सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

१४८ दशकुमारचरितम् । [ उत्तरपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
१४८ दशकुमारचरितम् । [ उत्तरपीठिकायां

क्तश्च रागः संध्यात्वेनास्फुरत् । तत्कथादत्तवैराग्याणीव कमलवनानि सम-
कुचन् । अनुमतमुनिशासनस्त्वहममुनैव सहोपास्य संव्यामनुरूपाभिः
कथाभिस्तमनुशय्य नीतरात्रिः प्रत्युन्मिषत्युदयप्रस्थदावकल्पे कल्पद्रुम-
किसलयावधीरिण्यरुणार्चिषि तं नमस्कृत्य नगरायोदचलम् ।
( २१ ) अदर्श च मार्गाभ्याशवर्तिनः कस्यापि क्षपणकविहारस्य
बहिर्विविक्ते रक्ताशोकखण्डे निषण्णमस्पृष्टसमाधिमाधिक्षीणमग्रगण्यमन-
तस्य स्पर्शभिया संपर्कभयेनेवेत्युत्प्रेक्षा । रवितमसोर्वैरं प्रसिद्धमेव । ऋषिणा
मरीचिना मुक्तस्त्यक्तो रागो गणिकाविषयकः सन्ध्यात्वेन सन्ध्यारुपेणास्फुरत
प्रकटीबभूव । तत्कथेति—तस्य मरीचेः कथया वार्त्तया दत्तं वैराग्यं येभ्यस्तानि ।
समकुचन्—संकुचितानि बभूवुः । कमलवनानां संकोचे तत्कथादत्तवैराग्यमेव
कारणत्वेनोत्प्रेक्षितम् । अनुमतमङ्गीकृतं मुनेर्मरीचेः शासनमादेशो येन स तथा ।
अमुना-मुनिना । अनुरूपाभिः तत्कालोयोग्याभिः । तमनुशय्य तेन मुनिना सह
शयित्वा । नीतरात्रिः-यापितनिशः । प्रत्युन्मिषति-प्रकाशमाने । उदयति सतीत्यर्थः।
उदयेति-उदयः उदयपर्वतस्तस्य प्रस्थः-सानु तस्मिन् । दावकल्पे वनाग्निसदृशे ।
कल्पद्रुमेति-कल्पद्रुमस्य कल्पवृक्षस्य किसलयानि पल्लवानि अवधीरयति तिरस्क-
रोतीति तस्मिन् । कल्पद्रुमपल्लवापेक्षयाधिकरक्तवर्णे इत्यर्थः । अरुणाचिषि—
अरुणा रक्तवर्णा अर्चिषो यस्य तस्मिन्-सूर्ये इत्यर्थः । तं-मुनिं नगराय नगरं
गन्तुम् । उदचलं प्रस्थितोऽभवम् ।
(२१) मार्गाभ्यासवर्तिनः-पथिपार्श्वस्थितस्य । क्षपणकविहारस्य-बौद्धमन्दि-
रस्य । विविक्ते-निर्जने पवित्रे वा । रक्ताशोकखण्डे-रक्तवर्णाशोकतककदम्बे ।
निषण्णमुपविष्टम् । अस्पृष्टेति-अस्पृष्टोऽलब्धः समाधियोगो येन तं ध्यानशून्य-
सूर्य भगवान अस्त हो गये । उन्हीं महर्षिसे परित्यक्त अनुराग संध्याके रूपमें परिणत हो
गया । उनकी बातोंसे जैसे वैराग्य प्राप्त करके कमलवन संकुचित हो गया । तदनन्तर
उन्हीं मुनिराजकी अनुमतिसे मैंने उनके साथ संध्या की । रातको उनके साथ ही सोया
और तरह-तरहकी बातें करते हुए वह रात बितायी। सबेरे जब दावानलके सदृश तथा
कल्पवृक्षकी कोंपलों को नीचा दिखाने वाली अरुण किरणें उदयाचलपर उदित हुईं, तब
मैंने उनको प्रणाम किया और नगरकी ओर चल पड़ा ।
( २१ ) एक स्थानपर मैंने मार्गके किनारे ही विद्यमान बौद्ध विहारके बाहर रक्त
