सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

३६ दशकुमारचरितम् । [ पूर्वपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF

३६ दशकुमारचरितम् । [ पूर्वपीठिकायां

मिव मामवलोक्य शोकहेतुमवोचत्—'द्विजात्मज ! राजहंसमन्त्रिणः
सितवर्मणः कनीयानात्मजः सत्यवर्मा तीर्थयात्रामिषेण देशमेनमागच्छत् ।
स कस्मिंश्चिदग्रहारे कालीं नाम कस्यचिद् भूसुरस्य नन्दिनीं विवाह्य तस्या
अनपत्यतया गौरीं नाम तद्भगिनीं काञ्चनकान्तिं परिणीय तस्यामेकं तन-
यमलभत । काली सासूयमेकदा धात्र्या मया सह बालमेनमेकेन मिषेणा-
नीय तटिन्यामेतस्यामक्षिपत् । करेणैकेन बालमुद्धृत्यापरेण प्लवमाना
नदीवेगागतस्य कस्यचित्तरोः शाखामवलम्ब्य तत्र शिशुं निधाय नदीवेगे-
नोह्यमाना केनचित्तरुलग्नेन कालभोगिनाहमदंशि । मदवलम्बीभूतो भूरु-
होऽयमस्मिन् देशे तीरमगमत् । गरलस्योद्दीपनतया मयि मृतायामरण्ये
कश्चन शरण्यो नास्तीति मया शोच्यते' इति ।

कीलः तस्योत्पाटने उद्धरणे क्षमं समर्थम् । शोकस्य हेतुं कारणम् । कनीयान्
कनिष्ठः तीर्थयात्राया मिषेण कपटेन । अग्रहारे ग्रामे । भूसुरस्य ब्राह्मणस्य । अनप-
त्यतया अपुत्रकतया । काञ्चनस्य स्वर्णस्येव कान्तिरुज्ज्वल्यं यस्यास्ताम् । परिणीय
विवाह्य । सासूयं विद्वेषेण । मिषेण छलेन । तटिन्यां नद्याम् । उद्धृत्य धारयित्वा ।
अपरेण करणेति शेषः । प्लवमाना तरन्ती । नदीवेगागतस्य नद्या वेगवशादुपस्थित-
स्य । तरोः वृक्षस्य । निधाय संस्थाप्य । उद्यमाना नीयमाना । तरुलग्नेन वृक्षारू-
ढेन । कालभोगिना कृष्णसर्पेण अदंशि दृष्टा । मदवलम्बीभूतो मदाश्रयीभूतः ।
भूरुहो वृक्षः । अगमत् प्राप्तवान् । गरलस्य विषस्य । उद्दीपनतया उत्कटतया ।
मृतायां सत्यामिति शेषः । शरण्यो रक्षकः । शोच्यते खेदः क्रियते ।

मनमें यह समझकर कि इस व्यक्तिद्वारा मेरा शोकरूपी अङ्कुश निकाल दिया जायगा—यह
समर्थ शक्तिवाला है । मुझसे कहना प्रारम्भ किया—'हे विप्रसुत ! राजहंसके मन्त्री
सितवर्माका छोटा लड़का सत्यवर्मा तीर्थाटनके लिये इस देशमें आया था । किसी अग्रहार
(राजाके द्वारा संकल्प करके दिये हुए ग्राम) में एक विप्रकी कन्या, जिसका नाम काली था,
उससे विवाह किया; परन्तु उससे सन्तति न होनेपर उसने उसीकी छोटी बहिन गौरीसे उद्वाह
किया जो स्वर्णसी सुन्दरी थी। उसको एक पुत्र हुआ। एक दिन काली ईर्ष्याके वशीभूत होकर
उस बालकके सहित मुझे (मैं उसकी धात्री थी) किसी बहाने नदीके तीरपर ले आयी और हम
दोनोंको नदीमें ढकेलकर भाग गयी । एक हाथसे बालकको पकड़े हुए मैं दूसरे हाथसे नदीमें
तैरने लगी । इतनेमें नदीके बहावमें बहता हुआ एक वृक्ष आया जिसकी डालपर बालकको
बिठा दिया और नदीमें उसी पेड़को पकड़कर नदीके वेगके सहारे तैरती चली । उस वृक्षमें
लिपटे किसी सर्पने मुझे काट लिया । उस वृक्ष के साथ मैं इस प्रदेशमें तीरपर आ लगी । विष
की गर्मीसे मेरे मर जानेपर इस बालकका कोई भी रक्षक नहीं यही सोचकर रो रही हूँ।'

