सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

३६६ दशकुमारचरितम् । [ उत्तरपीठिकायां

३६६ दशकुमारचरितम् । [ उत्तरपीठिकायां
ष्ठानधनदाज्ञाकरनिराक्रियातिसक्तचेतसः क्षत्रियस्याकर्षणायशक्तु । स
चाहरहरागत्यादरेणातिगरीयासार्चयन्नथैश्च शिष्यान्संगृह्नन्नधिगतक्षणः
कदाचित्काङ्क्षितार्थसाधनाय शनैरयाचिष्ट । ध्यानधीरः स्थानदर्शितज्ञान-
संनिधिश्चैनं निरीक्ष्य निचाय्याकथयम्—'तात, स्थान एष हि यत्नः।
तस्य हि कन्यारत्नस्य सकलकल्याणलक्षणैकराशेरधिगतिः क्षीरसागररश-
नालङ्कृताया गङ्गादिनदीसहस्रहारयष्टिराजिताया घराङ्गनाया एवासाद-
मुखनिर्गता तस्य क्षत्रियस्य जयसिंहस्य । कथम्भूतस्येत्याह-कनकेति-कनकलेखा
अधिष्ठानमाश्रयो यस्य तादृशस्य धनदाज्ञाकरस्य कुबेरकिङ्करस्य यक्षस्य निरा-
क्रियायां निराकरणे अतिसक्तं लग्नं चेतो यस्य तस्य । आकर्षणाय वशीकरणाय ।
अशक्तु समर्थोऽभवत् । स जयसिंहः । अहरहः प्रतिदिनम् । अतिगरीयसा-
अत्यधिकेन । अर्थैः धनैः । संगृह्णन् आयत्तीकुर्वन् । अधिगतक्षणः प्राप्तावसरः
काङ्क्षितार्थसाधनाय-अभीष्टसिद्ध्यर्थम् । शनैः मन्दं मन्दम् । अयाचिष्ट प्रार्थया-
मास । ध्यानधीरः समाधिस्थिरः । स्थानेति-स्थाने योग्यपात्रे दर्शितः प्रकटितः
ज्ञानस्य प्रज्ञायाः सन्निधिः सान्निध्यं येन सः । एनं जयसिंहम् । निचाय्य विचार्य ।
तात वत्स । स्थाने-युक्तः । यत्नः उद्यमः त्वया क्रियमाण इति शेषः । कन्यारत्न-
स्य कन्यासु रत्नं श्रेष्ठं 'तस्य' । सकलेति-सकलानां सर्वेषां कल्याणलक्षणानां शुभ-
चिह्नानां एकराशेरेकाश्रयस्य सर्वप्रकारमङ्गललक्षणाधारस्येत्यर्थः । कन्यारत्नस्य
विशेषणमेतत् । अधिगतिः प्राप्तिर्लाभ इति यावत् । क्षीरेति-क्षीरसागरो दुग्धा-
ब्धिरेव रशना मेखला तया अलंकृतायाः भूषितायाः । तथा गङ्गादीनां नदीनां
सहस्रमेव हारयष्टिर्हारलता तया राजितायाः शोभितायाः धरा वसुमत्येवाङ्गना
कामिनी तस्याः । आसादनाय प्राप्तये । साधनमुपायः । येनैतादृशं कन्यारत्नं
लप्स्यते तेन ससागरा धरापि प्राप्स्यत इति भावः । न चेति-तदधिष्ठायी सा
क्षत्रिय राजा जयसिंह भी मेरी कथाके वशीभूत हुआ। जिसका चित्त, कनकलेखाके
ऊपर रहनेवाले कुबेरके सेवक उस यक्षको दूर भगानेमें, आसक्त हो रहा था। उस राजा
जयसिंहने नित्य आकर अति आदरसे प्रचुर द्रव्यसे मेरी पूजा करके तथा भक्तोंको
द्रव्यादिसे अपने अनुरूप कर लिया। एक दिन अवसर पाकर उस राजाने अपना
अभीष्ट साधनाके हेतु मुझसे धीरेसे निवेदन किया समाधिस्थिर होकर मैंने, योग्यपात्रमें
प्रज्ञाके सान्निध्यको लगाते हुए, उस राजा को देखकर कहा-'हे तात ! आपके द्वारा
किया हुआ यह उद्योग युक्त ही है। उस कन्यारत्नकी प्राप्ति करना जो सम्पूर्ण मांगलिक
चिह्नोंकी निधिके समान है, वैसा ही शुभप्रद है जैसे दुग्धसमुद्ररूपी करधनीको पहने

