दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
२५२ दशकुमारचरितम् । [ उत्तरपीठिकायां
२५२ दशकुमारचरितम् । [ उत्तरपीठिकायां
अलभे च तन्मुखात्तद्राजकुलस्य शीलम् ।
( ३४ ) उषसि स्नात्वा कृतमङ्गलो मन्त्रिभिः सह समगच्छे । तांश्चा-
ब्रवम्—‘आर्याः, रूपेणैव सह परिवृत्तो मम स्वभावः । य एष विषान्नेन
हन्तुं चिन्तितः पिता मे स मुक्त्वा स्वमेतद्राज्यं भूय एव ग्राहयितव्यः ।
पितृवदमुष्मिन्वयं शुश्रूषयैव वर्तामहे । न ह्यस्ति पितृवधात्परं पातकम्’
इति । भ्रातरं च विशालवर्माणमाहूयोक्तवान्—‘वत्स, न सुभिक्षाः सांप्रतं
पुण्ड्राः । ते दुःखमोहोपहतास्त्यक्तात्मानो राष्ट्रं नो न समृद्धमभिद्रवेयुः ।
दीर्घापि शीघ्रम् । अत्यनैषम्-अत्यवाहयम् । अलभे ज्ञातवान् । तन्मुखात्-कल्प-
सुन्दरीमुखात् । राजकुलस्य राजकीयपुरुषवर्गस्य । शीलं चरित्रादिकम् ।
( ३४ ) उपसि-प्रभाते । कृतमङ्गलः-अनुष्ठितमङ्गलाचारः । समगच्छे मिलितोऽ-
भवम् । तान्-मन्त्रिणः । आर्याः माननीयाः सम्बोधनमेतत् । रूपेणाकारेण । परि-
वृत्त:-अन्यथाभूतः यो मम स्वभावः पूर्वमतिनिर्दय आसीत् सोऽद्य तद्विपरीतो
जातः । रूपपरिवर्तनेन सह स्वभावस्यापि परिवर्तनं जातमिति भावः । चिन्तितः
निश्चितः । पिता पितृव्यस्तस्य पितृतुल्यत्वात् । मुक्त्वा बन्धनादपनीय । स्वं-
तदीयम् । भूयः पुनरपि । ग्राहयितव्यः यथा स राज्यं स्वीकरोति तथा विधे-
यमित्यर्थः । पितृवत्-पितृतुल्यम् । अमुष्मिन्-प्रहारवर्मणि । शुश्रूषया-सेवया ।
वर्त्तामहे-व्यवहरामः । पितृवधात् पितृहत्यायाः । परम् अधिकम् । भ्रातरं स्वक-
नीयांसम् । सुभिक्षाः-सम्पन्नसस्याः । पुण्डाः तदाख्यदेशाः । ते पुण्ड्राः । दुःख-
मोहोपहताः-भोजनाद्यभावाद् दुःखं क्लेशः मोहः अज्ञानं ताभ्यामुपहता आक्रान्ताः।
शय्याके ऊपर आनन्दोपभोग करने लगा—उस रानीको अपने ऊरुओंसे और भुजाओंसे
चिपटाते हुए एवं आलिङ्गन करते हुए वह बड़ी रात भी छोटी प्रतीत हुई । अर्थात् रातका
बीतना ज्ञात न हुआ । उसी रानी कल्पसुन्दरीसे मैंने राजकीयपुरुषवर्गोंका स्वभाव चरित्र
आदि भी ज्ञात कर लिया ।
( ३४ ) प्रभात कालमें स्नान करके तथा मङ्गलाचार, पाठ-पूजन आदि करके
मन्त्रियोंसे दरबारमें जा करके मिला । उन मन्त्रियोंसे मैंने कहा—‘हे माननीयो ! मेरे
रूपके परिवर्त्तन होनेके साथ ही मेरे स्वभावमें भी परिवर्त्तन हो गया है । जहरके अन्नसे
जिन पितृव्य (चाचा) को मैंने मारनेके लिए सोचा था उनको कारागारसे निकाल
कर फिरसे उन्हें उन्हींका राज्य सौंपा जाय और मैं उनकी सेवा-शुश्रूषा अपने पिताके
सदृश करूँगा । पिताके मारनेसे अधिक पाप संसारमें कोई नहीं है । अपने छोटे भाई
