सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

२५८ दशकुमारचरितम् । [ उत्तरपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
२५८ दशकुमारचरितम् । [ उत्तरपीठिकायां
साहसानुवादी, नूनमसौ प्राणनिःस्पृहः किमपि कृच्छ्रं प्रियजनव्यसनमूलं
प्रतिपत्स्यते । तत्पृच्छेयमेनम् । अस्ति चेन्ममापि कोऽपि साहाय्यदाना-
वकाशस्तमेन मभ्युपेत्येत्यपृच्छम्- 'भद्र, संनाहोऽयं साहसमवगमयति ।
न चेद्गोप्यमिच्छामि श्रोतुं शोकहेतुम्' इति ।
(२) स मां सबहुमानं निर्वर्ण्य 'को दोषः, श्रूयताम्' इति क्वचि-
त्करवीरतले मया सह निषण्णः कथामकार्षीत्—'महाभाग, सोऽहम-
स्मि पूर्वेषु कामचरः पूर्णभद्रो नाम गृहपतिपुत्रः । प्रयत्नसंवर्धितोऽपि
यतीत्यर्थः । क्षीणतारं-दुर्बलकनीनिकम् । चक्षुरिति वर्षतीति क्रियायाः कर्त्तृ ।
आरम्भोऽध्यवसायः । साहसानुवादी-साहसानुकारी तत्सूचक इत्यर्थ । नूनं
निश्चितम् असौ पुरुषः । प्राणनिस्पृहः जीवनस्पृहाशून्यः । किमपि-अनिर्वचनी-
यम् । कृच्छ्रं कष्टम् । प्रियजनेति प्रियजनस्य व्यसनं विपदेव मूलं निदानं यस्य
तत् । प्रियजनविपन्निमित्तकमित्यर्थः प्रतिपत्स्यते-प्राप्स्यति । साहाय्यदानावकाशः
साहाय्यकरणावसरः, यदि मत्तः किमपि साहाय्यमिच्छति तदहं कर्तुमुद्यतोऽ-
स्मीति भावः । एनं पुरुषम् । अभ्युपेत्य-सम्मुखमागत्य । इति-वक्ष्यमाणम् । भद्र
सौम्येति सम्बोधनम् । संनाहः समुद्योगः । अयं-दृश्यमानः । अवगमयति सूच-
यति । गोप्यमप्रकाशयम् । शोकहेतुं शोककारणम् ।
(२) स पुरुषः । मामर्थपालम् । सबहुमानं साग्रहम् । निर्वर्ण्य दृष्ट्वा । करवीर-
तले-करवीरवृक्षस्याधस्तात् । निषण्ण. समुपविष्टः । कथां वक्ष्यमाणाम् । पूर्वेषु
पूर्वदेशेषु । कामचरो यथेच्छाचारी । गृहपतिपुत्रः ग्रामाध्यक्षतनयो गृहस्थपुत्रो
वा । प्रयत्नसंवर्धितोऽपि-महता यत्नेन परिपालितोऽपि । दैवच्छन्दानुवर्त्ती अदृष्ट-
नेत्र लाल-लाल हो गये हैं, ऐसे लक्षणयुक्त एक पुरुषको देखा । मैने विचार किया कि,
यह पुरुष कठोर है। इसकी धंसी हुई आँखें दैन्यको बताती हुई आँसू बहा रही हैं ।
अध्यवसायसे यह साहसी ज्ञात होता है । अवश्य ही यह मनुष्य अपने जीवनसे निःस्पृह
हो करके किसी स्वात्मीय प्रियजनके कष्टदायक क्लेशको भोग रहा है । अतः इससे यह
बात पूछनी चाहिये । यदि इसे मेरी किसी प्रकारकी सहायता चाहती हो सो भी पूछना
चाहिये । 'हे भद्र ! यह आपका समुद्योग साहसको बतला रहा है। यदि कोई गुप्त रखने
योग्य बात न हो तो, मुझसे आप शोकका कारण बतावें' ।
(२) उस पुरुषने मुझे सम्मानयुक्तदृष्टिसे देख करके कहा कोई दोष नहीं है,
सुनिये ! और एक कनेलके पेड़के नीचे मेरे साथ बैठ करके उसने कथा कहनी प्रारम्भ
