सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

८४ दशकुमारचरितम् । [ पूर्वपीठिकायां

८४ दशकुमारचरितम् । [ पूर्वपीठिकायां
(५) या वसन्तसहायेन समुत्सुकतया रतेः केलीशालभञ्जिकाविधि-
त्सया कञ्चन नारीविशेषं विरच्यात्मनः क्रीडाकासारशारदारविन्दसौन्द-
र्येण पादद्वयम् , उद्यानवनदीर्घिकामत्तमरालिकागमनरीत्या लीलालसग-
तिविलासम् , तूणीरलावण्येन जङ्घे, लीलामन्दिरद्वारकदलीलालित्येन
मनोज्ञमूरुयुगम्, जैत्ररथचातुर्येण घनं जघनम्, किञ्चिद्विकसल्लीलाव-
तंसकह्लारकोरककोटरानुवृत्त्या गङ्गावर्तसनाभिं नाभिम् , सौधारोहणपरि-
( ५ ) या अवन्तिसुन्दरी निर्मितेव रराजेत्यग्रिमेणान्वयः । वसन्तः सहायो यस्य
तेन कामेनेत्यर्थः । समुत्सुकतया रत्यर्थमुत्कण्ठिततया । रतेः स्वपत्न्याः । केली क्री-
डा तदर्थं या शालभञ्जिका कृत्रिमपुत्रिका तस्याः विधित्सा निर्मातुमिच्छा तया । क-
ञ्चनेति अनिर्वचनीयमित्यर्थः । विरच्य निर्माय । आत्मनः स्वस्य । क्रीडाकासारे वि-
हारसरसि यत् शारदं शरत्कालसम्बन्धि अरविन्दं कमलं तस्य सौन्दर्येण कान्त्या ।
कासारारविन्देति पाठान्तरम् । तत्र सारं सारभूतं यदरविन्दमित्यर्थः । तेन पादद्वयं च-
रणयुगलं नारीविशेषस्येति शेषः । विधायेत्यग्रिमेणान्वयः । एवमग्रेऽपि सर्वत्र । उ-
द्यानवने उपवने या दीर्घिका वापी तस्यां या मत्तमरालिका हंसी तस्याः गमनरीति-
र्गतिपरिपाटी तया । लीलया विलासेनालसं मन्दं गतिविलासं गमनप्रकारम् । मरा-
लवन्मन्दगमनेति भावः । तूणीराविषुधो तयोर्लावण्येन सौन्दर्येण जङ्घे—तूणाकारं
जङ्घाद्वयमित्यर्थः । लीलामन्दिरस्य मदनक्रीडागृहस्य द्वारे या कदली रम्भातरुस्त-
स्या लालित्येन सौन्दर्येण जैत्रो जयनशीलो रथो जैत्ररथः कामस्येति शेषः । तस्य
चातुर्येण निर्माणपरिपाट्या । घनं निविडम् । किञ्चिद्दीपद् विकसन् प्रस्फुटन् लीलाव-
तंसः विलासकर्णभूषणं यः कह्लारकोरकः सौगन्धिककलिका तस्य कोटर मध्यदेशस्त-
कृशोदरी अवन्तिसुन्दरीके सन्निकट जाकर उपस्थित हो गये ।
(५) अवन्तिसुन्दरीकी शोभा उस समय निम्नरीत्या थी। जैसे कामदेवने अपनी प्रिया रति
देवीके क्रीडनार्थ एक पुत्तलिका रची हो-उस पुत्तलिकाके बनानेमें कामदेवने ऐसी दक्षता
की कि उसके दोनों चरण उसने अपने क्रीडासरोवरके शरत्कालिक कमलोंकी शोभासे निर्मित
किये—अर्थात् उसके दोनों पैर शारदीय कमलके सदृश थे । अपनी वाटिकाकी बावलीमें
मदोन्मत्ता होकर भ्रमणशीला हंसिनीकी गतिसे उसकी अलासायी चाल रची-वह अलसाकर
हंसकी चालसे चलनेवाली थी । उसकी दोनों जाँघें अपने तूणीर (तरकस) की छविके सदृश
बनायीं । अपने लीलामन्दिरके दरवाजेपर लगे हुए केलोंकी छटाको एकत्र कर दोनों घुटने
रचे तथा जैत्ररथकी कान्तिसे युक्त उसके जघनस्थल । कामदेवकी स्त्री रतिके कानोंमें अलंकृत
कमलोंकी कलिकाके समान शोभाशाली थोड़े थोड़े विकसित लीलावत्तंस कर्णभूषण। गङ्गाजीके
आवर्त्त (भौरों) के समान गम्भीर उसकी नाभि रची। ऊपर अट्टालिकापर चढ़नेके लिए सो-