अशोक वनमें बैठे नियमहीन, मानसी पीड़ासे दुर्बल, कुरूप पुरुषोंके अग्रणी एवं अतिदीन

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १४६
भिरूपाणां कृपणवर्णं कमपि क्षपणकम् । उरसि चास्य शिथिलितमलनि-
चयान्मुखान्निपततोऽश्रुबिन्दूनलक्षयम् । अप्राक्षं चान्तिकोपविष्टः—‘क्व तपः,
क्व च रुदितम् । न चेद्रहस्यमिच्छामि श्रोतुं शोकहेतुम्’ इति ।
( २२ ) सोऽब्रूत्—‘सौम्य, श्रूयताम् । अहमस्यामेव चम्पायां निधि-
पालितनाम्नः श्रेष्ठिनो ज्येष्ठसूनुर्वसुपालितो नाम । वैरूप्यान्मम विरूपक
इति प्रसिद्धिरासीत् । अन्यश्चात्र सुन्दरक इति यथार्थनामा कलागुणैः
मित्यर्थः। आधिक्षीणं मनोव्यथाभिः कृशम् । अग्रगण्यं श्रेष्ठम् । अनभिरूपाणां
कुरूपाणाम् । कृपणवर्णं दीनवर्णं विषण्णमिति यावत् । उरसि-वक्षसि । अस्य-
क्षपणकस्य । शिथिलितेति शिथिलितो धारापातेन विध्वंसितो मलनिचयो मल-
राशयैंस्तानिति अश्रुबिन्दुविशेषणम् । शिथिलितो मलनिचयो यत्र तस्मादिति
विग्रहे तु मुखादित्यस्य विशेषणमपि भवितुमर्हति न तन्मनोरमम् । अलक्षयम्
अपश्यम् । अप्राक्षम्-पृष्टवानस्मि । क्व तप इति-अत्र क्व द्वयं तपोरुदितयोरसा-
मानाधिकरण्यं सूचयति । रहस्यं-गोप्यम् । शोकहेतुं-शोकनिदानम् ।
( २२ ) स क्षपणकः । श्रेष्ठिनः-वणिक्प्रधानस्य । ज्येष्ठसूनुः, ज्येष्ठपुत्रः । वैरू-
प्यात्-कुत्सितरूपवत्त्वाद्वद्धेतोः । अत्र-चम्पायाम् । यथार्थेति-यथार्थं सार्थकं नाम
यस्यासौ । नामानुरूपं सौन्दर्यमप्यासीदिति भावः । कलागुणैः-शिल्पामाहात्म्यैः ।
समृद्धः-पुष्टः । वसुना धनेन । नातिपुष्टः, साधारणः । धनस्य प्राचुर्यं नासी-
दिति भावः । तस्य सुन्दरकस्य । वपुर्वसुनी-आकृतिधने । निमित्तीकृत्य-कारणी-
कृत्य । पौरधूर्तैर्यद्वैरमुत्पादितं तत्र सुन्दरकस्य शरीरसौन्दर्यं मम धनं च
कारणमासीदित्यर्थः । वैरोपजीविभिः-ये खलु द्वयोः परस्परं वैरमुत्पाद्य जीविकां
निर्वाहयन्ति ते वैरोपजीविनस्तैः । पौरधूर्त्तैः नागरिकवञ्चकैः । उदपाद्यत-उत्पा-
दितम् । ते एव-पौरधूर्त्ता एव । आवयोः सुन्दरकस्य मम च । स्वयमुत्पादितं-
वर्ण एक बौद्ध भिक्षुको देखा । और उसकी छातीपर गिरते हुए उन आँसुओंको भी देखा
जो उसके मुखकी मैल धो रहे थे । मैं उसके समीप जा बैठा और पूछा-‘भगवन् ! कहाँ
तपस्या और कहाँ रोदन । यदि कोई छिपानेकी बात न हो तो, मैं आपके शोकका
कारण जानना चाहता हूँ ।’
( २२ ) उसने कहा-‘हे सौम्य ! सुनिये-मैं इसी चम्पानगरीके निवासी निधिपालित
