सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

१५८ दशकुमारचरितम् । [ उत्तरपीठिकायां

१५८ दशकुमारचरितम् । [ उत्तरपीठिकायां
शतह्रदासंतपातमिव क्षणमालोकमलक्षयम् । अथासौ नगरदेवतेव नगर-
मोषरोषिता निःसंबाधवेलायां निःसृता संनिकृष्टा काचिदुन्मिषदूभूषणा
युवतिराविरासीत् । 'कासि बासु, क यासि' इति सदयमुक्ता त्रासगद्गद-
मगादीत्—'आर्य, पुर्यस्यामर्यवर्यः कुबेरदत्तनामा वसति । अस्यहं तस्य
कन्या। मां जातमात्रां धनमित्रनाम्नेऽत्रत्यायैव कस्मैचिदिभ्यकुमारायान्व-
जानाद्भार्यां मे पिता । स पुनरस्मिन्नत्युदारतया पित्रोरन्ते वित्तैर्निजैः
क्रीत्वेवार्थिवर्गाद्दारिद्र्यं दरिद्रति सत्यथोदारक इति च प्रीतलोकाधिरोपिता-
पीवरं सान्द्रं यत्तमोऽन्धकारस्तेन निबिडितायाम् व्याप्तायाम् । राजवीथ्यां राज-
मार्गे । शतह्रदासम्पातं विद्युत्स्फुरणम् । क्षणं मुहूर्तं यावत् । आलोकं ज्योतिः ।
असौ-अग्रतो निर्दिष्टा । नगरदेवतेव-नगराधिष्ठात्री देवीव । कीदृशी सेति विशि-
नष्टि नगरमोषेति-नगरस्य पुरस्य मोषेण अपहरणेन रोषिता कोपिता । नगरस्य
यत्सारधनं मयापहृतं तेन नगराधिष्ठात्र्याः कोपः सञ्जात इति भावः । निःसञ्बा-
धवेलायां जनसंकटरहितसमये । संकटं नातु संबाध इति कोषः । निःसृता
गृहान्निर्गता । सन्निकृष्टा-समीपस्थिता । उन्मिषद्भूषणा दीप्यमानालङ्कारा ।
उन्मिषन्ति भूषणानि यस्याः सेति विग्रहः । आविरासीत्-प्रकटीबभूव । उक्ता पृष्टा
मयेति शेषः । त्रासगद्गदं भीतिभिन्नस्वरम् । पुरि नगरे । अर्यवर्यः वैश्यश्रेष्ठः।
अर्यः स्वामिवैश्ययोरिति निपातः । जातमात्रां जन्मसमये एव । अत्रत्याय-
एतद्देशोत्पन्नाय । इभ्यकुमाराय-धनिकपुत्राय भार्याम् अन्वजानात्-पत्नीत्वेन दातुं
प्रतिज्ञातवान् । सः मम पिता । अस्मिन् धनमित्रे । अत्युदारतया-दानशौण्डतया
पित्रोर्मातापित्रोः । अन्ते अवसाने मरणानन्तरमित्यर्थः । निजैः स्वकीयैः ।
वित्तैर्धनैः । अर्थिवर्गाद् याचकसमूहात् । द्रारिद्र्यं दरिद्रताम् । क्रीत्वेव गृहीत्वेव ।
बिजलीकी चमक जैसी चमकती ज्योतिको मैंने देखा । इसके बाद वह, नगरमें चोरी
होनेसे रुष्ट नगरदेवीकी नाईं, इस सुनसानके समय घरसे निकल करके, जब मेरे समीप
आयी, तब मैंने देखा कि, वह एक युवती स्त्री है और उसके शरीरपर विविध आभूषण
आभूषित हो रहे हैं। मैंने सदय बनकरके उससे पूछा-'देवि ! तुम कौन हो ? कहाँ
जा रही हो ?' अब जैसे मारे भयके गद्गदवाणीमें उसने कहा-'आर्ये ! इस पुरीमें वैश्यवर्य
कुबेरदत्त रहते हैं। मैं उनकी पुत्री हूँ। मैं जन्मी, तैसे ही मेरे पिताने यहींके निवासी एक
धनी वैश्यपुत्रके साथ मेरा विवाह करनेका संकल्प कर लिया था। माता-पिताके गुजर
जानेपर उस वैश्यकुमारने अपना सब धन याचकोंको दे करके उनकी दरिद्रता मोल ले

