातृभूता । तयेदमालेख्य-
रूपं पुरस्कृत्याहमुक्ता—‘सोऽस्ति तादृशो मन्त्रो येन त्वमुपोषिता पर्वणि
विविक्तायां भूमौ पुरोहितैर्हुतमुक्ते सप्तार्चिषि नक्तमेकाकिनी शतं चन्दन-
समिधः, शतमगुरुसमिधः, कर्पूरमुष्टीः, पट्टवस्त्राणि च प्रभूतानि हुत्वा
भविष्यस्येवमाकृतिः ।
( २५ ) अथ चालयिष्यसि घण्टाम् । घण्टापुटकणिताहूतश्च भर्ता ते
भवत्यै सर्वरहस्यमाख्याय निमीलिताक्षो यदि त्वामालिङ्गेत, इयमाकृतिर-
प्राप्ता चेदित्यर्थः । देशान्तरेति-देशान्तराणां अनेकदेशानां भ्रमणेन गमनेन लब्धं
प्राप्तं प्रागल्भ्यं पटुत्वं अभिज्ञतेति यावद् यया सा । मातृभूता मातृस्वरूपा ।
तया-तापस्या । आलेख्यरूपं-चित्रसौन्दर्यम् । पुरस्कृत्य-विषयीकृत्य-अग्रे संस्था-
प्येति वा । तादृशः-प्रभावसम्पन्नः । येन-मन्त्रेण । उपोषिता-निराहारा । पर्वणि-
अमावास्यादौ । विविक्तायां-पवित्रायाम् । निर्जनायां वा । हुतमुक्ते-आदौ हुतः
पश्चान्मुक्तस्तस्मिन् । सप्तार्चिषि-अग्नौ । नक्तं-रात्रौ । चन्दनसमिधः चन्दन-
काष्ठानि । अगुरुसमिधः अगुरुकाष्ठानि । कर्पूरमुष्टीः-कर्पूरचूर्णानि । पट्टवस्त्राणि-
कौषेयवसनानि । एवमाकृतिः-एवमेतादृशी आकृतिर्यस्याः सा ।
( २५) अथ-तादृशाकृतिप्राप्त्यनन्तरम् । चालयिष्यसि-वादयिष्यसि । घण्टां-
वाद्यविशेषम् । घण्टापुटेति-घण्टापुटस्य कणितेन प्रतिशब्देनाहूत आकारितः ।
भर्ता-तव पतिः । भवत्यै तव समीप इत्यर्थः । सर्वरहस्यं गुप्तविषयान् । आख्याय-
कथयित्वा । निमीलिताक्षः-मुद्रितनेत्रः । त्वां-भवतीं कल्पसुन्दरीमिति यावत् ।

नृपतिसे फिर से कहें—'यदि ऐसा है तो कोई एक तपस्याशीला साध्वी है जिसने
अनेक देश-देशान्तरोंमें पर्यटन करके पटुता प्राप्त की है तथा वह साध्वी मेरी माताके
सदृश भी है। उसी साध्वीने यह चित्रपट मेरे सम्मुख रख करके कहा है—'मेरे पास
एक ऐसा मन्त्र है जिसके द्वारा आप निराहार हो करके अमावास्याकी तिथिमें किसी
निर्जन भूमिमें पुरोहितोंके द्वारा हवन करावें और उस हवनकी शेष अग्निमें रातके
समय अकेली आकर एक सौ चन्दनकी लकड़ी, एक सौ अगुरुकी लकड़ी तथा कर्पूरके
चूर्णसे एवं रेशमी वस्त्रोंसे प्रचुरमात्रामें हवन करेंगी तो आप भी इसी प्रकारकी आकृति-
वाली हो जायँगी ।
( २५ ) इसके पश्चात् घंटा बजा देंगी और घंटाके शब्दोंको श्रवण करके आपके
पतिदेव आ करके अपने सभी गुप्तभेदोंको सुना करके यदि आँखें बन्द करके आपका
आलिङ्गन करेंगे तो वे भी इसी चित्रपटकी आकृतिके समान हो जायंगे । और आपकी

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २४३
