दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
२४ दशकुमारचरितम् । [ पूर्वपीठिकायां
२४ दशकुमारचरितम् । [ पूर्वपीठिकायां
( ५२ ) अथ कदाचिदेकेन तापसेन रसेन राजलक्षणविराजितं कश्चि-
न्नयनानन्दकरं सुकुमारं कुमारं राज्ञे समर्प्यावाचि—भूवल्लभ, कुशसमिदा-
नयनाय वनं गतेन मया काचिदशरण्या व्यक्तकार्पण्याश्रु मुञ्चन्ती वनिता
विलोकिता ।
( ५३ ) निर्जने वने किंनिमित्तं रुद्यते त्वया इति पृष्टा सा करसरोरुहैरश्रु
प्रमृज्य सगद्गदं मामवोचत्—मुने, लावण्यजितपुष्पसायके मिथिलानायके
कीर्तिव्याप्तसुधर्माणि निजसुहृदो मगधराजस्य सीमन्तिनीसीमन्तमहोत्स-
वाय पुत्रदारसमन्विते पुष्पपुरमुपेत्य कञ्चन कालमधिवसति समाराधित-
गिरीशो मालवाधीशो मगधराजं योद्धुमभ्यगात् ।
( ५२ ) तापसेन मुनिना । रसेन अनुरागेण, राजहंसं प्रति प्रीत्येत्यर्थः । राज्ञो
नृपस्य लक्षणैश्चिह्नैर्र्विराजितं शोभितम् । करतलादौ राजचिह्नचक्रच्छत्रादियुक्तमि-
त्यर्थः । नयनानन्दकरं लोचनानन्ददायिनम् । राज्ञे राजहंसाय । अशरण्या नास्ति
शरण्यं रक्षिता यस्याः सा । रक्षकहीनेत्यर्थः । व्यक्तं प्रकटितं कार्पण्यं दैन्यं यया
सा । अश्रु नेत्रजलम् । मुञ्चन्ती त्यजन्ती, रोद्यमानेति शेषः ।
( ५३ ) करपरोरुहैः करकमलैः । अत्र सौन्दर्यातिशय महिम्ना गौरवाद्वहुवचनं
बोद्धव्यम् । प्रमृज्य दूरीकृत्य । सगद्गदं गद्गदस्वरेणेत्यर्थः । लावण्येन कान्त्या जितः
पराजितः पुष्पसायकः कामो येन तस्मिन् । मिथिलानायके मिथिलाधिपतौ । कीर्त्या
यशसा व्याप्ता परिपूरिता सुधर्मा देवसभा येन तस्मिन् । स्यात्सुधर्मा देवसभेत्यमरः ।
सीमन्तिन्या महिष्याः सीमन्तमहोत्सवाय सीमन्तोन्नयनाख्यगर्भसंस्कार रूपमुत्सवं
द्रष्टुम् । पुत्राश्च दाराश्चेति पुत्रदारास्तैः समन्विते युक्ते । अधिवसति वासं कुर्वति
सति । समाराधितः सेवितो गिरीशो महेश्वरो येन सः ।
( ५२ ) एक समय कोई एक तपस्वी, राजाओंके सुलक्षणोंसे लक्षित तथा नयनाभिराम
एक सुन्दर एवं सुकुमार बालक को, बड़े प्रेमके साथ राजाको समर्पित करके कहने लगा;—'हे
पृथ्वीके पति ! महाराज !! कुश और समिधाकी प्राप्तिके निमित्त मैं अरण्यमें गया था । वहाँ
पर एक अनाथ तथा असहाय एवं दीना, आँखोंसे अश्रु बहाती हुई रमणीको मैंने देखा और
पूछा कि इस एकान्त निर्जन वनमें तुम क्यों रो रही हो ? उसने अपने करकमलसे
आंसुओंको पोंछकर गद्गद स्वरमें मुझसे कहा—
( ५३ ) हे मुने ! अपने शरीरांगोंकी लावण्यतासे कामको जीतनेवाला मिथिलेश प्रहार
वर्मा जिसकी कीर्तिलता देवोंकी सभामें भी फैली है, अपने मित्र मगधराजकी सीमन्तिनीके
सीमन्तोत्सवमें सम्मिलित होने के लिए स्त्री-पुत्रोंके साथ आया और पुष्पपुरीमें आकर
