सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

१२० दशकुमारचरितम् । [ उत्तरपीठिकायां

१२० दशकुमारचरितम् । [ उत्तरपीठिकायां
राजवंशवर्धने नरवाहनदत्ते विरसाशयस्तदपकारक्षमोऽयमिति तपस्यता
दर्पसारेण सह समसृज्यत । प्रतिश्रुतं च तेन तस्मै स्वसुरवन्तिसुन्दर्याः
प्रदानम् ।
( १७ ) अन्यदा तु वियति व्यवदायमानचन्द्रिके मनोरथप्रियतमा-
मवन्तिसुन्दरीं दिदृक्षुरवशेन्द्रियस्तदिन्द्रमन्दिरद्युति कुमारीपुरमपासरात् ।
अन्तरितश्च तिरस्करिण्या विद्यया । स च तां तदा त्वदङ्गापाश्रयां सुरत-
यद्वैरं शत्रुत्वं तस्मिन् । प्रवर्त्तमाने तिष्ठति । वत्सराजवंशवर्द्धने वत्सराजकुलोत्पन्ने ।
विरसाशयः क्रान्तःकरणः । तदपकारेति—तस्य नरवाहनदत्तस्यापकारे विग्रहे
क्षमः समर्थोऽयं दर्पसार इति मत्वा । तपस्यता तपस्कुर्वता । समसृज्यत मिलितोऽ-
भवत् । प्रतिश्रुतं प्रतिज्ञातम् । तेन दर्पसारेण । तस्मै वीरशेखराय । स्वसुः भगिन्याः ।
( १७ ) अन्यदा अन्यदिने । वियति आकाशे । व्यवदायमानचन्द्रिके निर्मल-
ज्योत्स्ने व्यवपूर्वकस्य दैप् शोधन इत्यस्य धातो रूपम् । मनोरथेति-मनोरथेनैव
असम्पन्नविवाहत्वान्मनसैव नतु कर्मणेति भावः । प्रियतमा वल्लभा ताम् । अव-
शानि विकलानि इन्द्रियाणि यस्य स वीरशेखर इति शेषः । इन्द्रमन्दिरस्य
महेन्द्रगृहस्य द्युतिरिव द्युतिः शोभा यस्य तत् । कुमारीपुरमिरत्यस्य विशेषणम् ।
उपासरत् अगच्छत् । अन्तरित आच्छादितः ! तिरस्करिण्या अन्तर्धानकारिण्या ।
स च वीरशेखरश्च । ताम् अवन्तिसुन्दरीम् । त्वदङ्केति—तव भवतो राजवाहनस्यै-
जिस कारण वे विद्याधरोंके सार्वभौम तथा वत्सराजके वंशके अप्रतिम पुरुष नरवाहनदत्तसे
जा मिले । परन्तु उससे कुछ इन्हें सहायता नहीं प्राप्त हुई और उन्हें वहाँसे हताश होकर
लौटना पड़ा । तब बहुत विचार विमर्श करके वे कैलासपर्वतपर तपस्या करते हुए राजा
दर्पसारसे जा मिले, क्योंकि उन्हें यह विश्वास था कि राजा दर्पसार उनके पिताके अखण्ड
गर्वका खण्डन कर सकते हैं । उन वीरशेखरने दर्पसारसे मिलकर उन्हें वाक्यप्रदान
किया कि यदि आप मेरी सहायता करेंगे तो मैं अपनी भगिनी अवन्तिसुन्दरीका परिणय
आपसे कर दूँगा ।
( १७ ) तदनन्तर एक दिन जब सारा जगतीतुल चन्द्रकिरणोंसे परिव्याप्त था तब
उन किरणोंसे व्याकुल होकर दर्पसार अपनी अभिलषित प्रियतमा अवन्तिसुन्दरीसे भेंट
करनेके लिए उसके उस अन्तःपुरमें प्रविष्ट हो गया जो इन्द्रभवनके समान सजा हुआ
भला लगता था । दर्पसार उस समय अपने आपको तिरस्करिणी विद्यासे गुप्त किये हुए
था । वहाँ पहुँचकर उसने देखा कि उसकी प्रेयसी सुरतजनित श्रमसे व्यथित
