सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

२६४ दशकुमारचरितम् । [ उत्तरपीठिकायां

२६४ दशकुमारचरितम् । [ उत्तरपीठिकायां
ष्मणि कुचतटे वैवर्ण्यमुपैति वर्णकम् । वाससी च परिभोगानुरूपं धूसरि-
माणमादर्शयतः, तदेषा मानुष्येव ।
( ६ ) दिष्ट्या चानुच्छिष्टयौवना, यतः सौकुमार्यमागताः सन्तोऽपि
संहता इवावयवाः, प्रस्निग्घतमापि पाण्डुतानुविद्धेव देहच्छविः, स्मरपी-
डानभिज्ञतया नातिविशदरागो मुखे, विद्रुमद्युतिरधरमणिः अनत्यापूर्ण-
स्थलं कपोलदेशः । आलक्ष्यते-दृश्यते मयेति शेषः । अभिनवेति-अभिनवस्य
प्रत्यग्रस्य यौवनस्य तारुण्यस्य विदाहेन विशिष्टतापेन निर्भरः प्रगाढ ऊष्मा
सन्तापो यत्र तादृशे । वैवर्ण्यं मालिन्यम् । उपैति प्राप्नोति । वर्णकमङ्गरागोऽनु-
लेपनमिति यावत् । वाससी-परिधेयवस्त्रद्वयम् । परिभोगानुरूपं-व्यवहारोचितम् ।
धूसरिमाणं मालिन्यम् । आ सम्यक् दर्शयतः प्रकाशयतः । तत्तस्मात् । एषा शयाना
सुन्दरी । मानुषी मानवी ।
( ६ ) दिष्ट्या भाग्येन । अनुच्छिष्टेति-अनुच्छिष्टं अन्यैरनुपभुक्तं यौवनं
यस्याः सा । यतः यस्मात् कारणात् । सौकुमार्यं कोमलत्वमागताः प्राप्ताः ।
संहताः सुश्लिष्टाः । अश्लथा इत्यर्थः । देहच्छविः शरीरकान्तिः प्रस्निग्धतमा-
अतिशयेन स्निग्धा मनोरमेति यावत् तादृश्यपि पाण्डुतया वैवर्ण्येनानुविद्धा
युक्तेव प्रतिभाति । स्मरपीडानभिज्ञतया-कामस्य पीडा कीदृशी भवतीति न ज्ञायते
इति हेतोः मुखे वदने अतिविशदराग अत्यौज्ज्वल्यं न वर्त्तत इति शेषः । अधर-
मणिरधरबिम्बम् । विद्रुमद्युतिः प्रवालकान्तिः । अतिशयेनापूर्णमत्या पूर्णतन्न भव-
र्त्तीति तथा। यौवनस्य पूर्णतायामेव सर्वेऽवयवाः पूर्णतां यान्ति । अतो यौवन-
प्रारम्भे वर्त्तमानाया अस्याः कपोलतलं न तथातिपूर्णतां गतमित्याशयः। आ-
पेड़से गिरा हुआ सरस और परिपक्व तथा पोला आम का फल दिखलायी पड़ता है ।
अभिनव तारुण्यकी प्राप्तिसे उद्भूत शरीरकी दाहजनित उष्णता ( गरमी ) से स्तनतट
मलिन प्रतीत हो रहे हैं । इस स्त्रीके परिधान वस्त्र ( पहिरनेके कपड़े ) उपयोगमें होनेके
कारण मैले दीख रहे हैं । अतः इन उपर्युक्त विचारोंके हेतु यह रमणी मानवी ही है—
अन्या नहीं ।
( ६ ) भाग्यवशात् यह अभीतक किसीके द्वारा उपभोगित नहीं हुई है । क्योंकि
इस रमणीके सब अवयव यद्यपि कोमल हैं तथापि सभी अवयव सुश्लिष्ट ( मिले हुए ) हैं।
इसकी शरीरकान्ति मनोरम होनेपर भी पाण्डुवर्ण है-अतः अति सुन्दर है। कामदेवकी
व्यथासे अनभिज्ञा होनेके कारण इसके मुखपर उज्ज्वल राग नहीं दिखाई पड़ता है।
मूँगेकी लालिमाके तुल्य इसकी अधरमणि मनोरम है। अपूर्ण और कुछ-कुछ लाल

