दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
३४२ दशकुमारचरितम् । [ उत्तरपीठिकायां
३४२ दशकुमारचरितम् । [ उत्तरपीठिकायां
राणि नरशिरः कपालानि, पर्यहिण्डन्त शुष्काः काकमण्डल्यः, शूनी-
भूतानि नगरग्रामखर्वटपुटभेदनादीनि ।
( २२ ) त एते गृहपतयः सर्वधान्यनिचयमुपयुज्या जाविकं गवलगणं
गवां यूथं दासीदासजनमपत्यानि ज्येष्ठमध्यमभार्ये च क्रमेण भक्षयित्वा
'कनिष्ठभार्या धूमिनी श्वो भक्षणीया' इति समकल्पयन् । अथ कनिष्ठो
धन्यकः प्रियां स्वामत्तुमक्षमस्तया सह तस्यामेव निश्यपासरत् । मार्ग-
राणि=बलाकावद् बकपङ्क्तिवत्पाण्डुराणि-शुभ्राणि । नरशिरःकपालानि=मृतमनुष्य-
मस्तकास्थीनि । पर्यहिण्डन्त=इतस्ततो धावन्तिस्म । शुष्काः निराहारत्वात्
क्षीणाः । काकमण्डल्यः वायससमूहाः । नगरं बहुजनावासः, ग्रामः स्वल्पजनस्था-
नम्, खर्वटं क्षुद्रग्रामः, पुटभेदनं पल्ली ।
( २२ ) ते एते पूर्ववर्णिताः । गृहपतयः गृहिणो धनकादयः । सर्वधान्यनिचयं
निखिलधान्यराशिम् । उपयुज्य भक्षयित्वा । अजाविकम्-अजाश्च अवयश्च तेषां
समूहोऽजाविकम् । गृहपालितानजान् छागान् अवीन् मेषांश्चेत्यर्थः । गवलगणं
महिषान् । गवां धेनूनां यूथं समूहम् । अपत्यानि पुत्रकन्यादीन् । ज्येष्ठेति-ज्येष्ठस्य
धनकस्य मध्यमस्य च धान्यकस्य भार्ये पत्नीद्वयम् । कनिष्ठभार्या कनिष्ठस्य धन्य-
कस्य पत्नी । श्वः आगामिदिने । समकल्पयन् निर्द्धारितवन्तः । अथ तच्छ्रवणा-
नन्तरम् । प्रियां पत्नीं स्वां स्वकीयाम् अत्तुं भक्षयितुम् । अक्षमः अनुरागादसमर्थः।
तया स्वपत्न्या धूमिन्या । निशि रात्रौ । अपासरत् पलायिष्ट । मार्गक्लान्ताम् अध्व-
श्रान्ताम् । पत्नीमिति शेषः । उद्वहन् स्कन्धे कृत्वा । जगाहे प्रविवेश । स्वमांसेति-
स्वस्य निजस्य मांसासुग्भ्यां मांसरुधिराभ्यामपनीते दूरीकृते क्षुत्पिपासे क्षुधातृष्णे-
यस्यास्ताम् । तां धूमिनीम् । नयन् वहन् । अन्तरे मार्गमध्ये । कमपि-अपरिचि-
इधर-उधर घूमने लगा। नगर, ग्राम, छोटे ग्राम और कसबे सभी वीरान (शून्य)
दीखने लगे ।
( २२ ) उन तीनों गृहपतियोंने (धनक आदिने) अपने घरोंमें धरी हुई अन्न
राशिको खा डाला । तदनन्तर भेड़, बकरी, बकरोंको खा डाला । पुनः भैंस, भैंसोंको
फिर गौ, बच्छोंको पश्चात् दास, दासियोंको, उसके बाद बच्चे-बच्चियोंको और आखिरीमें
बड़े भाईकी स्त्री तथा मझले भाईकी स्त्रीको खा डाला । 'अब छोटे भाईकी औरतको
कल खायेंगे' ऐसा निर्धारण किया । परन्तु, छोटे भाई धन्यकने अपनी स्त्रीका भक्षण
करना नापसन्द किया और वह धन्यक उसी रातमें स्त्रीके साथ वहांसे भाग निकला ।
मार्गमें चलनेके परिश्रमसे थकी हुई अपनी प्रियाको वह यदा-कदा कंधे आदिपर
