दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
१५४ दशकुमारचरितम् । [ उत्तरपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
१५४ दशकुमारचरितम् । [ उत्तरपीठिकायां
(२६) अनुप्रविश्य च द्यूतसभामक्षधूर्त्तःसमगंसि। तेषां च पञ्चविंशति-
प्रकारासु सर्वासु द्यूताश्रयासु कलासु कौशलमक्षभूमिहस्तादिषु चात्यन्त-
दुरुपलक्ष्याणि कूटकर्माणि तन्मूलानि सावलेपान्याधिक्षेपवचनानि जीवि-
तनिरपेक्षाणि संरम्भविवेष्टितानि सभिकप्रत्ययव्यवहारान्यायबलप्रताप-
प्रायानङ्गीकृतार्थसाधनक्षमान्बलिषु सान्त्वनानि दुर्बलेषु भर्त्सितानि पक्ष-
रचनानैपुणमुच्चावचानि प्रलोभनानि ग्लहप्रभेदवर्णनानि द्रव्यसंविभागौ
( २६ ) द्यूतसभाम्-अक्षक्रीडासमाजम् । अक्षधूर्त्तः-पाशक्रीडानिपुणैः ।
समगंसि-तैः सह सम्मिलितोऽभवम् । गम् धातोरात्मनेपदे लुङि उत्तमपुरुषैकवचने
रूपम् । 'समो गम्यृच्छिभ्याम्'त्यनेनात्मनेपदम् । तेषामक्षधूर्त्तानाम् । द्यूताश्रयासु-
द्यूतक्रीडासम्बन्धिनीषु । कलासु-शिक्षासु । अक्षेत्यादि-अक्षाः पाशकाः, भूमि
स्तत्पातनस्थानं, हस्तस्तत्पातनयोग्यः करस्तदादिषु । अक्षभ्रमिहस्तेति पाठे
अक्षाणां पाशकानां भ्रमिप्रघूर्णनेषु ये हस्तादयोऽपेक्ष्यन्ते तेषु । अत्यन्तेति अत्यन्तं
नितरां दुरुपलक्ष्याणि दुर्ज्ञेयानि दुःखेनपि ज्ञातुमशक्यानीत्यर्थः । कूटकर्माणि-
कपटव्यवहारान् । तन्मूलानि-कूटकर्ममूलानि । तन्निमित्तकानि वा । सावलेपानि-
सगर्वाणि । अधिक्षेपवचनानि-तिरस्कारसूचकानि वाक्यानि । जीवितेनिरपेक्षाणि
प्राणधारणेपि आसक्तिशून्यानि । संरम्भविवेष्टितानि-कोपकार्याणि । सभिके-
त्यादि-सभिकस्य द्यूतकारकस्य प्रत्ययो विश्वासस्तदुचितव्यवहारान् तद्योग्यानुष्ठा-
नानि । कीदृशा व्यवहारा इति तद्विशिनष्टि-न्यायेति । न्यायो युक्तिः, बलं सामर्थ्यं
प्रतापः प्रभावः प्रायो बहुलो येषु तान् । पुनः किम्भूतान्-अङ्गीकृतस्य कर्तुं
प्रतिज्ञातस्यार्थस्य प्रयोजनस्य साधने सिद्धौ क्षमान् योग्यान् । बलिषु-बलवत्सु ।
सान्त्वनानि-सामप्रयोगान् । भर्त्सितानि-भीतिजनकवाक्यानि । पक्षरचनायां
जयवत्तां पुरुषाणामात्मपक्षीयकरणे । नैपुणं-पाटवम् । उच्चावचानि-नानाविधानि ।
प्रलोभनानि-लोभोत्पादकानि । ग्लहेति-ग्लहस्य पणस्य ये प्रभेदा विशेषास्तेषां
(२६) बस, सर्वप्रथम मैं जुआड़ियोंकी मण्डलीमें घुसा और, कुशल जुआड़ियोंमें
घुल-मिल गया । उन लोगोंकी पच्चीसों प्रकारकी सभी द्यूतकलाकी कुशलता, गोटियोंको
रखनेकी जगह, अतिशय दुष्प्रेक्ष्य हाथकी सफाई, चालबाजियाँ और उनसे युक्त गर्व तथा
आक्षेपभरे वाक्य, जीवनकी भी परवा न करके साहसके काम कर गुजरना, जुआ
खेलानेवाले-(नालिया-) की जानकारी रहते हुए न्यायालयमें जा करके जीतने तथा
प्रभावयुक्त स्वार्थसाधनके उपायोंको जानना, बलवानोंके साथ सान्त्वना देते हुए, दुर्बलोंको
डाँट-फटकार बताना, ऊँची-नीची बातें करके अपना पक्ष प्रवल कर लेना, प्रलोभन देना,
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
द्वितीयोच्छ्वासः ]
व्याख्याद्वयोपेतम् ।
१५५
दयमन्तरान्तराश्लीलप्रायान्कलकलानित्येतानि चान्यानि चानुभवन्न
तृप्तिमध्यगच्छम् ।
( २७ ) अहसं च किंचित्प्रमाददत्तशारे क्वचित्कितवे । प्रतिकितवस्तु
निदहन्निव क्रोधताम्रया दृशा मामभिवीक्ष्य ‘शिक्षयसि रे द्यूतवर्त्म हास-
व्याजेन । आस्तामयमशिक्षितो वराकः । त्वयैव तावद्विचक्षणेन देवि-
ष्यामि’ इति द्यूताध्यक्षानुमत्या व्यत्यषजत् । मया जितश्चासौ षोडश-
वर्णनानि निरूपणानि । द्रव्येति—द्रव्यस्य द्यूतलब्धधनस्य संविभागे वण्टने-
औदार्यं महत्त्वं स्वकीयांशत्यागादिवेति भावः । अन्तरान्तरा मध्ये मध्ये । कल-
कलान् कोलाहलान् । इत्येतानि-यावन्ति उक्तानि-अन्यानि-यान्यनुक्तानि ।
अनुभवन्-दृष्ट्वा श्रुत्वा च । तृप्तिं सन्तोषम् । नाध्यगच्छम् न प्राप्तवान् । द्यूत-
क्रीडां विना केवलदर्शनेन तृप्तिर्नोत्पद्यत इति भावः ।
( २७ ) किञ्चित्-ईषत् । प्रमाददत्तशारे-प्रमादेन अनवधानतया दत्तः स्थापितः
शारः शारिका गुटिकेति यावद्, येन तथाविधे । क्वचित्-कस्मिंश्चित् । कितवे-
धूर्ते द्यूतकरे । प्रतिकितवः-प्रतिकूलद्यूतकरः । निदहन्निव भस्मीकुर्वन्निव । क्रोध-
ताम्रया-रोषारुणया । दृशा-नेत्रेण द्यूतवर्त्म-द्यूतमार्गम् । हासव्याजेन-हास्य-
च्छलेन । आस्तां तिष्ठतु । अशिक्षितः अपटुः । वराकः शोच्यः । विचक्षणेन
पण्डितेन । देविष्यामि-क्रीडिष्यामि इति-एवमभिधाय । द्यूताध्यक्षानुमत्या सभिक-
सम्मतिपूर्वकम् । व्यत्यषजत्-द्यूतक्रीडायां संलग्नोऽभवत् । वि-अतिपूर्वकस्य षञ्ज-
सङ्ग इत्यस्य धातोलँङि रूपम् । असौ प्रतिकितवः । दीनाराणां स्वर्णमुद्राणाम् ।
दाँवके विभिन्न भेद बताना, जुएमें प्राप्त द्रव्यका बँटवारा करना, बीच-बीचमें गाली-गलौजका
शोरगुल आदि तरह-तरहकी बातोंका सतत अनुभव करते हुए मैं तृप्त नहीं होने आया ।
( २७ ) एक बार एक धूर्तके प्रभाववश गोटी दे देनेपर मुझे हँसी आ गयी तब उसका
प्रतिपक्षी धूर्त क्रोधसे अपनी आँखें लाल करके मेरी ओर इस तरह ताकने लगा जैसे
मुझे जलाकर भस्म ही कर देगा, कहने लगा 'अरे छोकरे! हँसीके बहाने मुझे जुआ
खेलना सिखाता है अच्छा, यह अशिक्षित खिलाड़ी अलग बैठे । तू जो अपनेको कुशल
खिलाड़ी मानता है तो, आ, मैं तेरे ही साथ खेलूँगा ।' इसपर द्यूताध्यक्षकी भी अनुमति
मिल गयी और वह मेरे साथ खेलने लगा । मैंने बातकी बातमें इसकी सोलह हजार
११ द० कृ० उ०
Nepal Sanskrit University, Balmeeki Campus, Kathmandu