सामग्री पर जाएँ
सर्वकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 34, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 34

३४ दशकुमारचरितम् । [ पूर्वपीठिकायां
गता । तेन 'कुत्रत्योऽयम्' इति पृष्टा समभाषत—'राजन् ! अतीतायां रात्रौ
काचन दिव्यवनिता मत्पुरतः कुमारमेनं संस्थाप्य निद्रामुद्रितां मां विबो-
ध्य विनीताऽब्रवीत्—'देवि ! त्वन्मन्त्रिणो धर्मपालनन्दनस्य कामपालस्य
वल्लभा यक्षकन्याऽहं तारावली नाम, नन्दिनी मणिभद्रस्य । यक्षेश्वरानुमत्या
मदात्मजमेतं भवत्तनुजस्याम्भोनिधिवलयवेष्टितक्षोणीमण्डलेश्वरस्य भा-
विनो विशुद्धयशोनिधे राजवाहनस्य परिचर्याकरणायानीतवत्यस्मि । त्वमे-
नं मनोजसंनिभमभिवर्धय' इति विस्मयविकसितनयनया मया सविनयं
सत्कृता स्वक्षी यक्षी साप्यदृश्यतामयासीत्' इति ।

पतिम् । तेन राज्ञा । कुत्र भव इति कुत्रत्य इति कुत्रेत्यव्ययात्त्यप्प्रत्ययः । अयं
बालकः कुत्रोत्पन्नः-कस्य पुत्र इति भावः । अतीतायां गतायाम् । दिव्यवनिता
स्वर्गीया स्त्री । निद्रया मुद्रितां निमीलितनयनाम् । विबोध्य प्रबोध्य । वल्लभा
पत्नी । यक्षेश्वरस्य कुबेरस्याऽनुमत्याऽऽदेशेन । भवत्यास्तव तनूजस्य नन्दनस्य ।
भाविनो भविष्यतः । अम्भोनिधिः समुद्र एव वलयः कटकस्तेन वेष्टितं यत् क्षोणी-
मण्डलं भूमण्डलं तस्येश्वरः पतिः शासक इत्यर्थः । विशुद्धस्य निर्मलस्योज्ज्वलस्येति
यावत् । यशसः कीर्तेर्निधिर्निधानं तस्य । परिचर्येति शुश्रूषाकरणायेत्यर्थः । मनोजस्य
मनोजेन वा सन्निभः-कामदेवतुल्यः सौन्दर्येणेति यावत् । अभिवर्द्धय पालय ।
विस्मयेनाश्चर्यरसेन विकसिते प्रफुल्ले नयने नेत्रे यस्यास्तया । सत्कृता संमानिता ।
स्वक्षी-सु शोभने अक्षिणी नेत्रे यस्याः सा । यक्षी यक्षकूलोत्पन्ना न तु यक्षपत्नी ।
कामपालस्य यक्षत्वाभावात् । अदृश्यतामन्तर्धानम् ।

समीप आयी । राजाने उन्हें देखकर पूछा—'यह बालक कहांसे आया ?' उत्तरमें उन्होंने
कहा—हे महाराज ! गत रात्रिमें एक स्वर्गांगना मेरे समीप निद्रावस्थामें आयी और इस
सुकुमार कुमारको मेरी गोदामें धरकर नम्रतासे विनयपूर्वक बोली—'मैं मणिभद्र नामक
यक्षकी कुमारी हूँ तथा आपके अमात्य धर्मपालके सुत कामपालकी स्त्री हूँ । मेरा नाम
तारावली है । यक्षेश्वर महाराजकी अनुमतिसे मैं इस बालकको आपके समीप आपके पुत्र
राजवाहनकी सेवाके लिए लायी हूँ । कुमार राजवाहन भविष्यमें समुद्रोंसे परिवेष्टित समस्त
भूमण्डलका चक्रवर्ती राजा कीर्तिशाली नरपति होगा । अत एव कामदेवके सदृश अति रम्य
इस बालकका आप लालन-पालन करें । ये सब बातें सुनते ही मैं जाग पड़ी और नेत्रोंको
खोलकर आश्चर्य करने लगी तथा अति विनयसे मैंने उस यक्षिणीका स्वागत किया ।
स्वागतके बाद वह तुरन्त ही वहाँसे अदृश्य होकर चली गयी ।