सामग्री पर जाएँ
सर्वकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 87, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 87

लज्जया कानि कान्यपि भावान्तराणि व्यधत्त ।
(७) 'ललनाजनं सृजता विधात्रा नूनमेषा घुणाक्षरन्यायेन निर्मि-
ता । नो चेदब्जभूरेवंविधो निर्माणनिपुणो यदि स्यात्तर्हि तत्समानलाव-
ण्यामन्या तरुणीं किं न करोति' इति सविस्मयानुरागं विलोकयतस्तस्य
समक्षं स्थातुं लज्जिता सती किञ्चित्सखीजनान्तरितगात्रा तन्नयनाभिमुखैः
किञ्चिदाकुञ्चितैरञ्चितभ्रूलतैरापाङ्गवीक्षितैरात्मनः कुरङ्गस्यानायमानलावण्यं

विश्वासोऽनुरागविशेषस्तस्मात् । कानि कान्यपि अनिर्वचनीयानीत्यर्थः । भावान्त-
राणि तदवस्थासमुचितान् नानाभावान् ।
(७) ललनाजनमित्यादि न करोतीत्यन्तं विलोकयतः इत्यस्याः क्रियायाः कर्म ।
न करोतीत्येतत्पर्यन्ता राजवाहनस्य चिन्ता । एषा अवन्तिसुन्दरी । घुणाक्षरन्यायेन
काकतालीयसंयोगन्यायेन । घुणः प्रसिद्धः काष्ठकीटो यदृच्छया काष्ठं भिन्दन् सञ्च-
रति—तथा तस्य सञ्चारेण काष्ठे कदाचिदक्षराकाराणि चिह्नानि जायन्ते । अयमेव
घुणाक्षरन्यायः । यथा घुणः अविद्वित्वैव अक्षराणि निर्माति तथैव इयमपि अविदि-
त्त्वैव विधातृहस्तान्निर्गता । नो चेत्—अन्यथा । अब्जाद्भवतीति अब्जभूब्ब्रह्मा । एवं-
विधाय। अवन्तिसुन्दरीसदृश्या निर्मागे सृष्टौ निपुणः कुशलः । तस्याः समानं तुल्यं
लावण्यं सौन्दर्य यस्यास्ताम् । अन्यामपराम् । किं कथम् । सविस्मयानुरागं विलो-
कयत इति क्रियाया विशेषणम् । विस्मयेनानुरागेण चेत्यर्थः । तस्य राजवाहनस्य ।
समक्षं पुरस्तात् । किञ्चिददीषत् सखीजनेन सहचर्य्या अन्तरितं व्यवहितं गात्रं शरीरं
यस्याः सा तथाभूता । तस्य राजवाहनस्य नयनयोर्न्नेत्रयोरभिमुखैः सम्मुखवर्त्तिभिः
किञ्चिदाकुञ्चितैर्रीषत्संक्षिप्तैः । अञ्चिते शोभिते भ्रूलते यैस्तैः । अपाङ्गवीक्षितैः कटा-
क्षैः । आत्मनः कुरङ्गस्य कुरङ्गभूतस्य आत्मनः इत्यर्थः । आनयो जालं तदिबाचर-
तीति आनायमानं लावण्यं यस्येति विग्रहः । यथा कश्चिद् आनाये कुरङ्गं बध्नाति

हुई लताके सदृश कांपने लगी । फिर लज्जाके कारण उसने अपनी सखियोंके साथ-खेला
बन्द कर दिया तथा न मालूम एक ओर बैठकर क्या क्या सोच-विचार करने लगी ।
(७) उसकी ऐसी प्रतिमा देखकर ऐसा ज्ञात हुआ कि, जब ब्रह्मदेव, सृष्टिमें स्त्रियोंकी रचना
करने लगे तब घुणाक्षरन्यायसे यह सुन्दरी बन गयी, अन्यथा इसके समान और स्त्रियां क्यों
नहीं उन्होंने रचीं । यदि वे ऐसी रचना कर सकनेमें प्रवीण होते, तब न करते ! यह तो
धोखेसे बन गयी, ब्रह्माजीने जानकर नहीं रची । नहीं तो और तरुणियां वे अवश्य बनाते ।
आश्चर्य और प्रीतिपूर्वक बार-बार राजवाहनको अवलोकित करनेवाली वह राजकुमारी वहां-
पर अधिक न बैठ सकी । बल्कि कुछ दूर हटकर अपनी सखियोंके पीछे आड़में होकर राज-
वाहनकी भुकुटियोंको देखती हुई बैठी । उस समय उसे ऐसा मालूम होता था कि राजवा-