दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
१२६ दशकुमारचरितम् । [ उत्तरपीठिकायां
१२६ दशकुमारचरितम् । [ उत्तरपीठिकायां
नाज्ञाकरः । सोऽप्यहमेव ह्यमुना रूपेण धनमित्राख्यया चान्तरितो मन्त-
व्यः । स एवायं निर्गमय्य बन्धनादङ्गराजमपवर्जितं च कोशवाहनमेकी-
कृत्यास्मद्गृहेणामुना सह राजन्यकेनैकान्ते सुखोपविष्टमिह देवमुपति-
ष्ठतु यदि न दोषः' इति ।
( २५ ) देवोऽपि 'यथा ते रोचते' तमाभाष्य गत्वा च तन्निर्दिष्टेन
मार्गेण नगराद्वहिरतिमहतो रोहिणद्रुमस्य कस्यचित्क्षौमावदातसैकते
गङ्गातरङ्गपवनपातशीतले तले द्विरदादवततार । प्रथमसमवतीर्णेनापहार-
अहमेव किन्तु अमुना दृश्यमानेन रूपेणाकारेण धनमित्राख्यया। धनमित्रेति नाम्ना
च अन्तरितः पृथक्कृतः । मन्तव्यो ज्ञातव्यः । ममैवात्मा धनमित्रनाम्ना तदाकारेण
च आच्छादितो वर्त्तते-अभिन्नहृदयावावामिति भावः। स एवार्थं-धनमित्रः ।
निर्गमय्य मोचयित्वा । बन्धनात् कारागृहात् । अङ्गराजमिति शेषः । अपवर्जितं
इतस्ततो विक्षिप्तम् । एकीकृत्य सङ्गृह्य । अस्मद्गृहेण अस्मत्पक्षीयेण । एकान्ते
निर्जने। देवं भवन्तम् । उपतिष्ठतु समीपे तिष्ठतु ।
( २५ ) देवोऽपि राजवाहनोऽपि । ते तुभ्यं, रुच्यर्थानामिति चतुर्थी । तम-
पहारवर्माणम् । रोहिणद्रुमस्य वटवृक्षस्य । तले इत्यनेनान्वयः । क्षौमेति-क्षौमवत्
पट्टवस्त्रवत् अवदातं निर्मलं यत् सैकतं सिकतामयप्रदेशस्तस्मिन् गङ्गेति-गङ्गाया-
स्तरङ्गपवनस्य तरङ्गयुक्तवायोः पातेन पतनेन शीतले । तले इत्यस्य विशेषणम् ।
द्विरदाद् गजात् । प्रथमसमवतीर्णेन प्रागेव गजादवरूढेन । स्वहस्तेन निजकरेण
दासपर कृपादृष्टि करके अनुग्रह कीजिये। मैं ही अभीतक धनमित्र नामसे इस रूपमें
प्रख्यात होकर गुप्त वेशमें फिरता था। इस धनमित्रने ही अंगराजको बन्धनमुक्त करके
प्रणष्ट कोश तथा वाहनको एकत्र किया है। अब जब हमारे पक्षवाले राजा उनके साथ
एकान्तमें सुखसे बैठे हैं, यदि आप कुछ हानि न समझें तो कुछ क्षणके लिए उनसे चलकर
भेंट कर लें।'
( २५ ) राजवाहन ने कहा-'तुम्हारी जैसी अभिलाषा हो वैसा करो' और उस हाथीपर
चढ़कर वे दोनों वहींसे चल पड़े। अपहारवर्माके प्रदर्शित मार्गसे चलकर नगरके बाहर
थोड़ी ही दूरीपर एक विशाल तथा सघन वृक्षके नीचे वे लोग रुके। वहाँ पर रेशमके
समान स्वच्छ बालू फैली पड़ी थी जो गंगाकी तरंगोंके पवनसे सम्मिश्रित होकर आने-
वाले शीतल झोंकोंसे अति शीतल हो रही थी। वे लोग वहींपर हाथीपरसे उतरे।
