दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
३१६ दशकुमारचरितम् । [ उत्तरपीठिकायां
३१६ दशकुमारचरितम् । [ उत्तरपीठिकायां
त्तश्रोत्रो मुक्तकण्ठं रुदित्वा चिरस्य बाष्पाकुण्ठकण्ठः काष्ठान्याहृत्याग्निं स-
न्धुक्ष्य राजमन्दिरद्वारे चितारोहणायोपक्रमिष्यसे । स तावदेव त्वत्पा-
दयोर्निपत्य सामात्यो नरपतिरनूनैरथैंस्त्वामुपच्छन्द्य दुहितरं मह्यं दत्त्वा
मद्योग्यतासमाराधितः समस्तमेव राज्यभारं मयि समर्पयिष्यति । सोऽय-
मभ्युपायोऽनुष्ठेयो यदि तुभ्यं रोचते' इति । सोऽपि पटुविटानामग्रणी-
रसकृदभ्यस्तकपटप्रपञ्चः पाञ्चालशर्मा यथोक्तमभ्यधिकं च निपुणमुप-
क्रान्तवान् ।
मस्यन्तं वैलक्ष्यं सलज्जत्वमुपेतः प्राप्तः । अनुनेतुं खेदमपनेतुम् । अनित्यतेति-
शरीरस्य क्षणभङ्गुरत्वादिवर्णनेन । अत्रभवन्तं त्वां वृद्धविटमित्यर्थः । अदत्तश्रोत्रः-
कर्णपातमकृत्वा अश्रुत्वेत्यर्थः । बाष्पेति-रोदनजनितबाष्पेण आसमन्तात् कुण्ठो
रुद्धः कण्ठो यस्यासौ । आहृत्य-सञ्चित्य । संधुक्ष्य-प्रज्वाल्य । चितारोहणाय-
चितामधिरोढुम् । उपक्रमिष्यसे आरप्स्यसे । स नरपतिरित्यनेन योज्यः । सामा-
त्यः समन्त्रिकः । अनूनैरधिकैः । उपच्छन्द्य सन्तोष्य । दुहितरं स्वकन्याम् । मद्यो-
ग्यतेति-मम योग्यतया पटुतया समाराधितो वशीभूतः । अनुष्ठेयो विधेयः ।
यदि तुभ्यं रोचते-यदि तवाभिमतं स्यादित्यर्थः । पटुश्चतुरः । विटानां धूर्त्ता-
नाम् । अग्रणीः श्रेष्ठः । असकृदिति-असकृदनेकवारं अभ्यस्तः परिचितः कपटप्रव-
ञ्जनश्छलरचना यस्य सः यथोक्तं मया यावत्कथितं, ततोऽपि अभ्यधिकं यन्मया
नोक्तं तदपीत्यर्थः । निपुणमतिकौशलेन उपक्रान्तवान्-सम्पादितवान् ।
मन्त्रियोंके साथ आपके प्रति बहुत विनय करते हुये संसारकी नश्वरता दिखाते हुए बड़ी
प्रार्थनापूर्वक स्तुति करेगा । किन्तु आप उन सब स्तुतियोंको अनसुनी करके मुक्त-
कंठसे आँसुओंसे रुद्ध गलेके साथ रोना प्रारम्भ कर देना । रोते हुए राजाके दरवाजेपर
ही काष्ठ (लकड़ी) एकत्र कर एक चिता बनाना एवं उसमें अग्नि जलाकर आप प्राण
विसर्जन करनेको अधिरूढ़ होनेको उद्यत होना । तब वह राजा अवश्य अपने सचिवोंके
साथ आकर आपके पैरोंपर गिरेगा एवं मेरी योग्यता पर मुग्ध होकर अपनी राजकुमारी-
की शादी मेरे साथ कर देगा । सभी राज्यका भार भी मुझे ही समर्पित कर देगा । यही
सुन्दर उपाय मैने सोचा है । यदि आपको रुचे तो आप इसे कार्यान्वित करें । उपर्युक्त
वार्त्ता श्रवण करके उस धूर्त विटोंके अग्रणीने जो अनेक बार ऐसे प्रपंचयुक्त छल
कपट कर चुका था । जिसे ऐसे जाल करने का अभ्यास था । उस पांचालशर्मा नामक
विटने मेरे कहे हुए छलोंसे भी अधिक छल करके मेरा यह कार्य निपुणतासे सम्पा-
दित किया ।
( २६ ) आसीच्च मम समीहितानामहीनकालसिद्धिः । अन्वभवं च
मधुकर इव नवमालिकामाई्रसुमनसम् । अस्य राज्ञः सिंहवर्मणः साहाय्य
दानं सुहृत्सङ्केतभूमिगमनमित्युभयमपेक्ष्य सर्वबलसन्दोहेन चम्पामिमा
मुपगतो दैवाद्भवद्दर्शनसुखमनुभवामि' इति ।
( २७ ) श्रुत्वैतत्प्रमतिचरितं स्मितमुकुलितमुखनलिनो विलासप्राय-
मूर्जितम् , मृदुप्रायं चेष्टितम् , इष्ट एष मार्गः प्राज्ञावताम् , 'अथेदानीमत्र-
( २६ ) समीहितानां-मदभीप्सितानाम् । अहीनकालसिद्धिः-अचिरकालेन
लाभः । मधुकरो भ्रमरः नवमालिकां नवमालिका मालतीव नवमालिका तां राज्ञो
धर्मवर्धनस्यात्मजाम् । आर्द्रसुमनसं एकत्र आर्द्राः सरसाः सुमनसः पुष्पाणि यस्या-
स्तानपरत्र आर्द्रं कोमलं सुष्ठु मनो यस्यास्तामित्युभयविशेषणम् । मधुकरो यथा
सरसकुसुमां मालतीमनुभवति तथाहमपि तां नवमालिकामन्वभवमिति भावः ।
सुहृदिति-सुहृदामस्मन्मित्राणां संकेतभूमौ मिलनस्थाने गमनम् । सर्वबलसन्दो-
हेन-सर्वेषां बलानां हस्यश्ववादीनां सन्दोहः समूहस्तेन सहेति शेषः, युक्तो वा ।
देवदर्शनसुखं भवदवलोकनानन्दम् ।
( २७ ) स्मितेति-स्मितेन हास्येन मुकुलितं संकुचितं मुखनलिनं वदनकमलं
यस्य सः । विलासप्रायं विलास बहुलम् । ऊर्जितं पराक्रमः । मृदुप्रायं-प्रायेण कोम-
लम् । दृष्टोऽभिमतः । एष मार्गः-प्रमतिना चरितः पन्थाः । प्रज्ञावतां-बुद्धिमताम् ।
( २६ ) इन जालोंके द्वारा मेरा अभीष्ट कार्य शीघ्र ही सम्पन्न हो गया । जैसे भौंरा
नवमालिका फूलकी कलियोंमें आर्द्ररसोंको चूसता है। तद्वत् मैं भी कोमल मनवाली
नवमालिका कुमारीके तारुण्यरसका आस्वादन करने लगा । तत्पश्चात् इस राजा सिंह-
वर्माको सहायताके लिये मित्रों द्वारा प्रेरित मैं ( प्रमति ) अपने दल-बलके साथ इस
चम्पापुरोमें आ पहुँचा हूँ । दैववश यहाँपर आपका भी दर्शन प्राप्त हो गया ।
( २७ ) इस प्रमतिकुमारके चरितको श्रवण करके हाससे जिनका मुखकमल विक-
सित हो गया ऐसे राजवाहनने कहा—प्रमति ! यह आपका परिश्रम विलासयुक्त है ।