विशालवर्माको बुला कर कहा—‘हे वत्स ! वर्त्तमान समयमें पुण्ड्रदेश सम्पन्न एवं
धान्यादिसे परिपूर्ण नहीं है । अतः आप उक्त देशमें अभी चढ़ाई न करें । क्योंकि वे सब
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २५३
अतो मुष्टिवधः सस्यवधो वा यदोत्पद्यते तदाभियास्यसि, नाद्य यात्रा
युक्ता' इति ।
( ३५ ) नगरवृद्धावप्यलापिषम् - 'अल्पीयसा मूल्येन महार्हं वस्तु
मास्तु मे लभ्यं धर्मरक्षायै, तदनुगुणेनैव मूल्येनादः क्रीयताम्' इति ।
शतहलिं च राष्ट्रमुख्यमाहूयाख्यातवान्-'योऽसावनन्तसीरः प्रहारवर्मणः
पक्ष इति निनाशयिषितः, सोऽपि पितरि मे प्रकृतिस्थे किमिति नाश्येत,
त्यक्तात्मानः परित्यक्तजीवनाशाः । नः-अस्माकम् । राष्ट्रं-राज्यम् । समृद्धं-सम्प-
न्नशस्यम् । न अभिद्रवेयुर्न पीडयेयुरिति काकुः । अपि तु पीडयेयुः । तेन हानि-
रेवास्माकमिति भावः । अतः-अस्मात्कारणात् । मुष्टिवधः-मुष्टिपरिमितस्यान्न-
स्योपघातः । सस्यवधः सस्यमात्रस्योपघातः । उत्पद्यते-भविष्यतीत्यर्थः । यदा
पुण्ड्रदेशे सुभिक्षं भविष्यति त्वदभियानेन च तेषां सस्यान्नहानिर्भविष्यति तदैव
ते आक्रमणीया इत्याशयः । यात्रा-युद्धयात्रा युक्ता-उचिता ।
( ३५ ) नगरवृद्धौ-पाञ्चालिकसार्थवाहौ । अलापिषम् अवोचम् । महार्हं-महा-
मूल्यम् । धर्मरक्षायै-धर्मरक्षार्थम् । महार्हस्य वस्तुनोऽत्यल्पमूल्येन क्रयणे प्रतारणा
भवतीत्यतो धर्मनाश इत्यर्थः । अनुगुणेन-समुचितेन । अदः वज्रम् । राष्ट्रमुख्यं
जनपदप्रधानम् । पक्षः सहायभूतः । निनाशयिषितः-विनाशयितुमिष्टः आसीदि-
ति शेषः । पितरि-पितृतुल्ये प्रहारवर्मणि । प्रकृतिस्थे-पूर्वभावमापन्ने । किमिति-
कथम् । नश्येत-हन्येत ! नैव हन्येतेत्यर्थः । त्वया-शतहलिना । तस्मिन्-अन-
पुण्ड्रदेशके निवासी दुःख और मोहसे परिव्याप्त हो करके अपने प्राणोंको त्यागनेमें समुद्यत
हो रहे हैं। ऐसी अवस्थामें वे मेरे समृद्धिशाली राज्यपर आक्रमण कर बैठेंगे । अत एव
जब पुण्ड्रदेशमें मुष्टि परिमाणमें, सस्यप्रचुरतासे अन्न पैदा होने लगेगा अर्थात् पुण्ड्र जब
सम्पत्तिशाली हो जाय । तब आक्रमण करना ठीक होगा । अभी आक्रमण करना
अयुक्त है ।
( ३५ ) नगरवृद्ध पाञ्चालिक और सार्थवाहको बुला कर कहा-'अल्प मूल्य दे
कर महामणि लेनेका विचार छोड़ दिया गया । क्योंकि इसमें धर्मकी हानि हो सकती
है । अतः धर्मरक्षाके विचारसे उस महामणिके अनुरूप मूल्य दे कर ही वह मणि खरीदी
जाय ।' श्रेष्ठ नागरिक शतहलीको जो अनन्तसीर और प्रहारवर्माका सहायक भी था,
बुला कर आज्ञा दी कि इनका भी विनाश न किया जाय । क्योंकि जब मेरे चाचाजी
पूर्ववत् हो गये तो उनके सहायकगणोंका क्यों विनाश किया जाय । और कहा कि