ठहरा । उसी समय शिवाराधनसे दैवशक्ति प्राप्त कर मालवेश युद्धके लिये वहाँपर आया ।
प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । २५
( ५४ ) तत्र प्रख्यातयोरेतयोरसंख्ये संख्ये वर्तमाने सुहृत्साहाय्यकं
कुर्वाणो निजबले सति विदेहे विदेहेश्वरः प्रहारवर्मा जयवता रिपुणाभि-
गृह्य कारुण्येन पुण्येन विसृष्टो हतावशेषेण शूनयेन सैन्येन सह स्वपुर-
गमनमकरोत् ।
( ५५ ) ततो वनमार्गेण दुर्गेण गच्छन्नधिकबलेन शबरबलेन रभसा-
दभिहन्यमानो मूलबलाभिरक्षितावरोधः स महानिरोधः पलायिष्ट । तदी-
यार्भकयोर्यमयोर्धात्रीभावेन परिकल्पिताहं मद्दुहितापि तीव्रगतिं भूपति-
मनुगन्तुमक्षमे अभूव । तत्र विवृतवदनः कोऽपि रूपी कोप इव व्याघ्रः
( ५४ ) प्रख्यातयोः वीरत्वेन प्रसिद्धयोः । संख्ये युद्धे । सुहृदः । स्वमित्रस्य
राजहंसस्येति शेषः । साहाय्यकं साहाय्यमेवेति स्वार्थे कः । निजबले स्वसैन्ये ।
विगता विनष्टो देहः शरीरं यस्य तस्मिन् । निहते सतीति शेषः । विदेहेश्वरो मिथि-
लाधिपः । जयवता विजयिना । अभिगृह्याक्रम्य । कारुण्येन करुणया । पुण्येन
स्वभागधेयमाहात्म्येन । विसृष्टस्तेन मालवाधीशेन परित्यक्तः । शूनयेन हताशेन
शस्त्रादिरहितेन वा ।
( ५५ ) दुर्गेण दुर्गमेण । अधिकं प्रभूतं बलं सामर्थ्यं यस्य तेन । शबरबलेन
शबरसैन्येन । रभसाद् वेगात् । मूलबलेन प्रधानसैन्येन अभिरक्षितः सुरक्षितोऽव-
रोधः शुद्धान्तः स्त्रीवर्ग इति शेषः येन सः । स प्रहारवर्मा । महान् समधिको निरोधः
स्वावरोधः स्वसैन्यैः स्वपरिवेष्टनं यस्य सः । तदीयार्भकयोः तत्पुत्रयोः । यमयोर्युग्म-
जातयोः । धात्रीभावेन उपमातृरूपेण । तीव्राऽतिवेगवती गतिर्यस्य तम् । अनुगन्तु-
मनुसर्तुम् । अक्षमे असमर्थे । तत्रारण्ये । विवृतं विस्तारितं वदनं मुखं येन सः । रूपी
( ५४ ) उस समय उन दोनों वीरोंका खूब युद्ध होने लगा । मित्रका सहायता करते हुए
मिथिलेश प्रहारवर्माकी सेना भी नष्ट हो गयी और वह मालवेश मानसार द्वारा पकड़ लिया
गया । तत्पश्चात् मानसारने दयादृष्टिसे अथवा मिथिलेशके पुण्यके बलसे उसे (मिथिलेशको)
बन्धनमुक्त कर दिया । मिथिलेश भी छूटकर अपनी बची-खुची दुखी सेनाके साथ अपने
नगरकी ओर चल दिया ।
( ५५ ) जब मिथिलेश पराजित होकर उद्विग्न मन होकर अति विपुल एवं सघन वनके
रास्ते होकर अपने देशको जा रहा था तब मार्गमें उसे प्रबल भीलसेनाका सामना करना
पड़ा । परन्तु प्रधान सैन्यबलकी रक्षामें अन्तःपुरकी स्त्रियोंके साथ रक्षित होकर सब लोग
प्राणत्राणके लिए वहाँसे भाग गये । प्रहारवर्माके जुड़वाँ लड़कोंकी धात्री मैं तथा मेरी कन्या
दोनों तीव्र गतिसे राजाके साथ दौड़नेमें असमर्थ होकर पीछे रह गयीं । उसी समय भक्त