नाम सेठका बड़ा बेटा वसुपालित हूँ । मैं कुरूप हूँ , इस कारण ‘विरूपक’ इस नामसे
प्रसिद्ध था । मेरा दूसरा भाई ‘सुन्दरक’ नामका था । उसका यह नाम उसके अनुरूप था ।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

१५० दशकुमारचरितम् । [ उत्तरपीठिकायां
समृद्धो वसुना नातिपुष्टोऽभवत् । तस्य च मम च वपुर्वसुनी निमित्ती-
कृत्य वैरं वैरोपजीविभिः पौरधूर्तैरुदपाद्यत । त एव कदाचिदावयोरुत्सव-
समाजे स्वयमुत्पादितमन्योन्यावमानमूलमधिचेपवचनव्यतिकरमुपश-
मय्य 'न वपुर्वसु वा पुंस्त्वमूलम् , अपि तु प्रकृष्टगणिकाप्रार्थ्ययौवनो हि
यः स पुमान् । अतो युवतिललामभूता काममञ्जरी यं वा कामयते स
हरतु सुभगपताकाम्' इति व्यवस्थापयन् ।
( २३ ) अभ्युपेत्यावां प्राहिणुव तस्यै दूतान् । अहमेव किलामुष्याः स्म-
रोन्मादहेतुरासम्। आसीनयोश्चावययोर्मामेवोपगम्य सा नीलोत्पलमयमिया-
पौरधूर्तैरेव प्रारब्धम्। अन्योन्येति-अन्योन्यस्य परस्परस्यावमानोऽवज्ञैव मूलं
निदानं यस्य तमिति अधिचेपवचनव्यतिकरमित्यस्य विशेषणम् । अधिचेपवचन-
व्यतिकरं-तिरस्कारसूचकवाक्यप्रपञ्चम् । उत्तरोत्तरवर्धमानमिति शेषः । उपशमय्य-
शमयित्वा । न वपुरिति-शरीरेण धनेन वा पुरुषः पुरुषपदवाच्यो न भवति किन्तु
यः श्रेष्ठगणिकाभिः प्रार्थनीयो भवति स एव पुरुष इति भावः । युवतिललाम-
भूता-तरुणीकुलालंकारस्वरूपा । सुभगपताकां-सौभाग्यचिह्नम् । हरतु-प्राप्नोतु ।
व्यवस्थापयन्-निर्णीतवन्तः ।
( २३ ) अभ्युपेत्य स्वीकृत्य तन्निर्णयमिति शेषः । आवां-सुन्दरकोऽहञ्च ।
प्राहिणुव-प्रेषितवन्तौ । तस्यै-काममञ्जर्यै तदर्थमित्यर्थः । अमुष्याः-काममञ्जर्याः ।
स्मरोन्मादहेतुः-स्मरेण कामेन य उन्मादः पारवश्यं तत्र हेतुर्निमित्तभूतः, रूपव-
न्तमपि सुन्दरकं विहाय धनिकतया मामेव स्वीकृतवतीति भावः । आसीनयोः-
क्योंकि, उसमें सभी कलाओं और गुणों का समावेश था । हाँ, धन उसके पास उतना
अधिक नहीं था, सो नगरके वैरोपजीवी धूर्त्तोंने उसके सौन्दर्य और धनकी आड़में वैर खड़ा
कर दिया । उन्हीं लोगों ने किसी उत्सवके अवसर पर स्वयं उत्पन्न परस्पर अपमान के
कारणस्वरूप तिरस्कारका उपशमन करके व्यवस्था दी 'केवल सौन्दर्य अथवा धन ही मनुष्य
के पुंस्त्वका कारण नहीं हो सकता । सच्चा पुरुष तो वही हो सकता है जिसको कोई उत्तम
वेश्या चाहे । इसलिए युवतियोंकी मुकुटमणिसरूपा काममञ्जरी तुम दोनोंमेंसे जिसे पसन्द
करे, वही सौभाग्यशाली माना जाय ।' इसे अङ्गीकार करके हम दोनोंने उसके पास
दूत भेजे ।
( २३ ) अन्तमें उस सुन्दरी काममञ्जरीने मुझको ही अपना प्रेमी चुना । जब हम
