सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

१६० दशकुमारचरितम् । [ उत्तरपीठिकायां

१६० दशकुमारचरितम् । [ उत्तरपीठिकायां
मानतिमिरभारं यष्टिकृपाणपाणि नागरिकबलमनल्पम् । दृष्ट्वैव प्रवेप-
मानां कन्यकामवदम्—'भद्रे, मा भैषीः । अस्त्ययमसिद्वितीयो मे बाहुः ।
अपि तु मृदुरयमुपायस्त्वदपेक्षया चिन्तितः । शयेऽहं भावितविषवेगवि-
क्रियः । त्वयाप्यमी वाच्याः 'निशि वयमिमां पुरीं प्रविष्टाः । दष्टश्च ममैष
नायको दर्वीकरेणामुष्मिन्सभागृहकोणे । यदि वः कश्चिन्मन्त्रवित्कृपालुः
स एनमुज्जीवयन्मम प्राणानाहरेदनाथायाः' इति ।
( ३१ ) सापि बाला गत्यन्तराभावाद्गद्गदस्वरा बाष्पदुर्दिनाक्षी
बद्धवेपथुः कथंकथमपि गत्वा मदुक्तमन्वतिष्ठत् । अशयिषि चाहं भावि-
गच्छत् । नागरिकबलमित्यनेन सम्बध्यते । दीपिकौतं दीपिकायाः हस्तदीपस्य
'मशालू इति भाषाप्रसिद्धस्यालोकेन प्रकाशेन परिलुप्यमानो नाश्यमानस्तिमिर-
भारोऽन्धकारसमूहो यत्रेति क्रियाविशेषणम् । यष्टिर्दण्डः कृपाणः खङ्गस्तौ पाणौ
यस्य तत् । नागरिकबलस्य विशेषणमेतत् । बलं सैन्यम् । अनल्पं बहु । प्रवेप-
मानां भयेन कम्पमानाम् । असिद्वितीयः खङ्गसहायः । असिद्वितीयो यस्येति
विग्रहः । अपि तु-किन्तु । मृदुः-कोमलः । त्वदपेक्षया भवत्या अनुरोधेन ।
चिन्तितः स्थिरीकृतः । शये-सुप्तो भवामि । भावितेति-भाविता प्रकटिता विषस्य
वेगेन विक्रिया विकारो येन सः । विषमूच्छितमिवात्मानं दर्शयामीति भावः ।
अमी उपस्थिताः जनाः । वाच्याः कथनीयाः । नायको वल्लभः । दर्वीकरेण सर्पेण
वः युष्माकं मध्ये । मन्त्रवित् मन्त्रौषधिज्ञः । आहरेद् उद्धरेत् ।
( ३१ ) गत्यन्तराभावात् उपायान्तरासत्त्वात् । बाष्पदुर्दिनाक्षी-अश्रुपूर्ण-
नयना । बद्धवेपथुः सञ्जातकम्पा अन्वतिष्ठत्-यथा मयोक्तं तथैव कृतवती ।
इतनेमें दीपकके प्रकाशसे अन्धकार राशिको दूर करता हुआ हाथमें लाठी और तलवार
लिये नागरिकोंका एक बड़ा झुण्ड आ पहुँचा । उसे देखते ही मारे भयके कांपनेवाली
उस कन्यासे मैंने कहा—'मत डरो । मेरे भी भुजायें हैं और भुजाओंमें तलवार है।
तथा तुम्हारे अनुरोधसे मैंने एक उपाय सोच लिया है। मैं बनावटी विषवेगसे व्याकुल हो
करके यहां लेट जाता हूँ । ये आयें तो कहना कि, 'हम परदेशी हैं और इसी रात इस
नगरीमें आये हैं । इस सभागृहके कोनेमें मेरे पतिको सांपने काट लिया है। आप लोगोंमेंसे
कोई दयालु यदि मंत्र जानता हो तो, इसे जीवित करके मुझ अनाथिनीके प्राणोंको बचा ले ।
