सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

१४ दशकुमारचरितम् । [ पूर्वपीठिकायां

१४ दशकुमारचरितम् । [ पूर्वपीठिकायां
पराजयमनुभूय वैलक्ष्यलक्ष्यहृदयो वीतदयो महाकालनिवासिनं कालीवि-
लासिनमनश्वरं महेश्वरं समाराध्य तपःप्रभावसंतुष्टादस्मादेकवीरारातिघ्नीं
भयदां गदां लब्ध्वात्मानमप्रतिभटं मन्यमानो महाभिमानो भवन्तमभि-
योक्तुमुद्युङ्क्ते । ततः परं देव एव प्रमाणम्' इति ।
( २५ ) तदालोच्य निश्चिततत्कृत्यैरमात्यै राजा विज्ञापितोऽभूत्—
'देव, निरुपायेन देवसहायेन योद्धुमराविरायाति । तस्मादस्माकं युद्धं
सांप्रतमसांप्रतम् । सहसा दुर्गसंश्रयः कार्यः' इति ।
( २६ ) तैर्बहुधा विज्ञापितोऽप्यखर्वेण गर्वेण विराजमानो राजा तद्वा-
सैन्यसंहारकारिणी इति तात्पर्यम् । संपराये युद्धे । 'युद्धायत्योः संपराय इत्यमरः' ।
वैलक्ष्यस्य पराजयजनितदैन्यस्य लक्ष्यं विषयीभूतं हृदयं यस्य सः । वीतदयो निर्द-
यः । महाकाले तदाख्यस्थाने निवासोऽस्त्यस्येति तम् । कालीविलासिनं पार्वती-
वल्लभम् । अनश्वरं विनाशरहितम् । तपसः प्रभावेण सन्तुष्टात् प्रीतात् । अस्मा-
न्महेश्वरात् । एकमेकसंख्यकं वीरं शूरम् अरातिं शत्रुं हन्तीति ताम् । भयदां भीति-
दात्रीम् । अप्रतिभटमप्रतिद्वन्द्विनम् । महानतिशयितोऽभिमानोऽहङ्कारो यस्य सः ।
अभियोक्तुमाक्रमितुम् । उद्युङ्क्ते चेष्टते । देव एव भवानेव । प्रमाणं कर्त्तव्यतानि-
र्णायकः ।
( २५) तत्र शत्रुविषये यत्कृत्य करणीयं तन्निश्चितं निर्णीतं यस्तैः । अमात्यै-
र्मन्त्रिभिः । निर्नास्त्युपायः प्रतीकारो यस्य तेन, अप्रतिकार्येणेत्यर्थः । असांप्रतमयु-
क्तम् । युक्ते द्वे साम्प्रतमित्यमरः । सहसा सत्वरम् । दुर्गसंश्रयः दुर्गप्रवेशः ।
( २६) बहुधा बहुप्रकारेण । अखर्वेण महता । अकृत्यमननुष्ठेयं कर्तुमनुचितं
युद्धमें पराजित होकर लज्जित हो गया अतएव अति दीन होकर कायिक, वाचिक, मानसिक
कष्टोंको संस्मरण करता हुआ वह महाकालनिवासी ( उज्जैनके महाकालके भव्य मन्दिरमें )
कालीविलासी अनश्वर श्रीमहेश्वरकी प्रबल आराधना करके तथा उन्हें सन्तुष्ट एवं प्रसन्न
करके अपनी तपस्याके प्रभावसे उन्हीं शङ्करजीसे एक अनुपम गदा प्राप्त कर चुका है । उस
गदाद्वारा वह युद्धमें प्रधान वीर सेनाधिको मार सकता है । बस, उक्त गदाके अभिमानपर
वह आपसे संघर्षका उद्योग कर रहा है-इसके बाद क्या करना चाहिये इसे आप विचारलें ।
( २५) इस वृत्तान्तको श्रवणकर मन्त्रियोंने विचार-विनिमयकर महाराजसे निवेदित
किया-'हे देव ! जिसमें मनु-्यके सभी उपाय विफल हैं ऐसे प्रबल यत्नसे अर्थात् शङ्करजीकी
गदाके प्रसादसे शत्रु युद्ध करने आ रहा है अतः ऐसे समय उनके साथ हमारा युद्ध करना
निष्फल होगा । ऐसे समय दुर्गका ही आश्रयण सर्वथा श्रेयस्कर होगा ।'
( २६ ) मन्त्रियोंके बार-बार उक्त रीतिसे समझानेपर भी राजा अपने पराक्रमके गर्वपर

