सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

३८२ दशकुमारचरितम् । [ उत्तरपीठिकायां

Here is the complete transcription of the text from the image:

३८२ दशकुमारचरितम् । [ उत्तरपीठिकायां
(३) स च तथाकार्षीत् । ततश्चैनां त्रासेनालघीयसास्त्रजर्जरेण च
कण्ठेन रणरणिकागृहीतेन च हृदयेन 'हा तात, हा जननि' इति क्रन्दन्तीं
कीर्णम्लानशेखरस्रजि शीर्णनहने शिरसिजानां संचये निगृह्यासिना शिला-
शितेन शिरश्चिकर्त्तिषयाचेष्टत । झटिति चाच्छिद्य तस्य हस्तात्तां शस्त्रिकां
तया निकृत्य तस्य तच्छिरः सजटाजालम्, निकटस्थस्य कस्यचिज्जीर्ण-
सालस्य स्कन्धरन्ध्रे न्यदधाम् । तन्निध्याय हृष्टतरः स राक्षसः क्षीणाधिर-
कथयत्—'आर्य, कदर्यस्यास्य कदर्यनान्न कदाचिन्निद्रायाति नेत्रे । तर्ज-
(३) स किङ्करः । तथा तत्कथनानुरूपम् । एनां कनकलेखाम् । अलघीयसा
महता । अस्रजर्जरेण-वाष्पगद्गदेन । रणरणिकेति-रणरणिकया उद्वेगातिशयेन
गृहीतम्-आक्रान्तं तेन । कीर्णेति-कीर्णा विक्षिप्ता अतश्च म्लाना शेखरस्रक् शिरो-
भूषणभूतमाल्यं यस्य तथाविधे, शीर्णनहने शिथिलबन्धने शिरसिजानां केशानां
सञ्चये कलापे निगृह्य सुदृढमाकृष्य असिना खड्गेन शिलया पाषाणेन शितस्तीक्ष्णी-
कृतस्तेन शिरश्चिकर्त्तिषया मस्तकच्छेदनेच्छया अचेष्टत उद्यतोऽभवत् । आच्छिद्य
आकृष्य । तस्य पुरुषस्य । तया शस्त्रिकया निकृत्य छित्त्वा । तस्य पुरुषस्य ।
सजटाजालं जटामण्डलमण्डितम् । जीर्णसालस्य पुरातनवृक्षस्य । स्कन्धरन्ध्रे
कोटरे । न्यदधाम् न्यक्षिपम् अहं मन्त्रगुप्त इति शेषः । निध्याय विलोक्य । स
पूर्वोक्तः किङ्कर एव राक्षसः । क्षीणाधिः अपगतमनोव्यथः । कदर्यस्य पापस्य ।
अस्य तापसवेषधारिणः कदर्यनात् पीडनात् । निद्रा नेत्रे न आयाति, अस्य पीडन-
कर्त्ताने आदेश दिया—'जाओ, कलिंगके राजा कदनक की पुत्री कनकलेखाको कन्या-
गृहसे यहांपर ले आओ।'
(३) उस किंकरद्वारा वह कार्य यथाज्ञा सम्पादित कर दिया गया । जब कन्या
वहां आ गयी, तो वह बड़े भयसे आंसुओंको गिरातो हुई रुँधे गलेसे तथा अत्यन्त
उद्वेगसे आक्रान्त हृदय होकर हा ! तात, हा ! जननि, चिल्लाती हुई रोने लगी।
रोनेके कारण इधर-उधर होकर उस कन्याके शिरपर अलंकारके समान धारण की हुई
माला भी म्लान हो गयी, बन्धन शिथिल हो गये । तब उस हवनकर्त्ताने, उसके केश-
कलापोंको पकड़कर पत्थरके ऊपर तेज की हुई तलवारसे ज्योंहो उस कन्याके शिरको
काटनेकी चेष्टा की त्योंही उसके हाथसे मैंने उस तलवारको छीनकर उसी हवनकर्त्ताके
जटामण्डलमण्डित शिरको काट डाला। वहींके एक पुराने वृक्षके कोटर (खोखला) में
उसके शिरको फेंक दिया। उसकी मृत्युसे प्रसन्नचित्त तथा मानसी पीड़ा रहित होकर
वह किंकर कहने लगा 'हे आर्य ! इस पापी हवनकर्त्ताकी पीड़ासे मेरे नेत्रोंमें कभी