अपहारवर्मा राजवाहनसे पहले ही उतरा तथा जल्दी-जल्दी प्रयास करके उसने उस
प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । १२७
वर्मणा च स्वहस्तसत्वरसमीकृते मातङ्गे भागीरथीपुलिनमण्डले सुखं
निषसाद ।
( २६ ) तथा निषण्णं च तमुपहारवर्मार्थपालप्रमतिमित्रगुप्तमन्त्रगुप्त-
विश्रुतैर्मैथिलेन च प्रहारवर्मणा, काशीभर्त्रा च कामपालेन, चम्पेश्वरेण
सिंहवर्मणा, सहोपागत्य धनमित्रः प्रणिपपात । देवोऽपि हर्षाविद्धमभ्यु-
त्थितः 'कथं समस्त एष मित्रगणः समागतः, को नामायमभ्युदयः' इति
कृतयथोचितोपचारान्निर्भरतरं परिरभे । काशीपतिमैथिलाङ्गराजांश्च सुहृ-
न्निवेदितान्पितृवदपश्यत् । तैश्च हर्षकम्पितपलितं सरभसोपगूढः परम-
भिननन्द ।
अपहारवर्मणेति शेषः, सत्वरं शीघ्रं समीकृते मार्जनादिना समानीकृते । मातङ्गे
इव गजे यथा सुखेन निषसाद तद्वत् । भागीरथीपुलिनमण्डले गङ्गातटे । निषसाद
उपविष्टो बभूव ।
( २६ ) तथा तेन प्रकारेण सुखेनेत्यर्थः । तं राजवाहनम् । मैथिलेन मिथि-
लाधिपेन । काशीभर्त्रा काशीश्वरेण । तृतीयान्तादिपदानि सहेत्यनेनान्वितानि ।
देवः राजवाहनः । हर्षाविद्धं सहर्षं, क्रियाविशेषणमेतत् । अभ्युदयः परमोन्नतिः,
कल्याणपरम्परेति यावत् । कृतेति—कृतो विहितः यथोचितो यथायोग्य उपचारः
सम्मानादिर्येषां तान् उपहारवर्मादीन् इत्यर्थः । निर्भरतरं गाढतरम् । परिरभे आलि-
लिङ्ग । सुहृदा धनमित्रेण निवेदितान् निर्दिष्टान् । पितृवत् पित्रा तुल्यान् । वृद्ध-
स्वात् तान् जनकवत् सम्मानयामास । तैः काशीपतिप्रमुखैः । हर्षेण कम्पितानि
पलितानि शुक्लकेशा यस्मिंस्तद् यथा तथा । सरभसं सवेगम् उपगूढ आलिङ्गितः ।
परम् अत्यर्थम् । अभिननन्द राजवाहन इति शेषः ।
रताले स्थानपर उसी बालू का एक चबूतरा जैसा समतल स्थान बना दिया, जिसके ऊपर
राजवाहन बड़े हर्षके साथ बैठ गये ।
( २६ ) कुछ देर पश्चात् उपहारवर्मा, अर्थपाल, प्रमति, मित्रगुप्त, मन्त्रगुप्त, मैथिल,
प्रहारवर्मा, काशीपति, कामपाल, चम्पापति और सिंहवर्मा आदिके साथ आकर धनमित्रने
राजवाहनको प्रणाम किया । राजवाहनने हर्षके साथ अपने स्थानसे उठकर उन सबका
सत्कार करके कहा—'एक साथ ही सब मित्र आ मिले । आज हम लोगोंका सर्वश्रेष्ठ
भाग्योदय हुआ है।' ऐसा कहकर उन्होंने यथाक्रम सबसे आलिंगन एवं अभिवादन करके
भेंट की । अपने मित्र धनमित्रसे काशीपति तथा मिथिलापति एवं अंगदेशाधिपतिका
परिचय प्राप्त करके राजवाहनने उनका पिताके सदृश समादर किया । तब उन बूढ़े