दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
३२० दशकुमारचरितम् । [ उत्तरपीठिकायां
३२० दशकुमारचरितम् । [ उत्तरपीठिकायां
वानमुष्मिन्नायतने विस्मृतविन्ध्यवासरागं वसन्त्या विन्ध्यवासिन्याः
पादमूलादपत्यद्वयम् । अनया च किलास्मै प्रतिशयिताय स्वप्ने समा-
दिष्टम्—समुत्पत्स्यते तवैकः पुत्रः, जनिष्यते चैका दुहिता । स तु तस्याः
पाणिग्राहकमनुजीविष्यति । सा तु सप्तमाद्वर्षादारभ्याऽपरिणयनात्प्र-
तिमासं कृत्तिकासु कन्दुकनृत्येन गुणवद्भर्तृलाभाय मां समाराधयतु । यं
चाभिलषेत्सामुष्मै देया । स चोत्सवः कन्दुकोत्सवनामास्तु इति ।
तुङ्गधन्वेति नाम यस्यासौ । अनपत्यः निःसन्तानकः । अमुष्मिन् पुरो दृश्यमाने ।
आयतने-मन्दिरे । विस्मृतेति-विस्मृतो विन्ध्ये विन्ध्यपर्वते वासस्य वसतेः रागोऽ-
नुरागो यत्र तद्यथा तथेति क्रियाविशेषणम् । विन्ध्यवासिन्या भगवत्या दुर्गायाः ।
पादमूलात्-चरणप्रान्तात् । अपत्यद्वयं सन्ततियुगलम् । प्रार्थितवानित्यनेन सम्ब-
न्धः । अनया भगवत्या । अस्मै-तुङ्गधन्वने । प्रतिशयिताय-यावद्भगवती न प्रत्या-
देश्यति तावन्नाहमुत्थास्यामीति प्रतिज्ञापूर्वकं निद्रिताय । समुत्पत्स्यते-जनिष्यते ।
स पुत्रः । तु किन्तु । तस्या दुहितुः । पाणिग्राहकं-भर्त्तारम् भगिनीपतिमित्यर्थः ।
अनुजीविष्यति-तदधीनो भूत्वा स्थास्यति । सा कन्या । आपरिणयनात्-आविवा-
हात् विवाहपर्यन्तमित्यर्थः । कृत्तिकासु कृत्तिकानक्षत्रयुक्तदिने । कन्दुकनृत्येन-
कन्दुकक्रीडासहितनृत्येन । गुणवदिति-गुणवतः प्रशस्यगुणयुक्तस्य भर्तुः पत्युर्ला-
भाय प्राप्तये । मां विन्ध्यवासिनीमित्यर्थः । समाराधयतु-मदाराधनं करोतु । यं
युवानम् । अभिलषेदिच्छेत् पतिरूपेण प्राप्तुमिति शेषः । सा कन्या । अमुष्मै-
अभिलषिताय । युवकाय । देया दातव्या तेन विवाहेत्यर्थः ।
हीन थे अतः उन्होंने इस मन्दिरमें निवास करनेवाली देवीसे सन्तानके लिये प्रार्थना
की थी । जो भगवती इस मन्दिरमें बसनेके कारण अपने विन्ध्यपर्वतके वासको भूलसी गयी
हैं । उन्हीं देवी विन्ध्यवासिनीके चरणोंमें राजा तुङ्गधन्वाने प्रार्थना की थी । जिस प्रार्थनाके
फलस्वरूप भगवती विन्ध्यवासिनीने राजाको उस रात्रिके स्वप्नमें ( जिसमें राजाने प्रतिज्ञा
कर ली थी कि, आज रातको यदि देवीके दर्शन न कर लूंगा तो कल उठूँगा भी नहीं । )
दर्शन देकर आदेश दिया—'हे तुङ्गधन्वा ! तुम्हें एक पुत्र होगा और एक पुत्री होगी ।
वह पुत्र तुम्हारी उस पुत्रीके पतिका अनुजीवक होगा—अर्थात् उसके अधीन होकर
रहेगा । वह आपकी पुत्री अपने जीवनके सातवें बरससे विवाह हो जानेके समयतक
प्रत्येक कृत्तिका नक्षत्रमें कन्दुकनृत्यसे ( गेंदके खेलसे ) सुयोग्य गुणवान् पतिकी प्राप्तिके