यति त्रासयति च, अकृत्ये चाज्ञां ददाति। तदत्र कल्याणराशिना साधीयः
कृतम् । यदेष नरकाकः कारणानां नारकिणां रसज्ञानाय नीतःशीतेतरदी-
धितिदेहजस्य नगरम्, तदत्र दयानिधेरनन्ततेजसस्तेऽयं जनः कांचि-
दाज्ञां चिकीर्षति । आदिश, अलं कालहरणेन' इत्यनंंसीत् ।
( ४ ) आदिशं च तम्—सखे, सैषा सज्जनाचरिता सरणिः, यद्-
णीयसि कारणेऽनणीयानादरः संदृश्यते । न चेदिदं नेच्छसि सेयं संन्न-
भयेन निद्रातुमपि न शक्यत इति भावः । अकृत्ये कर्तुमनुचिते विषये। अत्र
अस्य विषये । कल्याणराशिना-मङ्गलालयेन त्वया साधीयः यथोचितम् , अति
साधु वा । नरकाकः नरेषु काक इव-नराधम इत्यर्थः । कारणानां यातनानाम् ।
'कारणा तु यातना तीव्रवेदने'त्यमरः । नारकिणां नरकपतितानाम् । नरकवासिनां
याः यातना भवन्ति तासां रसज्ञानाय आस्वादग्रहणाय नीतः प्रापितः स्वयेति
शेषः । शीतेतरा उष्णा दीधितिर्मरीचिर्यस्य स शीतेतरदीधितिः सूर्यस्तस्य देहज
आत्मजो यमस्तस्य-नगरं यमालयमित्यर्थः । अनन्ततेजसः-अमितशक्तेः। अयं
जनः-अहम् इत्यर्थः । चिकीर्षति-आज्ञामनुष्ठातुमिच्छति । कालहरणेन-कालविल-
म्बेन । अनंसीत् प्रणाम ।
( ४ ) आदिशम् आज्ञातवानहमिति शेषः । तं राक्षसम् । सैषा प्रसिद्धा ।
सरणिः पद्धतिः मार्ग इति यावत् । अणीयसि अणुतेरे अत्यल्पे इति यावत् । कारणे
आदरहेतौ । अनणीयान्-महान् । सज्जना यत्र कुत्रापि जने स्वल्पेनापि कारणेन
समधिकमादरं प्रदर्शयन्तीति तेषां पद्धतिः । ततश्च मयाद्य यत्कृतं तत्तूच्छमेव
तदर्थं त्वया नाहमुच्चैः प्रशंसनीय इति भावः । न चेदिदमिति-यदि इदं मदुप-
भी निद्रा नहीं आती थी। यह मुझे डराया और धमकाया करता था। अतः आप ऐसे
मांगलिक पुरुषद्वारा यह कार्य अतीव सुन्दर हुआ। आपद्वारा यह नराधम नरककी
यातना भोगनेके लिये सूर्यपुत्र (यम) की नगरीमें भेज दिया गया। हे दयानिधे !
आप ऐसे अमित शक्तिवाले पुरुषकी आज्ञा पालनेके लिये यह जन (किंकर) इच्छा
करता है। आज्ञा दें, कालक्षेपसे क्या लाभ।' उपर्युक्त वार्त्ता विज्ञापितकर उसने मुझे
प्रणाम किया।
(४) मैंने उससे कहा-'हे सखे ! यही सज्जनों द्वारा आचरित मार्ग है कि
अणुमात्र उपकारको भी सज्जनवृन्द महान् उपकार मानते हैं। तुम भी क्या ऐसा
नहीं चाहते, नहीं अवश्य चाहते हो । अस्तु इस राजपुत्रीको जो यौवनभारसे नम्र
देहलतावाली है, जो दुःखोंको सहन करनेमें असमर्था है, जो दुष्टकर्मी हवनकर्त्ताद्वारा