शतहलीको भी भविष्यमें अनन्तसीरके साथ विद्वेष न करना चाहिये । इन अभिज्ञानोंसे
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
तत्त्वयापि तस्मिन्संरम्भो न कार्यः' इति । त इमे सर्वमाभिज्ञानिकमुप-
लभ्य 'स एवायम्' इति निश्चिन्वाना विस्मयमानाश्च मां महादेवीं च प्रशंसन्तो
मन्त्रबलानि चोद्घोषयन्तो बन्धनात्पितरौ निष्क्रामय्य स्वं राज्यं
प्रत्यपादयन् अहं च तया मे धात्र्या सर्वमिदं ममाचेष्टितं रहसि पित्रोरव-
गमय्य प्रहर्षकाष्ठाधिरूढयोस्तयोः पादमूलमभजे ।
(३६) अभज्ये च यौवराज्यलक्ष्म्या तदनुज्ञातया । प्रसाधितात्मा
देवपादविरहदुःखदुर्भगान्भोगांन्निर्विशन्भूयोऽस्य पितृसखस्य सिंहवर्मणो
न्तसीरे । 'संरम्भः-कोपः । ते इमे-नगरवृद्धादयः । आभिज्ञानिकमभिज्ञानमिति
स्वार्थे ठक् परिचयोत्पादकं चिह्नम् । उपलभ्य-ज्ञात्वा । अयं पुरो दृश्यमानः सः
विकटवर्मैव । निश्चिन्वानाः निर्णयं कुर्वन्तः । विस्मयमानाः साश्चर्याः । महादेवीं-
कल्पसुन्दरीम् । मन्त्रबलानि-मन्त्रप्रभावान् । उद्घोषयन्तः-प्रचारयन्तः । बन्धना-
त्कारागृहात् । पितरौ-मातरं पितरञ्च । निष्क्रामय्य मोचयित्वा । प्रत्यपादयन्-
प्रायच्छन् । तया-पूर्ववर्णितया । धात्र्या-वृद्धतापस्या । तद्द्वारेणेत्यर्थः । ममाचे-
ष्टितं-मत्कृतं कार्यम् । पित्रोः मातापित्रोः अवगमय्य-ज्ञापयित्वा । प्रहर्षेति-प्रहर्षस्य
आनन्दस्य काष्ठामवधिमधिरूढयोः प्राप्तवतोः । तयोः पित्रोः । पादमूलं-चरणत-
लम् । अभजे आश्रितवान् ।
(३६) अभज्ये-असेव्ये-आश्रितोऽभवमित्यर्थः तदनुज्ञातया-ताभ्यां माता-
पितृभ्यामनुमतया । प्रसाधितात्मा सफलप्रयत्नः कृतकृत्य इति यावत् । 'आत्मा
यत्नो धृतिर्बुद्धिरित्यमरः । देवपादेति-देवपादस्य भवच्चरणयुगलस्य विरहदुःखेन
विच्छेदक्लेशेन दुर्भगान् अप्रियान् । भोगान् । उपभोग्यविषयान् । निर्विशन्-उप-
भुञ्जानः । पितृसखस्य तातमित्रस्य । लेख्यात्-पत्रात् । चम्पाभियोगं-चम्पा-
वे नगर-निवासी मन्त्रिगण समझ गये कि 'यह वही राजा है।' ऐसा निश्चय होनेपर
वे सब आश्चर्यान्वित हो कर मेरी और रानी कल्पसुन्दरीकी प्रशंसा करने लगे । मन्त्रके
प्रभावका प्रचार करने लगे । मेरे माता-पिताको उन लोगोंने कारागारसे निकाल कर
अपने प्राचीन राज्यपर अधिरूढ करा दिया । मैंने भी यह सब वृत्तान्त अपनी उस वृद्ध
तापसी (धात्री) से एकान्तमें कह दिया । माता-पिताको भी यह समाचार जता दिया ।
जब माता-पिता आनन्दकी चरम सीमामें (अपना राज्य करने लगे) तब मैं उनके चरणों
की सेवामें लगा ।
(३६) उन पूज्य माता-पिताकी आज्ञासे, मैंने युवराज-पदरूपी लक्ष्मीको प्राप्त
किया । कृतकृत्य हो करके भी मैंने आपके विरहसे उत्पन्न क्लेशसे उन सब सुखोंको