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १५६
परश्लाघ्यनामनि वरयत्येव तस्मिन्मां तरुणीभूतामधन इत्यदत्त्वार्थ-
पतिनाम्ने कस्मैचिदितरस्मै यथार्थनाम्ने सार्थवाहाय दित्सति मे पिता ।
तदमङ्गलमद्य किल प्रभाते भावीति ज्ञात्वा प्रागेव प्रियतमदत्तसंकेता
वञ्चितस्वजना निर्गत्य बाल्याभ्यस्तेन वर्त्मना मन्मथाभिसरा तदगारम-
भिसरामि तन्मां मुञ्च । गृहाणैतद्भाण्डम्' इत्युन्मुच्य मह्यमर्पितवती ।
( ३० ) दयमानश्चाहमब्रवम्—'एहि साध्वि, त्वां नयेयं त्वत्प्रियाव-
सथम्' इति त्रिचतुराणि पदान्युदचलम् । आपतच्च दीपिकालोकपरिलुप्य-
दरिद्रति सति दारिद्र्यमनुभवति सति । अतिदातृत्वेनार्थिभ्यः स्वधनं वितीर्य
स्वयमेव दरिद्रोऽभवदिति भावः । प्रीतेति-प्रीतेन सन्तुष्टेन लोकेन जनेनाधिरो-
पितं दत्तम् उदारक इत्यपरमन्यत् श्लाघ्यं प्रशंसनीयं-नाम अभिधानं यस्य तस्मि-
न् । वरयति प्रार्थयति । तस्मिन् धनमित्रे । अधनो निःस्व इति कारणात् । इत-
रस्मै अन्यस्मै । यथार्थनाम्ने वस्तुतो धनिकायेति भावः । सार्थवाहाय वणिजे ।
दित्सति दातुमभिलषति । तदमङ्गलम्-अर्थपतये महानरूपमशुभं कर्म । भावि-
भविष्यति । प्रागेव-दानात्पूर्वमेव । प्रियतमेन धनमित्रेण दत्तः कृतः संकेतो यस्यै
सा । वञ्चितः प्रतारितः स्वजन आत्मीयवर्गो यया सा । निर्गत्य स्वगृहादिति शेषः ।
बाल्याभ्यस्तेन-परिचितेन । मन्मथाभिसरा-मदनसहाया । तदगारं धनमित्रगृहम् ।
अभिसरामि गच्छामि । भाण्डमलङ्कारजातम् । उन्मुच्य स्वदेहादुत्तार्य ।
( ३० ) दयमानः कृपायुक्तः । नयेयं प्रापयेयम् । स्वत्प्रियावसथं त्वद्द‌यितगृहम् ।
त्रिचतुराणि-त्रीणि चत्वारि वा । उदचलं चलितवान् । आपतत्-एतदन्तरे समा-
ली और गरीबीके दिन बिता रहा है। इन्हीं लोगोंने उसको 'उदारक' यह उपाधि दे
दी है। वह श्लाघनीय नामवाला वैश्य मुझ तरुणी के साथ विवाह करना चाहता है।
'किन्तु मेरे पिता धनहीन समझ करके उसके साथ मेरा विवाह न करके अर्थपति नामक
किसी धनी और विदेशी वैश्यके साथ मेरा विवाह करना चाहते । यह अमंगल सबेरे ही
होनेवाला है, यह पता पा करके मैं अपने प्रियतमके पूर्व संकेतानुसार, अपने कुटुम्बवालोंसे
आंख बचाकरके, अभी ही निकल पड़ी और बाल्यकालसे अभ्यस्त मार्गसे उसके घर जा
रही हूँ। इसलिए आप मुझे छोड़ दें और मेरे पास जो भाण्ड है, उसे आप ले लें।'
ऐसा कह करके उसने मुझे वह भाण्ड अर्पण कर दिया।
( ३० ) अब मुझे उसपर दया आ गयी और मैंने कहा—'हे साध्वि ! आओ, मैं
तुम्हें तुम्हारे प्रियतमके घर पहुँचा दूँ।' यों कह करके मैं तीन-चार कदम चला होगा कि,