की । 'हे महाभाग ! मैं पूर्व देशके एक स्वेच्छाचारी पूर्णभद्र ग्रामाध्यक्षका पुत्र हूँ ।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
चतुर्थोच्छ्वासः ] बालबोधिनीव्याख्यासहितम् । २५६
पित्रा दैवच्छन्दानुवर्ती चौर्यवृत्तिरासम् । अथास्यां काशीपुर्यामर्यवर्यस्य
कस्यचिद्गृहे चोरयित्वा रूपाभिग्राहितो बद्धः । वध्ये च मयि मत्तहस्ती
मृत्युविजयो नाम हिंसाविहारी राजगोपुरोपरितलाधिरूढस्य पश्यतः काम-
पालनाम्न उत्तमामात्यस्य शासनाज्जनकण्ठरवद्विगुणितघण्टारवो मण्ड-
लितहस्तकाण्डं समभ्यधावत् । अभिपत्य च मया निर्भयेन निर्भर्त्सितः
परिणमन्दारुखण्डसुषिरानुप्रविष्टोभयभुजदण्डघटितप्रतिमानो भीतवन्न्य-
वर्तिष्ट ।
वशमापन्नः । चौर्यवृत्तिः-चौर्यं स्तेयमेव वृत्तिर्जीविका यस्य सः। आसम् अभ-
वम् । अर्यवर्यस्य-वैश्यश्रेष्ठस्य । रूपाभिग्राहितः-रूपेण चौर्यलब्धवस्तुना अभिग्रा-
हितो नागरिकैर्धृतः । वध्ये-वधार्हे । हिंसाविहारी हिंसायामन्यप्राणनाशे विहरती-
त्येवं शीलः । राजगोपुरेति राज्ञस्तद्देशाधिपतेर्गोपुरस्य पुरद्वारस्योपरितलमूर्ध्व-
देशमधिरूढस्याधिष्ठितस्य । उत्तमामात्यस्य प्रधानमन्त्रिणः । शासनादादेशात् ।
जनकण्ठेति-जनानां तत्रस्थमनुष्याणां कण्ठरवेण कण्ठध्वनिना द्विगुणितो वर्द्धितो
घण्टारवो यस्य स इति मत्तहस्तिविशेषणम् । मण्डलितेति-मण्डलितो मण्डलाकारः
कृतः हस्तकाण्डः शुण्डादण्डो यत्र तद् यथा यथेति क्रियाविशेषणम् । अभिपत्य-
समीपमागत्य । निर्भर्त्सितः तर्जितः । परिणमन्-तिर्यग्दन्तप्रहारं कुर्वन् । तिर्यग्-
दन्तप्रहारस्तु गजः परिणतो मत इति कोषः । दारुखण्डेति-दारुखण्डस्य काष्ठ-
शकलस्य सुषिरे छिद्रे अनुप्रविष्टाभ्यामन्तर्निहिताभ्यामुभयभुजदण्डाभ्यां घटि-
तस्ताडितः प्रतिमानो दन्तयोरन्तरालभागो यस्यासौ । भीतवत्-भीत इव । न्य-
वर्तिष्ट-परावृत्तोऽभवत् स हस्तीति शेषः ।
पिताद्वारा लालन-पालन और महाप्रयत्नके साथ पोषण होनेपर भी अदृष्टवश चौर्यवृत्ति
करने लगा। किसी समय इसी काशीपुरीमें एक धनिक वैश्यके घरमें मैंने चोरी की
और चोरी की हुई वस्तुओंके साथ नागरिकों द्वारा मैं पकड़ लिया गया। मेरे अपराधपर
मुझे वधदण्ड योग्य आज्ञा दी गयी। मेरे ऊपर मृत्युविजय नामका हिंसा करनेवाला
मत्त हाथी छोड़ा गया। नागरिक समूहोंकी कण्ठध्वनिसे द्विगुणित घण्टारवको करता
हुआ वह मृत्युविजय हाथी मेरी ओर झपटा । उस समय कामपाल नामक राज्यके प्रधान
मन्त्री इस नगरके मुख्यद्वारके ऊपर बैठ करके उस दण्डका अनुशासन कर रहे थे । जब
वह हाथी मेरी ओर लपका तो, मैंने निडर हो करके उस हाथोकी खूब तर्जना की और
अपने दोनों भुजदण्डोंद्वारा काष्ठके टुकड़ेको उठा करके उस हाथीके दोनों दातोंके अन्त-
रालमें ऐसा मारा कि, वह भयभीत हो करके पीछेको भागा ।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu