सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

३०२ दशकुमारचरितम् । [ उत्तरपीठिकायां

३०२ दशकुमारचरितम् । [ उत्तरपीठिकायां
( १२ ) अथ राज्ञः श्रावस्तीश्वरस्य यथार्थनाम्नो धर्मवर्धनस्य कन्यां
नवमालिकां घर्मकालसुभगे कन्यापुरविमानहर्म्यतले विशालकोमलतलं
शय्यातलमधिशयानां यदृच्छयोपलभ्य 'दिष्ट्येयं सुप्ता, परिजनश्च गाढ-
निद्रः । शेतामयमात्र मुहूर्तमात्रं ब्राह्मणकुमारो यावत्कृतकृत्या निवर्तेय'
इति त्वां तत्र शाययित्वा तमुद्देशमगमम् । दृष्ट्वा चोत्सवश्रियम्, निविश्य
च स्वजनदर्शनसुखमभिवाद्य च त्रिभुवनेश्वरमात्मालीकप्रत्याकलनोपारू-
ढसाध्वसं च नमस्कृत्य भक्तिप्रणतहृदया भगवतीमम्बिकाम्, तया गिरि-
दुहित्रा देव्या सस्मितम् 'अयि भद्रे, मा भैषीः । भवेदानीं भर्तृपार्श्वगा-
मिनी । गतस्ते शापः' इत्यनुगृहीता सद्य एव प्रत्यापन्नमहिमा प्रतिनिवृत्त्य
( १२ ) यथार्थनाम्नः-सार्थकनामवतः । घर्मकालसुभगे-ग्रीष्मसमयमनोरमे ।
कन्यापुरे यद् विमानं सप्ततलगृहं तस्य हर्म्यतले कुट्टिमे । यदृच्छया-दैवयोगेन ।
उपलभ्य प्राप्य । दिष्ट्या भाग्येन । इयं नवमालिका । परिजनः सहचरीवर्गः ।
गाढा सान्द्रा निद्रा यस्य सः । शेतां शयनं करोतु । शयनार्थकशीधातोर्लोटि रूपम् ।
अयं तरुणः प्रमतिरिति यावत् । कृतकृत्या-सम्पादितस्वकार्या अहमिति शेषः ।
तत्र कन्यान्तःपुरे । तमुद्देशं उत्सवसमाजम् । निर्विश्य-उपभुज्य । अभिवाद्य प्रण-
म्य । आत्मेति आत्मनः स्वस्यालीकमपराधः तस्य प्रत्याकलनेन ज्ञानेनोपारूढं
सञ्जातं साध्वसं लज्जा यस्मिंस्तत्तथा तथा । भक्त्या प्रणतं नम्रं हृदयं यस्याः सा
अहमिति शेषः । गिरिदुहित्रा-हिमालयकन्यया । अनुगृहीतेति क्रियायाः कर्तृपदमे-
तत् । सद्यस्तत्क्षणम् । प्रत्यापन्नमहिमा-पुनः प्राप्तदैवप्रभावा । यथावत्-तत्त्वतः ।
( १२ ) तदनन्तर दैवयोगसे मैंने श्रावस्ती नगरीके राजा यथार्थनामा महाराज
धर्मवर्धनकी पुत्री नवमालिकाको देखा । जो नवमालिका ग्रीष्मकालके लिये सुखदायी
राजभवनमें बड़ी भारी चारपायीपर प्रगाढ़ निद्रामें सो रही थी । भाग्यवशात् यह भी
सोयी हुई है और यह परिजन भी गाढ़ी नींदमें सोये हुए हैं। ऐसा विचार कर मैंने
आपको तबतकके लिये वहीं सुला दिया जबतक मैं लौट न आऊँ । अर्थात्-मैंने
सोचा-यह ब्राह्मणका बालक मुहूर्त्तमात्र यहाँपर सोवे और तबतक मैं दर्शनादिसे कृतकृत्य
होकर लौटती हूँ ।' ऐसी व्यवस्था करके-आपको सुलाकर-मैं उस मन्दिरमें गयी ।
वहां महोत्सवकी शोभा देखी और अपने परिजनोंके दर्शन-सुखका अनुभव प्राप्त किया ।
अकारण ही आत्मकृत अपराधके स्मरण होनेसे उत्पन्न लज्जाके वश होकर मैंने तीनों
लोकोंके स्वामी शिवको प्रणाम किया । फिर भक्तिसे प्रणतहृदय होकर मैंने भगवती
अम्बिकाको प्रणाम किया । ततः वे गिरिनन्दिनी देवी हँस कर बोली-'हे सौम्ये !