मुमुपसंक्रामेत् । त्वं तु अविष्यसि यथापुराकारैव यदि भवत्यै भवत्प्रियाय
चैवं रोचेत, न चास्मिन्विधौ विसंवादः कार्यः' इति । 'वपुश्चेदिदं तवा-
भिमतं सह सुहृन्मन्त्रिभिरनुजैः पौरजानपदैश्च संप्रधार्य तेषामप्यनुमते
कर्मण्यभिमुखेन स्थेयम्' इति ।
( २६ ) स नियतमभ्युपैष्यति । पुनरस्यामेव प्रमदवनवाटीशृङ्गाटि-
कायामाथर्वाणिकेन विधिना संज्ञपितपशुनाभिहुत्य मुक्ते हिरण्यरेतसि-
तद्धूमशमनेन संप्रविष्टेन मयास्मिन्नेव लतामण्डपे स्थातव्यम् । त्वं
पुनः प्रगाढायां प्रदोषवेलायामालपिष्यसि कर्णे कृतनर्मस्मिता विकट-
अमुं-तव भर्त्तारम् । उपसंक्रामेत्-संक्रान्ता भवेत् । यथापुराकारा यथापूर्वाकृतिः ।
भवत्प्रियाय-त्वद्भर्त्रे । एवं-पूर्वोक्तम् । रोचेत-यद्यभिमतं स्यात् । विधौ-प्रयोजने ।
विसंवादः-अन्यथाबुद्धिः । इदमेतादृशम् । अभिमतं-सम्मतम् । अनुजैः सहोदरैः ।
पौरजानपदैः नागरिकैः । सम्प्रधार्य-निश्चित्य । तेषां-सुहृन्मन्त्र्यादीनाम् । अनुमते-
संमते । अभिमुखेन-उद्युक्तेन । स्थेयं-स्थातव्यम् ।
( २६ ) स विकटवर्मा । नियतम् अवश्यम् । अभ्युपैष्यति-स्वीकरिष्यति ।
प्रमदवनेति-प्रमदवनवाट्याः क्रीडोद्यानस्य शृङ्गाटिकायां-चतुष्पथे । आथर्वाणि-
केन-अथर्ववेदोपदिष्टेन विधिना अनुष्ठानेन । संज्ञपितपशुना-संज्ञपितो घातितः
पशुश्छागादिर्यस्मिन् तेन-विधिविशेषणमेतत् । अभिहुत्य-होमं सम्पाद्य । मुक्ते-
विसृष्टे । हिरण्यरेतसि-वह्वौ । तद्धूमशमनेन-तस्य धूमस्य शमनेन निवृत्त्या सहेति
शेषः । मया-उपहारवर्मणेत्यर्थः । त्वं कल्पसुन्दरीत्यर्थः । प्रगाढायां सान्द्रतिमिरा-
याम् । प्रदोषवेलायां रजनीमुखे । आलपिष्यसि-कथयिष्यसि । कर्णे विकटवर्म-
( रानी कल्पसुन्दरीकी ) आकृति फिर पूर्ववत् हो जायगी । यदि यह वार्ता आपके
पतिदेवकी अभिमत हो तो इस विधिमें कोई सन्देह आदि न करें । यदि आपको ऐसे
स्वरूपधारी बननेकी अभिलाषा है तो आप अपने मित्रों, मन्त्रियों, अनुजों और पुर-
वासियोंसे विचार करके उन सबकी अनुमतिसे इस कार्यमें प्रवृत्त होवें ।'
( २६ ) वह नृपति विकटवर्मा अवश्य ही स्वीकार करेगा । फिर इसी क्रीडोद्यानके
चतुष्पथके ऊपर अथर्ववेदके विधानद्वारा हवन किये हुए पशुका हवन करा करके अव-
शिष्ट अग्निके धूएंकी निवृत्तिके बाद मैं ( उपहारवर्मा ) लतामण्डपमें प्रविष्ट हो करके
बैठा रहूँगा आप भी घोर अन्धकारवाले प्रदोषकालमें अपने पतिके कानोंमें मुसकुरा
करके कहियेगा कि ( हे देव !) आप बड़े धूर्त्त हैं । आप बड़े अकृतज्ञ हैं । मेरे प्रसादसे