निमित्त मेरी आराधना किया करेगी । वह पुत्री जिस युवकको चाहें उसीसे आप उसका
परिणय कर देना । उस उत्सवका नाम 'कन्दुकोत्सव' होगा ।
षष्ठोच्छ्वासः ] बालबोधिनीव्याख्यासहितम् । ३२१
( ३ ) ततोऽल्पीयसा कालेन राज्ञः प्रियमहिषी मेदिनी नामैकं पुत्रम-
सूत । समुत्पन्ना चैका दुहिता । साद्य नाम कन्या कन्दुकावती सोमापीडां
देवीं कन्दुकविहारेणाराधयिष्यति । तस्यास्तु सखी चन्द्रसेना नाम धात्रे-
यिका नाम प्रियासीत् । सा चैषु दिवसेषु राजपुत्रेण भीमधन्वना बलव-
दनुरुद्धा । तदहमुत्कण्ठितो मन्मथशरशल्यदुःखोद्विग्नचेताः कालेन वीणा-
रवेणात्मानं किञ्चिदाश्वासयन्विविक्तमध्यासे इति ।
( ४ ) अस्मिन्नेव च क्षणे किमपि नूपुरक्वणितमुपातिष्ठत् । आगता
च काचिदङ्गना । दृष्ट्वैव स एनामुत्फुल्लदृष्टिरुत्थायोपगूढकण्ठश्च तया
( ३ ) अल्पीयसा-अचिरेण । कन्दुकावतीति कन्याया नाम । सोमापीडां
सोमश्चन्द्र आपीडः शेखरो यस्यास्ताम् । चन्द्रशेखरां देवीं भगवतीम् । कन्दुकवि-
हारेण-कन्दुकनृत्येन । तस्याः कन्दुकाबत्याः। धात्रेयिका-धात्रीकन्या । प्रिया
वल्लभा । सा चन्द्रसेना । एषु दिवसेषु-साम्प्रतम् । भीमधन्वेति राजपुत्रस्य नाम ।
बलवत्-दृढम् । अनुरुद्धा-अनुरुध्य वशं नीता । तत्-तस्मात्कारणात् । मन्मथेति-
मन्मथस्य कामस्य शरो बाणः शल्यमिव तेन यद्दुःखं तेनोद्विग्नं व्याकुलं चेतो
हृदयं यस्यासौ । कलेन-मधुरेण । आश्वासयन्-सान्त्वयन् । विविक्तं निर्जनदेशम् ।
अध्यासे अधितिष्ठामि ।
( ४ ) किमपि-अनिर्वचनीयम् । नूपुरक्वणितं-मञ्जीरध्वनिः । उपातिष्ठत्-
अश्रूयत । दृष्ट्वा विलोक्य तामङ्गनाम् । स-पूर्वोक्तयुवा । एनामङ्गनाम् । उत्फुल्ल-
दृष्टिः उल्लसितलोचनः । तया अङ्गनया । उपगूढकण्ठः-कृतकण्ठग्रहः । अशं-
( ३ ) इसके कुछ ही दिनोंके पश्चात् राजा तुंगधन्वाकी प्यारा पटरानी मेदिनीको
एक पुत्र उत्पन्न हुआ और एक पुत्री उत्पन्न हुई । वही राजकुमारी कन्दुकावती आज
चन्द्रशेखरा ( सोमपीडा ) देवीकी अर्चना करने आवेगी । उसी राजकुमारी कन्दुकावतीकी
सखी चन्द्रसेना जो उसकी धात्रीकी पुत्री है मेरी वल्लभा हो गयी है । उस चन्द्रसेनाको
राजकुमार भीमधन्वाने आजकल जबर्दस्तीते रोक रखा है । इसी उपर्युक्त प्रेमके बन्धनसे
तथा कामदेवके बाणोंसे पीड़ित होकर मै उद्विग्नचित्त हो गया हूँ, और इस वीणाकी
ध्वनिसे एकान्तमें उसका ध्यान करके चित्त बहला रहा हूँ ।
( ४ ) उसी क्षणमें मञ्जीरोंकी अनिर्वचनीय ध्वनि सुनायी पड़ी । कोई अंगना वहाँपर
आयी । वह युवक उस अंगनाको देखते ही उल्लसित नेत्रोंसे उसके लिये खड़ा हो गया ।
उस अंगनाने उस युवकको गले लगा लिया और वहीं बैठ गयी । उस युवकने मुझसे