षष्ठोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३४३
क्लान्तां चोद्वहन् वनं जगाहे । स्वमांसासृगपनीतक्षुत्पिपासां तां नयन्नन्तरे
कमपि निकृत्तपाणिपादकर्णनासिकमवनिपृष्ठे विचेष्टमानं पुरुषमद्राक्षीत् ।
(२३) तमप्यार्द्रशयः स्कन्धेनोद्वहन्कन्दमूलमृगबहुले गहनोद्देशे
यत्नरचितपर्णशालश्चिरमवसत् । अमुं च रोपितव्रणमिङ्गुदीतैलादिभिरा-
मिषेण शाकेनात्मनिर्विशेषं पुपोष । पुष्टं च तमुद्रिक्तधातुमेकदा मृगान्वे-
षणाय च प्रयाते धन्यके सा धूमिनी रिरंसयोपातिष्ठत । भर्त्सितापि तेन
तम् । निकृत्तेति-निकृत्तं छिन्नं पाणिपादकर्णनासिकं यस्य तम् । प्राण्यङ्गत्वात् समा-
हारः । अवनिपृष्ठे भूतले । विचेष्टमानं लुठन्तम् ।
(२३) तं पुरुषम् आर्द्रशयः दयायत्तचित्तः । कन्देति-कन्दानि मूलानि मृगा-
श्च तैर्बहुले प्रचुरे पूर्णे इत्यर्थः । गहनोद्देशे काननप्रदेशे । यत्नेति-यत्नेन प्रयासेन
रचिता निर्मिता पर्णशाला पर्णकुटी येन सः । चिरं दीर्घकालम् । अवसत् धन्यक
इति शेषः । अमुं पुरुषम् । इङ्गुदीति-इङ्गुदी फलविशेषस्तस्य तैलं तदादिद्रव्येण
रोपितव्रणं शुष्कक्षतम् । आमिषेण मांसेन । आत्मनिर्विशेषम् आत्मतुल्यम् । पुपोष
वर्धयामास । उद्रिक्तधातुं पुष्टशरीरम् । रिरंसया रन्तुमिच्छया । उपातिष्ठत-तस्य
पुरुषस्य समीपं गतवती । भर्त्सिता-सक्रोधं निवारिता । तेन पुरुषेण । बलात्कारं-
बलपूर्वकम् । अरीरमत्-सुरतक्रीडामकरोत् । निवृत्तं वनात्प्रत्यागतम् । उदका-
ढोकर किसी तरह एक गहन वनमें प्रविष्ट हुआ । रास्तेमें जब उसकी प्रियाको भूख-प्यास
लगती थी, तो, वह धन्यक उसे अपने मांस-रक्तद्वारा यथाक्रम उसकी क्षुधा-तृषाकी शान्ति
करता था । इसी प्रकार जब वह अपनी स्त्रीको लादे हुए चला जाता था, तब मार्गमें उसे
एक अपरिचित लूला (पंगु) आदमी दिखाई दिया जो भूमिपर इधर-उधर लुढ़क
रहा था ।
(२३) उस दयालु धन्यकने उस पंगुको भी कंधेपर लाद लिया और यत्नसे निर्मित
फल-फूल और प्रचुर कन्दमूलवाले अरण्यकी कुटियामें उसे ले आया । वहांपर उसकी,
इंगुदीके तैल आदि लगाकर, उसने पूरी तरहसे, सेवा-शुश्रूषा की जिससे उसके शरीरपरके
सभी घाव (व्रण) सूख गये । साथ ही मांस और शाकादि वन्य खाद्य पदार्थों द्वारा उसका
पालन-पोषण भी किया । एक दिन जब उस धूमिनीका पति हिरणोंकी गवेषणामें वनमें
गया हुआ था, तब वह धूमिनी उस पुष्ट शरीर तथा स्तम्भित वीर्यवाले पंगुके समीप आयी
और मैथुन (रति) करनेके लिये उससे कहने लगी । उस पंगुद्वारा तिरस्कृता होनेपर भी
उस धूमिनीने उससे जबर्दस्ती रति क्रीड़ा की । जब उसका पति धन्यक वनसे लौटकर
आया तब उसने (धन्यकने) उससे पीनेके लिए जल मांगा । इसपर उस कुलटाने
Nepal Sanskrit University, Balmeeki Campus, Kathmandu