( ३१ ) और कोई उपाय न देखकर उस तरुणीने भयसे गद्गदस्वरमें आंसू बहाती
हुई, काँपती-काँपती मेरे कथनका अनुसरण किया । अब मैं बनावटी विषके विकारसे

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १६१
तविषविक्रियः । तेषु कश्चिन्नरेन्द्रामिमानी मां निर्वर्ण्य मुद्रातन्त्रमन्त्रध्या-
नादिभिश्चोपक्रम्याकृतार्थः, 'गत एवायं कालदष्टः । तथा हि स्तब्धश्या-
वमङ्गम् , रुद्धा दृष्टिः, शान्त एवोष्मा । शुचालं वासु, श्वोऽग्निसात्करि-
ष्यामः । कोऽतिवर्तते दैवम्' इति सहेतरैः प्रायात् ।
( ३२ ) उत्थितश्चाहमुदारकाय तां नीत्वाऽब्रवम्—'अहमस्मि कोऽपि
तस्करः । त्वद्गतेनैव चेतसा सहायभूतेन त्वामिमामभिसरन्तीमन्तरोप-
अशयिषि शयितोऽभवम् । तेषु नागरिकेषु । नरेन्द्राभिमानी=विषवैद्यम्मन्यः ।
नरेन्द्रो वार्त्तिके राज्ञि विषवैद्येऽपीति कोषः । मां शयितमपहारवर्माणम् । निर्व-
र्ण्य=सावधानं निरीक्ष्य । मुद्रेति=मुद्रातन्त्रादिप्रयोगैः । उपक्रम्य चिकित्सामा-
रभ्य । अकृतार्थः अकृतकार्यः । विषापनयनं कर्तुमपारयन्नित्यर्थः । गतः मृतः ।
कालदष्टः कालेन मृत्युना दष्टो भक्षितः । मरणचिह्नानि दर्शयति तथाहीति-
स्तब्धं निश्चलं श्यावं धूम्रवर्णमङ्गं शरीरम् । दृष्टिर्दर्शनशक्तिः रुद्धा नष्टा । उष्मा
शरीरतापः । शान्तोऽपगतः । शुचा शोकेनालं प्रयोजनन्नास्ति । श्वः आगामि-
दिने । अग्निसात्करिष्यामः धक्ष्यामः । अतिवर्त्तते-अतिक्रामति । इति इत्युक्तवा ।
इतरैरन्यैः । प्रायादगच्छत् ।
( ३२ ) उदारकाय तां नीत्वा=तां कन्यामुदारकसमीपं प्रापय्य । त्वद्गतेन
त्वत्पक्षपातिना। चेतसा=हृदयेन । सहायभूतेन सहायकेन । स्वहृदयमेव
सहायीकृत्येत्यर्थः । त्वां भवत्समीपम् अभिसन्तीम् आगच्छन्तीम् इमां भव-
त्पत्नीम् । अन्तरा मार्गमध्ये । उपलभ्य प्राप्य । कृपया दयया । अनैषम्-आनी-
तवानस्मि । इति इदमुक्तवा । अंशुपटलेति अंशुपटलेन किरणसमूहेन पाटितं ना-
व्याकुल होकर लोट गया। तदनन्तर उनमेंसे अपनेको वैद्य माननेवाले एक पुरुषने मुझे
भली भाँति देखा। मुद्रा, तन्त्र, मन्त्र तथा ध्यान आदिके द्वारा अनेक उपाय करके भी
असमर्थ रहा, तब उसने कहा—'इसे सर्पने नहीं, बल्कि कालने काटा है, इसलिए अब
यह चल बसा। इसके सब अङ्ग शिथिल और श्याम हो गये हैं। आँखें पथरा गयी हैं
और शरीर ठण्डा पड़ गया है। देवि ! शोक करना व्यर्थ है। सवेरे हम लोग आकर इसे
जला देंगे। विधिके विधानको भला कौन मेट सकता है ?' यों कहकर वह अपने साथियोंके
