सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

१४६ दशकुमारचरितम्। [ उत्तरपीठिकायां

१४६ दशकुमारचरितम्। [ उत्तरपीठिकायां
हर्षमूलश्च कोलाहलो लोकस्योदजिहीत। हृष्टेन च राज्ञा महार्है रत्ना-
लंकारैरर्हता च परिबर्हेणानुगृह्य विसृष्टा वारमुख्याभिः पौरमुख्यैश्च गणशः
प्रशस्यमाना स्वभवनमगत्वाैव तमृषिमभाषत- 'भगवन्, अयमञ्जलिः,
चिरमनुगृहीतोऽयं दासजनः, स्वार्थ इदानीमनुष्ठेयः' इति।
( १६ ) स तु रागादशनिहत इवोद्भ्राम्याब्रवीत्-'प्रिये, किमेतत्। कुत
इदमौदासीन्यम्। क्व गतस्तव मय्यसाधारणोऽनुरागः' इति। अथ सा
सस्मितमवादीत्-भगवन्, ययाद्य राजकुले मत्तः पराजयोऽभ्युपेत-
पेतम्-अङ्गीकृतम्। प्रशुं-राजानम्। प्राणं सीत्-प्रणनाम। विस्मयेति-विस्मय-
श्चमत्कारो हर्ष आनन्दश्चेति विस्मयहर्षौ मूलं यस्य स तथा। लोकस्य-तत्रस्थ-
जनसमूहस्य। उदजिहीत-उत्थितोऽभवत्। ओहाङ्गतौवित्यस्य लङि रूपम्। महार्है-
र्बहुमूल्यैः। परिबर्हेण राजोचितपरिच्छदेन, हस्त्यश्वादिभिरित्यर्थः। अनुगृह्य-परि-
तोष्य काममञ्जरीमिति शेषः। विसृष्टा-गमनायानुज्ञाता। वारमुख्याभिः-श्रेष्ठवारा-
ङ्गनाभिः। पौरमुख्यैः नागरिकप्रधानैः। गणशः-संघशः। प्रशस्यमाना। अभिनन्द्य-
माना काममञ्जरीति शेषः। अयमञ्जलिः-प्रणमामीति भावः। अयं दासजनः-
अहमित्यर्थः। स्वार्थः-स्वकीयप्रयोजनम् अनुष्ठेयः-अनुष्ठीयताम्।
(१९) स महर्षिः। रागाद् अनुरागात्। अशनिहतो वज्राहतः। उद्भ्रम्य
उद्भ्रान्तो भूत्वा। कुतः-कस्माद्धेतोः। औदासीन्यं-विरागः। सा काममञ्जरी।
यया-गणिकया। राजकुले-राजसकाशे। मत्तः मम सकाशात्। संघर्षे-विवादे।
आवर्जितवतीव-वशीकृतवतीव। श्लाघसे-स्वगौरवं प्रकटयसि। अधिक्षिप्ता-
तिरस्कृता। दास्यमेव पणस्तस्य बन्धो दृढनियमस्तेन। यद्यहं मरीचिमावर्जयितुं
शक्नुयां तदा त्वं मे दासी भविष्यसि, अन्यथाऽहं तव दासी भविष्यामीति पणस्य
करके उसने राजाको प्रणाम किया। इसपर राज-दरबारमें आश्चर्य और हर्षभरा कोलाहल
होने लगा। महाराजने प्रसन्न हो करके बेशकीमती रत्नजटित अलङ्कार, अच्छे-अच्छे
वस्त्र दे करके काममंजरीको विदा किया। तब झुण्डके झुण्ड वेश्याओं और पुरवासियोंने
उसकी प्रशंसा की। अपने घर पहुंचनेके पहले ही काममंजरीने मरीचि से कहा-'भगवन् !
मैं हाथ जोड़ती हूँ। आपने इस दासीपर बड़ी कृपा की। अब जा करके अपना
काम करिये।'
( १९) प्रेमातिरेकके कारण अपनी प्रियाके कठोर वचन सुन करके महर्षि इस तरह
तिलमिला उठे जैसे उन पर वज्र गिर पड़ा हो। उन्होंने कहा 'प्रिये ! यह क्या? ऐसी
उदासीनता तुममें क्यों आ गयी? मुझपर तुम्हारा जो असाधारण अनुराग था, वह कहाँ

