दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
२६८ दशकुमारचरितम् । [ उत्तरपीठिकायां
२६८ दशकुमारचरितम् । [ उत्तरपीठिकायां
भवत्या चित्तजन्मनो यदमुष्य जीवितभूता रतिराकृत्या कदर्शिता, धनु-
र्यष्टिर्भ्रूलताभ्याम्, भ्रमरमालामयी ज्या नीलाअलकद्युतिभिः, अस्त्राण्यपा-
ङ्गवीक्षितवृष्टिभिः, महारजनध्वजपटांशुकं दन्तच्छदमयूखजालैः, प्रथमसु-
हृन्मलयमारुतः परिमलपटीयसा निःश्वासपवनेन, परभृतमतिसञ्जलैः प्र-
लापैः, पुष्पमयी पताका भुजयष्टिभ्याम्, दिग्विजययारम्भपूर्णकुम्भमिथुन-
मुरोजकुम्भयुगलेन, क्रीडासरो नाभिमण्डलेन, संनाह्यरथः श्रोणिमण्डलेन,
कोपने । सम्बोधनमेतत् । बहु-अत्यन्तम् । भवत्या-त्वया । चित्तजन्मनः कामस्य ।
यद् यतः। अमुष्य-कामस्य । जीवितभूता प्राणस्वरूपा । रतिः स्वपत्नी । आकृत्या
आकारेण, स्वशरीरसौन्दर्येण । कदर्शिता-तिरस्कृता । धनुर्यष्टिर्धनुर्लता-अमुष्येति
सर्वत्र सम्बध्यते । भ्रूलताभ्यां स्वध्रुवल्लीभ्याम्-कदर्शितेति च सर्वत्र सम्बध्यते ।
भ्रमरमालामयी-भ्रमरपङ्क्तिरूपा । ज्या मौर्वी । नीलाअलकद्युतिभिः-स्वकृष्णकुन्त-
लकान्तिभिः । अस्त्राणि बाणाः । कदर्शितानीति विभक्तिपरिणामेनात्रान्यत्राप्य-
न्वयः। अपाङ्गवीक्षितवृष्टिभिः-कटाक्षपातैः । 'भिन्नं स्यादस्य वाणैर्युवजनहृदयं
स्त्रीकटाक्षेण तद्विदि'ति कविसमयप्रसिद्धेः । महारजनेति-महारजनं कुसुम्भं तेन
रञ्जितो ध्वजपटः पताकावस्त्रं तस्य अंशुरेवांशुकम् प्रभेति यावत् । 'स्यात्कुसुम्भं
वह्निशिखं महारजनमित्यपी'त्यमरः । दन्तच्छदमयूखजालैः-ओष्ठाधरकिरणपटलैः ।
प्रथमसुहृत् कामस्य प्रधानमित्रम् । मलयवायुः दक्षिणपवनः परिमलेति परिमलेन
सौरभेण पटीयान् समर्थतरः-मलयानिलतिरस्कारक्षम इत्यर्थः । परभृतं-कोकिलम्
अतिमञ्जुलैरतिमनेहरैः । प्रलापैः कण्ठध्वनिभिः । भुजयष्टिभ्यां बाहुलत्ताभ्याम् ।
दिग्विजययेति-दिग्विजययारम्भे विजययात्रायां मङ्गलसूचकं पूर्णघटयुगलम् । उरोज-
कुम्भयुगलेन-स्तनकलशयुग्मेन । क्रीडासरः-लीलासरोवरम् । संनाह्यरथः-युद्धार्थं
आकृतिके सौन्दर्यके द्वारा कामप्रिया रति तिरस्कृत की गयी है। आपकी भ्रुकुटियोंकी
लताओंके द्वारा कामधनुष तिरस्कृत किया गया है। आपके काले एवं चमकीले केशकला-
पोंके द्वारा कामकी भौरोंकी श्रेणियोंवाली प्रत्यञ्चा अनादृत की गयी है। आपके कटाक्षोंकी
पाँतोंसे काम-बाण अनादृत किये गये हैं। आपके ओष्ठाधरके पटलोंके द्वारा कामकी कुसुम्भी
पताकाकी कान्ति तिरस्कृत की गयी है। आपके निःश्वासोंके पवनके द्वारा कामदेवका
प्रधान मित्र मलयानिल दक्षिणपवन अनादृत किया गया है। आपकी कण्ठध्वनिके द्वारा
अतिमनोहर कोकिल हराया गया है। आपकी बाहुवल्लियोंके द्वारा कामकी फूलोंके द्वारा
गुम्फित ध्वजा तिरस्कृत की गयी है। आपके दोनों स्तनकलशोंके द्वारा कामकी विजय