साथ चला गया। तब मैं भी उठा और उस कन्याको उदारकके पास ले जाकर कहा—
'आर्य ! मैं एक चोर हूँ । तुम्हारेमें इस कन्याका मन लगा हुआ था, उसी मनका सहायक

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
१६२ दशकुमारचरितम् । [ उत्तरपीठिकायां
लब्ध्य कृपया त्वत्समीपमनैषम् । भूषणमिदमस्याः' इत्यंशुपटलपाटितध्वा-
न्तजालं तदप्यर्पितवान् । उदारकस्तु तदादाय सलज्जं च सहर्षं च ससं-
भ्रमं च मामभाषत—'आर्य, त्वयैवेयमस्यां निशि प्रिया मे दत्ता । वा-
क्पुनर्ममापहृता । तथा हि न जाने वक्तुं त्वत्कर्मैतदद्भुतमिति । ननु ते
शीलमद्भुतवत्प्रतिभाति । नैवमन्येनापि कृतपूर्वमिति प्रतिनियतैव
वस्तुशक्तिः । न हि त्वय्यन्यदीया लोभादयः । त्वयाद्य साधुतोन्मीलितेति
शितं ध्वान्तजालमन्धकारसमूहो येन तत् । तदपि-भूषणमपि । तदादाय-भूषणं
गृहीत्वा । सलज्जं सव्रीडम् । सहर्षं सानन्दम् । ससम्भ्रमं साश्चर्यम् । सलज्ज-
मित्यत्र स्वरहस्यज्ञानं लज्जायाः, सहर्षमित्यत्र अद्भुतोपायेन प्रियाप्राप्तिर्हर्षस्य
ससम्भ्रममित्यत्र च तस्करस्यालौकिककर्मदर्शनं सम्भ्रमस्य कारणम् । एतानि च
अभाषतेति क्रियाविशेषणानि । मे मह्यम् । अपहृता गृहीता । अत्र प्रियाविनिमयेन
वागपहरणात् परिवृत्तिरलंकारः । परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोर्मिथ इति लक्ष-
णात् । मम वचनसामर्थ्यं नास्ति इति यदुक्तं तदेव विशदयति-तथाहीत्यादिना ।
एतत्त्वत् कर्म-प्रियादानरूपमद्भुतमाश्चर्यजनकमिति वक्तुं न जाने वचनसामर्थ्यं
मम नास्ति । तादृशशक्तेरभावात् । न जाने इत्यनेनानन्तरोक्तानां सर्वेषामित्यन्त-
वाक्यानामन्वयः । ते तव स्वशीलं स्वभावः चोरस्यापि भूषादिसमर्पणरूपः
अद्भुतमिव प्रतिभाति । एवमीदृशं कर्म अन्येनापि भवद्व्यतिरिक्तेनापि न कृत-
पूर्वं पूर्वं नाचरितमित्यपि वक्तुं न जाने यतो वस्तुशक्तिः पदार्थस्वभावः
प्रतिनियता तत्तद्व्यक्तिनिष्ठैव । एकस्य शक्तिरेकत्रैव तिष्ठति नान्यत्रात एता-
दृशं कर्म पूर्वमन्येन न कृतमिति वचनस्यावसरोऽपि नास्तीति भावः ।
अन्यदीया अन्यपुरुषसाधारणाः लोभादयस्त्वयि न सन्ति नोपलभ्यन्ते । अद्य
साम्प्रतं साधुता सज्जनता उन्मीलिता प्रकटीकृतेति यत्तत् प्रायो बाहुल्येन त्वत्पू-
बनकर, मार्गमें मिली हुई, इस कन्याको तुम्हारे समीप ले आया हूँ। ये इसके गहने हैं।'
ऐसा कहकर अपनी दीप्तिसे अन्धकार राशिको नष्ट करते हुए उन आभूषणोंको उसे दे
दिया । उसे लेकर उदारकने लज्जा, हर्ष और घबड़ाहटभरी वाणीमें कहा—'आर्य !