पञ्चमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३६५
मारक्तमूलं चम्पककुड्मलदलमिव कठोरं कपोलतलम्, अनङ्गबाणपात-
मुक्ताशङ्कं च विश्रब्धमधुरं सुप्यते, न चैतद्वक्षःस्थलं निर्दयविमर्दविस्ता-
रितमुखस्तनयुगलम्, अस्ति चानतिक्रान्तशिष्टमर्यादचेतसो ममास्यामा-
सक्तिः । आसक्त्यनुरूपं पुनराश्लिष्टा यदि, स्पष्टमार्त्तरवेणैव सह निद्रां
मोक्ष्यति ।
(७) अथाहं न शक्ष्यामि चानुपश्लिष्य शयितुम् । अतो यद्भावि
तद्भवतु । 'भाग्यमत्र परीक्षिये' इति स्पृष्टास्पृष्टमेव किमप्याविद्ध-
रक्तं ईषद्रक्तं यस्य तत् । चम्पककुड्मलस्य चम्पककलिकायाः दलं पत्रमिव
कठोरं कठिनं पूर्णमिति यावत् । कपोलतलं-गण्डस्थलम् । अनङ्गेति-क्रियाविशे-
षणम् । अनङ्गस्य कामस्य बाणपातात् शरपतनात् मुक्ता अपगता आशङ्का
यस्मिंस्तद्यथा तथा अनूढायास्तस्याः कामशराद् भीतिरपि नास्तीति भावः । वि-
श्रब्धं विश्वस्तमत एव मधुरं मनोरमं यथा तथा सुप्यते निद्रीयतेऽनयेति शेषः ।
न चेति-एतस्या वक्षःस्थलमुरोदेशः, निर्दयविमर्देन गाढालिङ्गनादिना विस्ता-
रितं प्रकटितं मुखमग्रभागो यस्य तादृशं स्तनयुगलं यत्र तथाभूतं न भवति ।
अनतिक्रान्तेति-अनतिक्रान्ता अनुल्लङ्घिता शिष्टानां प्रामाणिकानां मर्यादा सीमा
येन तादृशं चेतो हृदयं यस्य तथाभूतस्य ममास्यां कन्यायामासक्तिरभिलाषोऽस्तीति
पूर्वेणान्वयः । आत्मतुष्टिप्रमाणेनास्यां मेऽनुरागो न दोषवह इति भावः । आस-
क्त्यनुरूपं आसक्तेरनुरागस्य सदृशम् । यदि पुनराश्लिष्टा आलिङ्गिता स्पष्टं निश्चि-
तम् । आर्त्तरवेण-कातरस्वरेण सहैव सहितमेव निद्रां मोक्ष्यति त्यक्ष्यति ।
(७) अथ पक्षान्तरे । न शक्ष्यामि-न समर्थों भविष्यामि । अनुपश्लिष्य अ-
नालिङ्ग्य । अतः-गत्यन्तराभावात् । भावि-भविष्यति । भाग्यमदृष्टम् । अत्र
अस्मिन् विषये । परीक्षिये भाग्यपरीक्षां करिष्यामीत्यर्थः । इति-एवं विचार्य ।
स्पृष्टास्पृष्टं-कियत् स्पृष्टं कियच्चास्पृष्टं यस्मिंस्तद्यथा तथा । आविद्धरागसाध्वसं-
इसके कपोलतल चम्पाकी कलीके समान कठोर है। कामशरोंके प्रहारकी भीतिसे रहित
होकर यह विश्वासपूर्वक सुन्दर रीतिसे शयन करती है । ( अनूढा है) इसके वक्षःस्थलको
निर्दय तथा गाढ आलिङ्गनका स्पर्श भी नहीं हुआ है-क्योंकि इसके स्तनतटका अग्र-
भाग प्रसारित नहीं है। शिष्टोंकी मर्यादाको अनुसरण करनेवाली मेरे मनकी आसक्ति
इस बालाके ऊपर हुई है। यदि मैं अपनी आसक्तिके ( अपने अनुरागके ) अनुरूप इसका
आलिङ्गन करूं तो यह अवश्य कातरस्वरके साथ निद्राको त्यागेगी ।
(७) अस्तु, अब मैं इसका आलिङ्गन किये बिना सोनेमें भी असमर्थ हूँ । अतः जो
भी होना होवे सो होवे । मैं अपने भाग्यकी यहां परीक्षा करूंगा ही । और मैंने उस