लेख्याच्चण्डवर्मणश्चम्पाभियोगमवगम्य ‘शत्रुवधो मित्ररक्षा चोभयमपि
करणीयमेव’ इत्यलघुना लघुसमुत्थानेन सैन्यचक्रेणाभ्यसरम् । अभवं
च भूमिस्त्वत्पादलक्ष्मीसाक्षात्क्रियामहोत्सवानन्दराशेः’ इति ।
( ३७ ) श्रुत्वैतद्देवो राजवाहनः सस्मितमवादीत्—‘पश्यत, पारत-
ल्पिकमुपधियुक्तमपि गुरुजनबन्धव्यसनमुक्तिहेतुतया दुष्टामित्रप्रमापणा-
भ्युपायतया राज्योपलब्धिमूलतया च पुष्कलावर्थधर्मावप्यरीरधत् ।
किं हि बुद्धिमत्प्रयुक्तं नाभ्युपैति शोभाम्’ इति । अर्थपालमुखे निधाय
क्रमणम् । शत्रुवधः - चण्डवर्मनिधनम् । मित्ररक्षा-सिंहवर्मणो रक्षणं करणीयमव-
श्यकर्त्तव्यम् । अलघुना-महता । लघुसमुत्थानेन-क्षिप्रगामिना । सैन्यचक्रेण-
सेनासमूहेन । अभ्यसरम्-अभ्यगच्छम् । अभवं-जातः भूमिः पात्रं भाजनमिति
यावत् । त्वत्पादेति-तत्र भवतो राजवाहनस्येत्यर्थः । पादलक्ष्म्याश्चरणशोभायाः
साक्षात्क्रिया प्रत्यक्षीकरणमेव महोत्सवरतेन आनन्दराशिः प्रहर्षातिशयस्तस्य ।
( ३७ ) एतत्-इमं वृत्तान्तम् । पारतल्पिकं-पारदारिकं-परदारापहरणमिति
यावत् । अरीरधदित्यस्याः क्रियायाः कर्त्तृपदमेतत् । उपधियुक्तं छलपूर्णम् ।
गुरुजनेति-गुरुजनस्य पित्रादेर्बन्धः बन्धनमेव व्यसनं विपत् तस्माद् या मुक्ति-
र्मोक्षस्तस्य हेतुतया कारणत्वेन । दुष्टस्यामित्रस्य शत्रोः प्रमापणस्य वधस्य
अभ्युपायतया साधनतया । राज्येति-राज्यस्योपलब्धिः प्राप्तिस्तस्या मूलतया
निदानतया । पुष्कलौ-प्रचुरौ । अर्थधर्मौ-अर्थश्च धर्मश्च तौ धर्मार्थौ । अरीर-
धत् साधयामास । राध् संसिद्धावित्यस्य लुङि रूपम् । भाषार्थस्तु यदनेनोपहार-
वर्मणा विकटवर्माणं कपटेन निहत्य तत्पत्नी गृहीता तत्तु पातकमेवाचरितं तेनेति
सत्यम् किन्तु पितृबन्धनमोचनशत्रुनाशस्वराज्यप्राप्त्यादिबहुसत्कर्मसाधकतया
दोषोऽपि गुणायैव संवृत्त इति । किं-किं वस्तु । बुद्धिमत्प्रयुक्तं बुद्धिमता कृतम् ।
अप्रिय जाना । पुनः पिताजीके मित्र सिंहवर्माके लेखसे चण्डवर्माका चम्पापुर पर आक्र-
मण ज्ञात किया । शत्रु का वध और मित्रका रक्षण ये दोनों अवश्य करना चाहिये । इसी
विचारसे मैं विपुल सैन्य बलके साथ अति शीघ्रतापूर्वक आपके पास आया हूँ । आपकी
चरण शोभाके प्रत्यक्षीकरणसे महोत्सवरूप आनन्दराशिका मैं पात्र बन गया हूँ ।
( ३७ ) देव राजवाहन यह वृत्तान्त सुन कर बोले-‘देखिये, परस्त्रीका अपहरण
करना छलपूर्ण है । अर्थात्-छलियोंका कार्य है । परन्तु, माता-पिता आदि गुरु-जनोंको
कारागार आदिके क्लेशसे छुड़ाना और दुष्ट शत्रुको योग्य उपायसे मारना तथा राज्य
प्राप्त करना आदि बातोंके साधनमें धर्म और अर्थकी आराधना हुई है । ( इससे-परस्त्री