दोनों एक साथ बैठे हुए थे, तब वह आयी और दोनोंमेंसे झमपर ही अपने नीलकमलमय
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १५१
पाङ्गदामाङ्गे नम मुञ्चन्ती तं जनमपत्रपयाधोमुखं व्यधत्त । सुभगंमन्येन च
मया स्वधनस्य स्वगृहस्य स्वगणस्य स्वदेहस्य स्वजीवितस्य च सैवेश्वरी
कृता । कृतश्चाहमनया मलमल्लकशेषः । हृतसर्वस्वतया चापवाहितः प्रपद्य
लोकोपेहासलक्ष्यतामक्षमश्च सोढुं धिक्कृतानि पौरवृद्धानामिह जैनायतने
मुनिनैकेनोपदिष्टमोक्षवर्त्मा सुकर एव वेषो वेशनिर्गतानामित्युदीर्णवैरा-
ग्यस्तदपि कौपीनमजहाम् ।
(२४) अथ पुनः प्रकीर्णमलपङ्कः प्रबलकेश लुञ्चनव्यथः प्रकृष्टतमक्षुत्पि-
उत्सवसमाजे समुपविष्टयोः । उपगम्य-वल्लभत्वेनाङ्गीकृत्य । सा-काममञ्जरी ।
नीलोत्पलप्रममिव-नीलकमलरचितमिव । अपाङ्गदाम-कटाक्षपरम्पराम् । मुञ्च-
न्ती-विसृजन्ती । तं-सुन्दरकम् । अपत्रपया-लज्जया । व्यधत्त-कृतवती । आत्मानं-
सुभगं सौभाग्यवन्तं मन्यत इति सुभगम्मन्यस्तेन । स्वगणस्य-स्वजनवर्गस्य ।
सैव-काममञ्जर्य्येव । ईश्वरी-स्वामिनी । अनया-काममञ्जर्या । मलमल्लकशेषः-
कौपीनमात्रावलम्बनः । 'कौपीनं मलमल्लकमि'ति वैजयन्ती । अपवाहितः-गृहा-
न्निष्काशितः । प्रपद्य-प्राप्य । लोकोपहासलक्ष्यतां-जनानामुपहासविषयताम् ।
पौरवृद्धानां-नागरिकश्रेष्ठानाम् । जैनायतने-सौगतमन्दिरे । एकेन-केनचित् ।
उपदिष्टेति-उपदिष्टं प्रदर्शितं मोक्षस्यापवर्गस्य वर्त्म मार्गो यस्मै तथाभूतः ।
सुकरः-सुसाध्यः । वेशनिर्गतानां-वेश्यागृहनिष्क्रान्तानाम् । उदीर्णवैराग्यः-समु-
द्दीपिनवैराग्यः अजहाम्-अत्यजम् ।
( २४ ) अथ-कौपीनत्यागानन्तरम् । प्रकीर्णेति-प्रकीर्णः प्रसृतो व्याप्त इति
नेत्रोंके कटाक्ष फेंकती हुई मेरे प्रतिद्वन्दीका मुख लाज के मारे नीचा कर दिया । अब मैने
अपने को सुन्दर मान करके काममंजरी को ही अपने धन, अपने घर, अपने गण और
अपने जीवनतक को अधीश्वरी बना दिया । और उसने भी सर्वस्व हड़प करके मुझे कौपी-
नावशेष कर दिया । कुछ शेष न रहनेपर उसने मुझे घर से निकाल दिया । संसार के लोगों ने
मुझे उपहासका लक्ष्य बनाया और जब नगरके बड़े-बूढ़ों के धिक्कार भरे वचन सहनेमें मैं
असमर्थ हो गया तब इस जैनमठमें भाग आया । यहाँ एक मुनिने मुझे मोक्षमार्गका उपदेश
दिया । अब तो, मेरा यह दृढ़ विश्वास हो गया है कि, वेश्याओं द्वारा तिरस्कृत पुरुषों के लिए
यह (निहंग) वेश ही अच्छा है । इसी वास्ते मैंने कौपीनतक त्याग दी है ।
( २४ ) कुछ समय बाद जब मेरे शरीरमें बहुत-सा मैल जम गया, केशों में लटें बँध