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ३७
─────────────────────────────────────────────────────────────────────────────
( ७७ ) ततो विषमविषज्वालावलीढावयवा सा धरणितले न्यपतत् ।
दयाविष्टहृदयोऽहं मन्त्रबलेत् विषव्यथामपनेतुमक्षमः समीपकुञ्जेभ्योष-
धिविशेषमन्विष्य प्रत्यागतो व्युत्क्रान्तजीवितां तां व्यलोकयम् ।
( ७८ ) तदनु तस्याः पावकसंस्कारं विरचय शोकाकुलचेता बालमेन-
मगतिमादाय सत्यवर्मवृत्तान्तवेलायां तन्निवासाग्रहारेनामधेयस्याश्रुततया
तदन्वेषणमशक्यमित्यालोच्य भवदमात्यतनयस्य भवानेवाभिरक्षितेति
भवन्तमेनमनयम्' इति ।
( ७९ ) तन्निशम्य सत्यवर्मस्थितेः सम्यगनिश्चिततया खिन्नमानसो
─────────────────────────────────────────────────────────────────────────────
( ७७ ) विषमयाऽविषह्यया विषस्य ज्वालया शिखया पीड्येत्यर्थः । अवलीढाः
व्याप्ता अवयवा अङ्गानि यस्याः सा । दयया करुणया आविष्टमाक्रान्तं हृदयं चेतो
यस्य सः । मन्त्रबलेन मन्त्रशक्त्या । अपनेतुं दूरीकर्तुम् । समीपकुञ्जेषु निकटस्थ-
लतादिपिहितस्थानेषु । व्युत्क्रान्तजीवितां मृताम् ।
( ७८ ) तदनु तदनन्तरम् । पावकसंस्कारं विरचय अग्निसंस्कारं कृत्वा तद्देहं
भस्मसात्कृत्वेत्यर्थः । शोकेन खेदेनाकुलं व्याप्तं चेतो यस्य सः । अगतिमनाथम् ।
सत्यवर्मणो वृत्तान्तश्रवणवेलायां वार्ताश्रवणसमये तस्य सत्यवर्मणो निवासा-
ग्रहारस्य वासस्थलभूतस्य ग्रामस्य यन्नामधेयं नाम तस्याश्रुततया अश्रव-
णेन । अभिरक्षिता पालकः । अनयं प्रापितवानस्मि । णीञ्प्रापणे इत्यस्य धातो-
र्लङि रूपम् ।
( ७९ ) सत्यवर्मस्थितेः तदवस्थानस्य जीवनस्य वा सम्यगनिश्चिततया सोऽत्रै-
─────────────────────────────────────────────────────────────────────────────
( ७७ ) इतनी बात कहते-कहते भयङ्कर विषकी ज्वालासे, जो सब शरीरमें व्याप्त हो गया
था, वह अचानक भूमिपर गिर गयी । मुझे उसकी ऐसी दशापर दया आ गयी। परन्तु मैं
मन्त्र नहीं जानता था इससे मन्त्रबलसे उसकी पीड़ा नष्ट न कर सका किन्तु समीपके लता-
गृहसे मैं जब औषधि खोजकर आया तो देखा कि उसके प्राण-पखेरू उड़ चुके थे ।
( ७८ ) तत्पश्चात् मैंने उसकी दाह-क्रिया की । और इस शोकान्वित चित्तवाले
बालकको अपने पास रख लिया । परन्तु सत्यवर्माके चरित्रके श्रवणके समय उसके
निवासस्थान अग्रहारका नाम तो सुना किन्तु पता न पा सका अतः उस स्थानका
अन्वेषण करना अशक्य समझा । हे प्रभो, आपके मन्त्रीका यह बालक है—ऐसा विचार
करके आपके समीप ले आया हूँ ।
( ७९ ) उपर्युक्त वृत्तान्तको जानकर तथा सत्यवर्माकी अनिश्चित स्थिति का ध्यान करके
Nepal Sanskrit University, Balmeeki Campus, Kathmandu