तुम्हींने इस रातके समय मेरी प्रियाको मेरे पास पहुँचाया है। तुमने अपने कार्यसे मेरी
जबान ही बन्द कर दी है। कुछ सूझता ही नहीं कि, क्या कहकर मैं तुम्हारे इस अद्भुत
कार्यकी सराहना करूँ । निःसन्देह तुम्हारा स्वभाव विचित्र है । यह तो निश्चित ही है
कि, किसी चोरने कभी ऐसा नहीं किया है। और लोगोंके समान तुम्हारेमें लोभ आदि
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १६३
तत्प्रायस्त्वत्पूर्वावदानेभ्यो न रोचते । दृष्टमिदानीमौदार्यस्य स्वरूपमिति
त्वदाशयमननुमान्य न युक्तो निश्चयः । त्वयामुना सुकृतेन क्रीतोऽयं दा-
सजन इत्यसारमतिगरीयसा क्रीणासीति स ते प्रज्ञाधिक्षेपः । प्रियादानस्य
प्रतिदानमिदं शरीरमिति तदलाभे निधनोन्मुखमिदमपि त्वयैव दत्तम् ।
अथवैतावदत्र प्राप्तंरूपम् । अद्यप्रभृति भर्त्तव्योऽयं दासजनः' इति मम
पाद्योरपतत् ।
(३३) उत्थाप्य चैनमुरसोपश्लिष्याभाषिषि - 'भद्र, काद्य ते प्रति
र्वावदानेभ्यः पूर्वकृतमहाकर्मभ्यो न रोचते स्वदत्ते । पूर्वमपि भवता ईदृशानि
कर्माणि न कृतानीत्यपि वक्तुं नाभिलषामीति अवदानं कर्मवृत्तमिति
कोषः । औदार्यस्य उदारतायाः स्वरूपमिदानीं दृष्टमित्यपि वक्तुं न जाने यत-
स्तवदाशयं भवदभिप्रायम् अननुमान्य सम्यगविदित्वा निश्चयो निर्णयो न युक्त
उचितः । सुकृतेन सुकर्मणा । दासजनः सेवकः । क्रीतः स्वाधीनीकृतः इत्यपि
वक्तुं न जाने यतोऽति गरीयसा अतिमहता वस्तुनेति शेषः असारं निकृष्टं वस्त्वि-
तिशेषः क्रीणासीति यत्तदपि ते प्रज्ञाधिक्षेपः बुद्धेर्निन्दा । न कोऽपि सचेता उत्कृ-
ष्टेन वस्तुना निकृष्टं क्रीणातीति भावः । प्रतिदानं प्रतिरूपदानम् इदं मम शरीर-
मित्यपि वक्तु न पारयामि यतः तदलाभे प्रियाया अप्राप्तौ निधनोन्मुखं मरणाद्यो-
द्यतमिदं शरीरं भवतैव मह्यं दत्तमत्तः कथमेतत्प्रतिदानं भवितुमर्हति । मच्छरीरं
भवदीयमेवेति भावः, एतावत्-इति कथनमेवात्र प्राप्तंरूपं युक्तियुक्तम् । भर्त्तव्यः
पालनीयः । इति-इति कथयित्वा ।
(३३) उत्थाप्य पादपतनादिति शेषः । एनं धनमित्रम् । उरसा वक्षसा ।
दुर्गुण नहीं हैं। तुमने आज जिस सज्जनताका परिचय दिया है, उससे तुम्हारे पूर्वकृत्य
(चोरी आदि) का मेल नहीं खाता । इस समय तो, मैंने तुममें उदारताका प्रत्यक्ष
स्वरूप देख लिया है। तुम्हारा अभिप्राय समझे बिना कोई निश्चय कर लेना उचित न
होगा। 'तुमने अपने सुकृतसे इस दासको मोल ले लिया है' यदि यह कहूँ तो तुम्हारी
बुद्धिकी निन्दा होगी। तुमने मुझे जो मेरी प्रियतमा दी है, उसके बदलेमें मेरा यह शरीर
अर्पित है। यदि यह न मिली होती तो, यह शरीर भी न रह जाता। अत एव शरीर भी
तुम्हींने दिया है। अस्तु, यह बहुत ही अच्छा हुआ । आजसे आप अपने इस दास पर
दया रखियेगा।' यों कहकर वह मेरे पैरोंपर गिर पड़ा।
(३३) तब मैंने उसे उठाकर छातीसे लगा लिया और कहा - 'भद्र ! भव तुम
Nepal Sanskrit University, Balmeeki Campus, Kathmandu