सप्तमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३६७

नाय साधनम् । न च स यक्षस्तदधिष्ठायी केनचिन्नरेन्द्रेण तस्या लीला-
स्मितनीलनीरजदर्शनाया दर्शनं सहते, तदत्र सह्यतां त्रीण्यहानि, यैरहं
यतिष्येऽर्थस्यास्य साधनाय' इति ।
( १४ ) तथादिष्टे च हृष्टे क्षितीशे गते निशि निशि निर्निशाकरार्चिषि
नीरन्ध्रान्धकारकणनिकरनिगीर्णदशदिशि निद्रानिगडितनिखिलजनदृशि
निर्गत्य जलतलनिलीनगाहनीयं नीरन्ध्रं कृच्छ्राच्छिन्द्रीकृतान्तरालं तदे-

कन्यामधितिष्ठतीति तथा । तत्राविष्ट इत्यर्थः स यक्षः नरेन्द्रेण मन्त्रतन्त्रज्ञेन लीलया
विलासेन कटाक्षादिना अञ्चितं शोभितं नीलनीरजवत् नीलकमलवत् दर्शनं नयनं
यस्यास्तादृश्यास्तस्याः कन्याया दर्शनमवलोकनं न सहते नाभिलषति । तत्त-
स्मात् । अत्र विषये । सह्यतां अपेक्ष्यताम् । अहानि दिनानि । यैर्दिनेः । यतिष्ये
चेष्टिष्ये । अर्थस्य प्रयोजनस्य । साधनाय सम्पादनाय ।
( १४ ) तथा तेन रूपेण । आदिष्टे उपदिष्टे । हृष्टे सन्तुष्टे । निशि निशि प्रति-
रात्रम् । किम्भूतायां निशीत्याह-निर्निशाकरार्चिषि-निर्नास्ति निशाकरस्य चन्द्रस्य
अर्चिः तेजो यस्यां तथाभूतायां तथा नीरन्ध्राणां सान्द्राणां अन्धकाराणां तमसां कण-
निकरैः कणसमूहैर्निगीर्णाः अवच्छादिता दश दिशो यस्यां तादृश्यां पुनश्च निद्रया
निगदिताः बद्धाः निखिलजनानां दृशो नयनानि यस्यां तथाभूतायाम् । निर्गत्य
स्वस्थानाद्बहिर्भूय । जलतलेत्यादि-तस्य सरसः एकतः एकस्यां दिशि जलतले
सलिलाधःप्रदेशे निलीनेन निविष्टेन जनेन गाहनीयं प्रवेश्यम् तथा नीरन्ध्रं नि-
श्छिद्रं तथा कृच्छ्रात् अतिकष्टेन छिन्द्रीकृतं शून्यीकृतमन्तरालं मध्यभागो यस्य

हुए तथा गङ्गा आदि सहस्रों नदियोंकी माला धारण किये हुए पृथिवीको प्राप्त करना है ।
( जो यह कन्या प्राप्त करेगा वह आसमुद्रान्त राज्य करेगा ) परन्तु उस कन्यापर
अधिवासकर्त्ता वह यक्ष उस कन्याके विलाससे शोभित नीलकमलके समान नेत्रोंको
किसी मन्त्रज्ञको दर्शन कराना सहन नहीं करता है । अतः आप तीन दिनकी और
इसके लिये प्रतीक्षा करें । इन दिनोंमें मैं आपके कार्यसाधनके लिये प्रयत्न करूँगा ।
( १४ ) ऐसी राय देनेपर जब राजा जयसिंह प्रसन्न होकर चला गया, तब मैंने
चन्द्रकी प्रभाहीन रात्रियोंमें, जब गहन अन्धकारके कणोंसे दशों दिशाएं व्याप्त हो
जाती थीं, निद्रासे सभी जनोंकी आंखें मुँद जाती थी, कुटीसे निकलकर उस तालाबके
एक ओर जलके अधः प्रवेशमें जनके निलीन योग्य, प्रवेश योग्य, छेद रहित, बड़े कष्टसे
एक छेदको कुदारसे खोदकर सुरंगनामा तैयार किया । जिसके मध्यभागमें एक सुराख
था जो सीढ़ियोंसे दूर था । उस सुरंगके प्रवेशद्वारवाले छेदको बड़ी-बड़ी शिलाओं और

Nepal Sanskrit University, Balmeeki Campus, Kathmandu