सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

८२ दशकुमारचरितम् । [ पूर्वपीठिकायां

८२ दशकुमारचरितम् । [ पूर्वपीठिकायां
रक्ताशोककिंशुकतिलकेषु कलिकामुपपादयन्, मदनमहोत्सवाय रसिकम-
नांसि समुल्लासयन्, वसन्तसमयः समाजगाम ।
(२) तस्मिन्नतिरमणीये कालेऽवन्तिसुन्दरी नाम मानसारनन्दिनी
प्रियवयस्यया बालचन्द्रिकया सह नगरोपान्तरम्योद्याने विहारोत्कण्ठया
पौरसुन्दरीसमवायसमन्विता कस्यचिच्चूतपोतकस्य छायाशीतले सैकत-
तले गन्धकुसुमहरिद्राक्षतचीनाम्बरादिनानाविधेन परिमलद्रव्यनिकरेण
मनोभवमर्चयन्ती रेमे ।
(३) तत्र रतिप्रतिकृतिमवन्तिसुन्दरीं द्रष्टुकामः काम इव वसन्त-
सहायः पुष्पोद्भवसमन्वितो राजवाहनस्तदुपवनं प्रविश्य तत्र-तत्र मलयमा-
वृत्तश्च ते तेषु । कलिकां कोरकम् । उपपादयन् जनयन् । मदनमहोत्सवाय मदनम-
होत्सवार्थम् । रसिकानां कामिजनानां मनांसि मानसानि । उल्लासयन् उत्साहयन् ।
(२) तस्मिन् पूर्वोक्ते । काले वसन्त इत्यर्थः । मानसारस्य तदाख्यमालवेश्व-
रस्य नन्दिनी कन्या । अवन्तिसुन्दरीति नामधेया । प्रियवयस्यया प्रियसख्या ।
नगरस्योपान्ते सीमायां यद् रम्यं मनोहरमुद्यानमुपवनं तत्र । विहारार्थं क्रीडार्थमु-
त्कण्ठया व्याकुलतया । पुरे भवाः । पौराश्च ताः सुन्दर्यस्तासां पौराङ्गनानां समवायेन
मण्डलेन समन्विता युक्ता । चूतपोतकस्य शिशुसहकारस्य । छायया शीतलं तस्मिन् ।
सैकततले सिकतामयप्रदेशे । गन्धश्चन्दनं, कुसुमं पुष्पं, हरिद्रा, अक्षतास्तण्डुलाः,
चीनाम्बरं सूक्ष्मवस्त्रं इत्यादिनानाविधेन अनेकप्रकारेण । परिमलद्रव्यनिकरेण गन्ध-
द्रव्यसमूहेन । मनोभवं कामम् । रेमे चिक्रीड ।
(३) तत्र तस्मिन् समये । रतेः कामपत्न्याः प्रतिकृतिः प्रतिमा ताम् । वसन्तः
सहायो यस्य स वसन्तद्वितीय इत्यर्थः । मलयेति-मलयमारुतेन दक्षिणानिलेन
महोत्सव मनानेके निमित्त कामदेवने रसिकोंके हृदयोंमें एक विशेष रीतिकी उल्लास ला
दिया । इस तरहसे वसन्त काल जब आ पहुँचा तब-
(२) ऐसी सुखदायी ऋतुमें राजा मानसारकी कन्या अवन्तिसुन्दरी अपनी प्रिय सहचरी
बालचन्द्रिकाके साथ विहार करनेकी अभिलाषासे नगरके समीप उपवनमें आयी । उसके
साथ नगरकी महिलाएँ भी थीं। उस उपवनमें आकर उसने एक छोटे आमके वृक्षोंके नीचे,
रोरी, चन्दन, फल, फूल, हल्दी, अक्षत तथा चीनदेशीय रेशमी वस्त्रोंके द्वारा सुगन्धित
द्रव्योंके सहित विधिवत् आनन्दके साथ कामदेवका पूजन किया और क्रीड़ा करने लगी-
सखियोंसे विनोद करने लगी।
(३) कामदेवके समान मनोज्ञ राजवाहन भी पुष्पोद्भवके साथ उसी समय कामदेवकी पत्नी
के समान मनोहर अवन्तिसुन्दरीको देखने जब वहाँपर आ गये तब ऐसा मालूम होता था