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १४७
स्तस्याश्च मम च कस्मिंश्चित्संघर्षे 'मरीचिमावर्जितवतीव श्लाघसे' इति
तयाऽस्म्यहमधिक्षिप्ता । दास्यपणबन्धेन चास्मिन्नर्थे प्रावर्तिषि । सिद्धार्था
चास्मि त्वत्प्रसादात्' इति । स तया तथावधूतो दुर्मतिः कृतानुशयः शून्यव-
न्न्यवर्तिष्ट । यस्तयैवं कृतस्तपस्वी तमेव मां महाभाग, मन्यस्व । स्व-
शक्तिनिषिक्तं रागममुद्धृत्य तयैव बन्धक्या महद्वैराग्यमर्पितम् । अचिरा-
देव शक्य आत्मा त्वदर्थसाधनक्षमः कर्तुम् । अस्यामेव तावद्वसाङ्गपुर्यां
चम्पायाम्' इति ।
(२०) अथ तन्मनश्च्युततमःस्पर्शभियेवास्तं रविरगात् । ऋषिमु-
स्वरूपम् । अर्थे-विषये-भवदावर्जनरूपे इत्यर्थः । प्रावर्त्तिषि-प्रवृत्ता । सिद्धार्था-
कृतकृत्या । सः-मरीचिः । तया-काममञ्जर्या । तथा-तेन प्रकारेण अवधूतः-
तिरस्कृतः । कृतानुशयः-कथमहमनया वञ्चित इति कृतपश्चात्तापः । शून्यवत्-
शून्यहृदय इव । न्यवर्त्तिष्ट-स्वस्थानं प्रति परावृत्तोऽभवत् । यस्तपस्वी-अहमि-
त्यर्थः । तया-काममञ्जर्या । एवं कृतः-पापे निमज्जितः तमेव-मरीचिमेव । मन्य-
स्व-जानीहि । महाभागेति सम्बोधनमपहारवर्मणः । स्वशक्तिनिषिक्त-निजसाम-
र्थ्यनिःक्षिप्तम्-काममञ्जर्या स्वयमेव जनितमित्यर्थः । रागम्-अनुरागम् । उद्धृ-
त्य-उत्पाट्य । बन्धक्या-कुलटया । महद्वैराग्यमर्पितं-रागस्थाने वैराग्यं स्थापि-
तम् । त्वदर्थेति । तवापहारवर्मणोऽर्थस्य प्रयोजनस्य सुहृद्गतिनिर्णयरूपस्य साधने
सम्पादने क्षमः समर्थः । अल्पेनैव कालेन पुनरहं पूर्वशक्तिसम्पन्नो भविष्या-
मीत्यर्थः । वस-तिष्ठ प्रतिपालयेति यावत् ।
(२०) अथेति-तस्य मरीचेर्मनसो मानसाच्च्युतं गलितं यत्तमोऽज्ञानरूपं
चला गया ?' तब उसने मुसकाकर कहा-'भगवन् ? जिस स्त्रीने राज-दरबारमें अपनी
पराजय मानी है, उसके साथ किसी समय मेरा संघर्ष हो गया। उस समय उसने ताना
दे करके कहा था-'ओ हो ! तुम तो, इतनी हेकड़ी दिखाती हो, मानो तुमने महर्षि
मरीचिको मोहित कर लिया है।' अन्तमें जब उसने मेरी दासी होनेकी शर्त मान ली,
तब मैं इस काम- (आपको मोहित करनेके काम) में प्रवृत्त हुई । और आपकी
कृपासे मनोरथ भी सिद्ध हो गया ।' उसके द्वारा इस प्रकार तिरस्कृत हो करके दुर्गति
मरीचि बहुत पछताये और शून्य मनसे आश्रमपर लौट आये । इस तरह जिस तपस्वीकी
छीछालेदर हुई थी, हे महाभाग ! वह मैं ही हूँ। उस कुलटाने अपने अर्पित अनुरागको
दूर करके मुझे असाधारण वैराग्य प्रदान किया है। शीघ्र ही मेरी आत्मा आपका कार्य-
साधन करनेको समर्थ हो जायगी । तबतक आप इसी अङ्गपुरीमें निवास करिये ।
(२०) इसी समय जैसे उस तपस्वीके मनसे निःसृत अज्ञानान्धकारके स्पर्शभयसे