पञ्चमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ८५

पाट्या वलित्रयम्, मौर्वीमधुकरपङ्क्तिनीलिमलीलया रोमावलिम्, पूर्ण-
सुवर्णकलशशोभया कुचद्वन्द्वम्, (लतामण्डपसौकुमार्येन बाहू), जयश-
ङ्खाभिख्यया कण्ठम्, कमनीयकर्णपूरसहकारपल्लवरागेण प्रतिबिम्बीकृत-
बिम्बं रदनच्छदम्, बाणायमानपुष्पलावण्येन शुचि स्मितम्, अग्रदूति-
काकलकण्ठिकाकलालापमाधुर्येण वचनजातम्, सकलसैनिकनायकमल-
यमारुतसौरभ्येण निःश्वासपवनम्, जयध्वजमीनदर्पेण लोचनयुगलम्,

स्याऽनुवृत्त्या सादृश्येन । गङ्गाया आवर्तो भ्रमितस्तस्य सनाभि सदृशम् । आरुह्यतेऽ-
नेनेति आरोहणम् । करणे ल्युट् । सौधस्य प्रासादस्य यदारोहणं सोपानं तस्य परि-
पाट्या अनुक्रमेण । सोपानपङ्क्तितुल्यं वलित्रयमित्यर्थः । मौर्वी ज्यैव मधुकरपङ्क्तिः
रोलम्बमाला तस्या यो नीलिमा नैल्यं तस्य लीलया सौन्दर्येण रोमावलि रोमपङ्कि-
म् । पूर्णो जलपूर्णो यः सुवर्णकलशः स्वर्णघटस्तस्य शोभया कान्त्या कुचद्वन्द्वं स्त-
नयुगम् । कुचौ तस्याः कामस्य द्वारदेशस्थितशुभसूचककनककलशाकारावित्यर्थः ।
लतामण्डपस्य सौकुमार्येण कोमलतया बाहू हस्तद्वयम् । जयशङ्खस्याभिख्यया शोभ-
या कण्ठं ग्रीवाम् । सा कम्बुग्रीवेति भावः । कमनीयः सुन्दरो यः कर्णपूरः कर्ण-
भूषणीभूतः सहकारपल्लवो रसालकिसलयं तस्य रागेण रक्तिम्ना, प्रतिबिम्बीकृतं
प्रतिबिम्बवत्कृतं बिम्बं बिम्बफलं येन तादृशं, यत्पूर्वं बिम्बमासीत्तदेवास्या अधरनि-
र्माणानन्तरं प्रतिबिम्बं जातमित्यर्थः । प्रसिद्धबिम्बफलापेक्षयाऽप्यस्या अधरोष्ठयो
रागोऽधिक इति तात्पर्यम् । रदनच्छदमोष्ठम् । बाणवदाचरतीति बाणायमानं यत्
पुष्पं तस्य लावण्येन सौन्दर्येण । शुचि शुद्धम् । स्मितं हास्यम् । अग्रदूतिका प्रथम-
दूती कामस्येति शेषः । या कलकण्ठिका कोकिलवधूस्तस्या यः कलो मधुर आलापो
ध्वनिस्तस्य माधुर्येण मधुरतया । वचनजातं वाक्यसमूहम् । सकलसैनिकानां निखि-
लभटानां कामस्येति शेषः । नायको नेता सेनापतिरिति यावत् यो मलयमारुतो मल-
यवायुस्तस्य सौरभ्येण सौगन्ध्येन । निःश्वासपवनं श्वासवायुम् । जयसूचको ध्वजो

पान (सीढ़ियों) के सदृश उसकी त्रिवली। धनुषके ऊपर मडराती भ्रमरावलिकी कालिमासे
सुशोभित रोमावली। पूर्ण स्वर्णकलशकी छविको धारण करनेवाले उसके कुचद्वय बनाये।
लतामण्डपकी शोभाके समान उसके दोनों हाथ रचे। जयशंखकी ग्रीवाके समान उसका
कण्ठ। सुन्दर कनफूलके ऊपर रखी हुई आम्रमंजरीकी लालिमाके सदृश एवं पके कुंदरू (बिम्बा
फल) के समान लाल लाल उसके ओंठ। बाणोंके समान आकारवाले फूलोंकी शोभाके
समान सुन्दर मुसकान तथा पहले-पहल प्रेषित की जानेवाली कामदूतिका (अर्थात् कोयल) की
वाणीके समान मधुर उसकी वाणी तथा कामदेवकी सम्पूर्ण सेनाके सेनापति मलय पवनकी
सुगन्धिसे उसके श्वासोच्छ्वास एवं जयसूचिका पताकामें लगी मीनाकार (मछलीके समान)