पञ्चमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ८३
रुतान्दोलितशाखानिरन्तरसमुद्भिन्नकिसलयकुसुमफलसमुल्लसितेषु रसा-
लतरुषु कोकिलकीरालिकुलमधिकराणामालापाञ्श्रावं श्रावं किञ्चिद्विकसदि-
न्दीवरकह्लारकैरवराजीवराजीकेलिलोलकलहंससारसकारण्डवचक्रवाकच-
क्रवालकलरवव्याकुलविमलशीतलसलिलललितानि सरांसि दर्शंदर्शं-
मन्दलीलया ललनासमीपमवाप ।
(४) बालचन्द्रिकया 'निःशङ्कमित आगम्यताम्' इति हस्तसंज्ञया
समाहूतो निजतेजोनिर्जितपुरहूतो राजवाहनः कृशोदर्या अवन्तिसुन्दर्या
अन्तिकं समाजगाम ।
आन्दोलितासु कम्पितासु शाखासु निरन्तरं निरवच्छिन्नं समुद्भिन्नैर्विकसितैः किस-
लयकुसुमफलैः पल्लवपुष्पफलैः समुल्लसितेषु शोभितेषु । रसालतरुषु आम्रवृक्षेषु ।
कोकिलेति-कोकिलाः पिकाश्च कीराः शुकाश्च अलिकुलं भ्रमरसमूहश्च मधुकरा भ्रम-
राश्च ते तेषाम् । आलापान् शब्दान् । श्रावं श्रावं वारं वारं श्रुत्वा । आभीक्ष्ण्ये णमुल्
किञ्चिदिति-किञ्चिदीषद् विकसन्तीषु प्रस्फुटन्तीषु इन्दीवराणां, कह्लाराणां सौगन्धि-
कानां, कैरवाणां कुमुदानां राजीवानां कमलानां च राजीषु श्रेणिषु केलिलोलाः क्रीडा-
सक्ता ये कलहंसाः कादम्बाः सारसाः पुष्कराह्वाः कारण्डवा मद्गवः-(मद्गुः
कारण्डवः प्लव इत्यमरः) चक्रवाकाश्चक्राह्वाश्च तेषां यच्चक्रवालं मण्डलं तस्य कल-
रवेण अव्यक्तमधुरध्वनिना व्याकुलानि व्याप्तानि विमलानि स्वच्छानि शीतलानि
शिशिराणि यानि सलिलानि जलानि तैर्ललितानि मनोरमाणि । सरांसि सरोवराणि
दर्शं दर्शं वारं वारं दृष्ट्वा । अत्रापि पूर्ववण्णमुल् । ललनासमीपं अवन्तिसुन्दरी-
निकटम् । अवाप प्राप्तवान् राजवाहन इति शेषः ।
(४) निःशङ्कं निर्भयम् । हस्तसंज्ञया करचेष्टया । समाहूत आकारितः । निज-
तेजसा स्वप्रतापेन निर्जितः पराजितः पुरहूत इन्द्रो येन सः । कृशमुदरं यस्याः सा
कृशोदरी तस्याः क्षीणमध्याया इत्यर्थः ।
मानो बसन्तके साथ कामदेव अपनी स्त्री रतिको देखने आया हो । मलय पवनके झोकोंसे
झूमते और नवीन-नवीन कोंपलोंके पुष्पोंके, और फलोंके भारसे दबे आमोंके पेडोंपर बैठी
कोयलों और सुग्गों की ध्वनियाँ तथा भ्रमरोंकी सुरीली तानोंसे कर्णोंको सुख देते हुए
एवं अधखिले नीले तथा सफेद कमलों-कुमुदिनियों और साधारण पद्मोंपर केलि करते हुए
राजहंस, सारस, चक्रवाकोंके समुदायके मधुर मधुर गानोंसे व्याकुल निर्मल तथा शीतल जल-
वाले तालावोंकी शोभाको बार-बार निरखते हुए वे लोग अवन्तिसुन्दरीके समीप जा पहुँचे ।
(४) दूरसे ही बालचन्द्रिकाने हाथके संकेतसे राजवाहनको पुकारकर कहा-निडर
होकर चले आइये । उसके इशारेपर अपने तेजसे इन्द्रको पराजित करनेवाले राजवाहन उस
Nepal Sanskrit University, Balmeeki Campus, Kathmandu