पञ्चमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३०३
दृष्ट्वैव त्वां यथावदभ्यजानाम्—'कथं मत्सुत एवायं वत्सस्यार्थपालस्य
प्राणभूतः सखा प्रमतिरिति पापया मयास्मिन्नज्ञानादौदासीन्यमाचरितम्।
अपि चायमस्यामासक्तभावः। कन्या चैनं कामयते युवानम्। उभौ चेमौ
लक्षसुप्तौ त्रपया साध्वसेन वान्योन्यमात्मानं न विवृण्वाते। गन्तव्यं च
मया। कामाघ्रातयाप्यनया कन्यया रहस्यरक्षणाय न समाभाषितः सखी-
जनः परिजनो वा। नयामि तावत्कुमारम्। पुनरपीममर्थं लब्धलक्षो यथो-
पपन्नैरुपायैः साधयिष्यति' इति मत्प्रभावप्रस्वापितं भवन्तमेतदेव पत्रश-
यनं प्रत्यनैषम्।
(१३) एवमिदं वृत्तम्। एषा चाहं पितुस्ते पादमूलं प्रत्युपसर्पेयम्'
अभ्यजानाम्-ज्ञातवती । औदासीन्यं-उचितयत्नाभावः। अयं प्रमतिः । अस्या
नवमालिकायाम्। आसक्तभावः-अनुरक्तचित्तः। लप्तसुप्तौ-कपटनिद्रितौ। त्रपया-
लज्जया । साध्वसेन भयेन । विवृण्वाते प्रकाशयतः। कामाघ्रातया-मदनस्पृष्टया ।
रहस्यरक्षणाय-गोप्यसंवरणार्थम् । समाभाषितः कथितः। नयामि-इतोऽन्यत्र प्रा-
पयामि । कुमारं-प्रमतिम् । इममर्थम्-नवमालिकाप्राप्तिरूपम् । लब्धलक्षः-प्राप्ता-
वसरः। यथोपपन्नैः-युक्तियुक्तैः । मत्प्रभावप्रस्वापितं-मन्मायया निद्रापितम् । भ-
वन्तं त्वाम् । अनैषम्-नीतवती ।
(१३) एवम्-एतावत् । पितुः-पितृव्यस्य पित्रा तुल्यत्वात् कामपालस्ये-
मत डरो, अब अपने पतिके समीप जाओ। तुम्हारा शाप नष्ट हो गया।' अम्बिकाके
इस प्रसादसे तत्क्षण ही मुझे सभी बातोंका ज्ञान ठीक-ठीक होने लगा। 'अरे !
पापात्मा होनेके कारण पूर्वमें मैंने अपनी अज्ञतावश इसे नहीं पहिचाना और उदासीनता
दिखायी। यह तो मेरे लड़के अर्थपाल का प्राणके समान सखा प्रमति है। तथा यह प्रमति
इस कन्यापर आसक्त है और यह कन्या नवमालिका भी इसे चाहती है। ये दोनों
कपटनिद्रामें सो रहे हैं। लज्जा और भयसे अपने-अपने अभिप्रायोंको प्रकाशित
नहीं कर रहे हैं। मुझे जाना भी है। यद्यपि यह राजकन्या नवमालिका भी कामपीडिता
हो गयी है, परन्तु रहस्य प्रकट न हो जाय इसी कारण सखी आदि परिजनोंसे
प्रकाशित नहीं कर रही है। अब मैं राजकुमार प्रमतिको ले जाती हूँ । फिरसे इस
अर्थकी सिद्धिके लिये अर्थात् नवमालिकाको प्राप्त करनेके लिए यह राजकुमार उचित
उपायोंकी युक्तियोंसे इस राजकुमारीको प्राप्त कर लेगा। बस इस रीतिसे मैंने अपने प्रभावसे
आपको सुला करके (निद्रित करके) पुनः इस अरण्यकी पत्र-शय्यापर ला दिया।
(१३) इसी प्रकार यह वृत्त जानिये। अब मैं आपके पिता कामपालके चरणोंके