प्रथमोच्छ्वासः ] व्याख्योपेतम् । १५
क्यमकृत्यमित्यनादृत्य प्रतियोद्धुमना बभूव ।
(२७) शितिकण्ठदत्तशक्तिसारो मानसारो योद्धुमनसामग्रीभूय सा-
मग्रीसमेतोऽक्लेशं मगधदेशं प्रविवेश ।
(२८) तदा तदाकर्ण्य मन्त्रिणो भूमहेन्द्रं मगधेन्द्रं कथंचिदनुनीय
रिपुभिरसाध्ये विन्ध्याटवीमध्येऽवरोधाम्मूलबलरक्षितान्निवेशयामासुः ।
(२६) राजहंसस्तु प्रशस्तवीतदैन्यसैन्यसमेतस्तीव्रगत्या निर्गत्या-
धिकरुषं द्विषं रुरोध ।
(३०) परस्परबद्धवैरयोरतयोः शूरयोस्तदा तदालोकनकौतूहलागत-
गगनचराश्चर्यकारणे रणे वर्तमाने जयाकाङ्क्षी मालवदेशरक्षी विविधायुध-
दौर्बल्यप्रकाशकत्वादित्यर्थः । अनादृत्य अस्वीकृत्य । प्रतियोद्धुमना युद्धाभिलाषी ।
(२७) शितिकण्ठेन शिवेन दत्ताऽर्पिता शक्तिः प्रहरणविशेष एव सारो बलं
यस्य सः । योद्धुमनसां युद्धाकाङ्क्षिणाम् । अग्रीभूय पुरो भूत्वा । सामग्रीसमेतः
युद्धोपकरणसहितः ।
(२८) भूमहेन्द्रं पृथिवीन्द्रम् । कथञ्चिदितियत्नेन । असाध्ये दुष्प्रवेश्ये । अवरोधाम्
राजस्त्रियः मूलबलेन प्रधानसैन्येन रक्षितान् गुप्तान् निवेशयामासुः स्थापयामासुः ।
(२९) प्रशस्तैर्युक्तैर्वीतदैन्यैस्त्यक्तकार्पण्यैः निर्भयैरित्यर्थः । सैन्यैः समेतो
युक्तः । तीव्रगत्या महता वेगेनेत्यर्थः । अधिकरुषं अतिक्रुद्धम् ।
(३०) परस्परेण बद्धं घृतं वैरं याभ्यां तयोः । तस्य युद्धस्यालोकने दर्शने
यत्कौतूहलं कौतुकं तेनागतानां युद्धक्षेत्रे समुपस्थितानां गगनचराणामाकाशचारिणां
देवानां आश्चर्यकारणे विस्मयहेतुभूते । मालवदेशस्य रक्षी रक्षिता मानसारः । विवि-
समर में जानेको तैयार हो गया ।
(२७) मानी मानसार भी शङ्करजीकी दी हुई अमोघ शक्तिपर सम्पूर्ण वीरों में प्रमुख
होकर बिना क्लेशके युद्धसामग्रीके सहित मगध देशमें घुस आया ।
(२८) मानसारके आगमनकी चर्चा श्रवण कर के मन्त्रियोंने पृथिवीके स्वामी इन्द्रके तुल्य
मगधेन्द्रको समझा-बुझाकर येन केन प्रकारेण राजमहल (अन्तःपुर) की स्त्रियोंको मुख्य
सेनाकी रक्षामें विन्ध्यपर्वतकी अटवीके मध्यमें भिजवा दिया ।
(२९) नृपति राजहंस दैन्यशून्य सेनाको अपने साथ लिय बड़ी तीव्रगतिसे अपनी
राजधानीसे बाहर आया और अति क्रोधसे आती हुई शत्रुसेनाको घेर लिया ।
(३०) परस्पर बद्धवैर इन दोनों शूरोंके उस संग्रामको देखनेके निमित्त आये आकाश-
गामी जनोंको भी वह युद्ध आश्चर्यका कारण हुआ। उस समय प्रवर्त्तमान तथा विजयाकांक्षी