होकर आपकी गोदमें सो रही है । वह आपके द्वारा तीनों लोकोंकी कथाओंको श्रवण कर
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । १२१
खेदसुप्तगात्रीं त्रिभुवनसर्गयात्रासंहारसबद्धाभिः कथाभिरमृतस्यन्दिनीभिः
प्रत्यानीयमानरागपूरां न्यरूपयत् ।
( १८ ) स तु प्रकुपितोऽपि त्वदनुभावप्रतिबद्धनिग्रहान्तराध्यवसायः
समालिङ्ग्येतेरतरमत्यन्तसुखसुप्तयोर्युवयोर्दैवदत्तोत्साहः पाण्डुलोहशृङ्ख-
लात्मना मया पादपद्मयोर्युगलं तव निगड़यित्वा सरोषरभसमपासरत् ।
अवसितश्च ममाद्य शापः । तच्च मासद्वयं तव पारतन्त्र्यम् । प्रसीदेदा-
नीम् । किं तव करणीयम्' इति प्रणिपतन्तीं 'वार्तयानया मत्प्राणसमां
समाश्वासय' इति व्यादिश्य विससर्ज ।
स्यर्थः । अङ्के क्रोडदेशे अपाश्रयः शिरोभागो यस्यास्ताम् । सुरतखेदसुप्तगात्रीं
रतिखेदनिश्शलावयवाम् । त्रिभुवनेति - त्रिभुवनस्य सर्ग उत्पत्तिः यात्रा स्थितिः
संहारः प्रलयश्च तैः सम्बद्धाभिः संसृष्टाभिः । अमृतस्यन्दिनीभिः सुधास्राविणीभिः ।
प्रत्यानीयमान उत्पाद्यमानो रागपूरोऽनुरागातिशयो यस्यास्ताम् । न्यरूपयत् ददर्श ।
( १८ ) सः वीरशेखरः । त्वदनुभावेति-तव भवतोऽनुभावेन प्रतापेन प्रति-
बद्धो रुद्धः निग्रहान्तरस्य शृङ्खलया पादबन्धनं विना अन्यविधनिग्रहस्य अध्यव-
सायोडभिप्रायो यस्य सः । इतरेतरं परस्परम् । युवयोः अवन्तिसुन्दर्याः राजवा-
हनस्य चेत्यर्थः । पाण्डुलोहेति-पाण्डुलोहस्य रजतस्य शृङ्खला आत्मा स्वरूपं
यस्यास्तया । मयेत्यस्य विशेषणम् । मया सुरतमञ्जर्या इत्यर्थः । निगडयित्वा
बद्ध्वा । निगडितं करोतीति नामधातुः । सरोषरभसं सक्रोधवेगम् । अपासरत्
अन्तर्दधौ । अवसितः समाप्तः । पारतन्त्र्यं पराधीनता । व्यादिश्य कथयित्वा ।
वार्त्तयेत्यादिसमाश्वासयेत्यन्तस्य कर्म ।
गद्गद एवं पुलकित हो गयी थी तथा आपके लिए उसके चित्तमें प्रेमकी लहरें उच्छाले
मार रही थीं ।
(१८) इस रीतिसे आपको अपनी कामनापूर्त्तिमें अति विपुल अन्तराय ज्ञात कर
उस दर्पसारको बड़ा रोष आया । परन्तु, आपके प्रतापके समक्ष वह कुछ करनेमें अशक्त
था । अन्ततो गत्वा दुर्भाग्यवश जब आप दोनों परस्पर लिपटे हुए सो रहे थे, उसने मुझे
(चाँदीकी जंजीरको) आपके दोनों पैरोंमें कसकर बाँध दिया तथा उसी रोषके आवेगमें
वह अति चपलतासे भाग गया । आज मेरे शापकी अवधि पूर्ण हो गयी क्योंकि दो मासों
तक मैं परतन्त्रा रह चुकी । अब मुझपर दया कीजिये और आज्ञा दीजिये कि मैं आपकी
क्या सेवा करूँ ।' ऐसा कहकर उस अप्सराने उन्हें प्रणाम किया । यह सुनकर राजवाहनने
उससे कहा-'आप मेरा समस्त वृत्त मेरी प्रियतमा को सुनाकर उसे धीरज बँधा दें।
ऐसा कहकर उन्होंने उसे विदा दे दी ।