यात्राके मंगलसूचक दोनों पूर्ण कलश पराभूत किये गये हैं। आपकी गम्भीर नाभिके
तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २३६
भवनरत्नतोरणस्तम्भयुगलमूरुयुगलेन, लीलाकर्णकिसलयं चरणतलप्र-
भाभिः । अतः स्थान एव त्वां दुनोति मीनकेतुः । मां पुनरनपरा-
धमधिकमायासयतीत्येष एव तस्य दोषः । तत्प्रसीद सुन्दरि, जीवय
मां जीवनौषधिभिरिवापाङ्गैरनङ्गभुजङ्गदष्टम्' इत्याश्लिष्टवान् ।
( २३ ) अरीरमं चानङ्गरागपेशलविशाललोचनाम् । अवसितार्थां
चारक्तवलितेक्षणामीषत्स्वेदरेखोद्भेदजर्जरितकपोलमूलामनर्गलकलप्र-
सज्जीकृतस्यन्दनम् । श्रोणिमण्डलेन-नितम्बयुग्मेन । भवनेति-भवनस्य गृहस्य रत्न-
निर्मितौ यौ तोरणस्तम्भौ बहिर्द्वारस्तम्भौ तयोर्युगलम् । लीलेति-लीलार्थं विला-
सार्थं यत् कर्णकिसलयं कर्णपल्लवम् । अतः-अस्माद्धेतोः-यतो भवदीयैराकृत्यादिभिः
कामसम्बन्धिनो रथादयस्तिरस्कृता इत्यर्थः । स्थाने युक्तम् । त्वां भवतीं कल्प-
सुन्दरीम् । दुनोति तापयति । मीनकेतुः-कामः । आयासयति-पीडयति । तस्य
कामस्य । जीवनौषधिभिः-जीवनोपायभूतैः अपाङ्गैः कटाक्षविक्षेपैः । अनङ्गेति-अनङ्गः
काम एव भुजङ्गः सर्पस्तेन दष्टम् । मामिति शेषः । इति-इति उक्त्वा । आश्लिष्टवान्
तामालिङ्गितवानहमिति शेषः ।
( २३ ) अरीरमं-रमितवान् । रमु क्रीडायामित्यस्य धातोर्णिजन्ताल्लुङ ।
अनङ्गेति-अनङ्गरागेण कामरागेण पेशले मनोरमे विशाले विस्तृते लोचने यस्या-
स्ताम् । अवसितार्थां समाप्तरमणाम् । आरक्तेति-आरक्तं ईषद्रक्तं समन्ताद्रक्तं वा
वलितं वक्रितमीक्षणं दृष्टिर्यस्तास्ताम् । ईषदिति-ईषत्स्वेदरेखायाः स्वल्पघर्मराजेः
उद्भेदेन निर्गमेण जर्जरितं क्लिष्टं कपोलमूलं गण्डमूलं यस्यास्ताम् । अनर्गलकल-
मण्डलके द्वारा काम का लीलासरोवर तिरस्कृत किया गया है । आपके दोनो नितम्बा-
के द्वारा कामदेवके युद्धका सुसज्जित रथ अनादृत हो गया है । आपकी दोनों जांघोंके द्वारा
कामके भवनके रत्ननिर्मित तोरणके दोनों खम्भे तिरस्कृत किये गये हैं । आपके चरण-
तलोकी प्रभाके द्वारा कामके विलासार्थ कर्णपल्लव पराजित किये गये हैं । अत एव कामदेव
आपको ठीक ही सन्तापित कर रहा है । किन्तु, मुझ निरपराधीको जो वह कामदेव
अधिक व्यथित कर रहा है-यही उसका अपराध है । इसलिए हे सुन्दरि ! मेरे ऊपर कृपा
कीजिये । मेरे जीवनोपायभूत अपने कटाक्षोंके विक्षेपोंके द्वारा कामदेवरूपी सर्पके द्वारा
काटे हुए मुझको जिलाइये । इस प्रकार कहते हुए मैंने उस कल्पसुन्दरीको आलिंगित
कर लिया ।
( २३ ) कामके रागसे जिसके बड़े-बड़े नेत्र मनोहर लग रहे थे उस कल्पसुन्दरीके
साथ मैंने रमण किया । रमणसमाप्तिके अनन्तर वह रमणी मुझे लाल-लाल तिरछे
नेत्रोंसे देखने लगी । रमणके पश्चात् उसके कपोलके मूलभाग ( गण्डप्रदेश ) से कुछ
Nepal Sanskrit University, Balmeeki Campus, Kathmandu