सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

४४ दशकुमारचरितम् । [ पूर्वपीठिकायां

४४ दशकुमारचरितम् । [ पूर्वपीठिकायां
( ७ ) ते रोषारुणनयना मां बहुधा निरभर्त्सयन् । तेषां भाषणपा-
रुष्यमसहिष्णुरहमवनिसुररक्षणाय चिरं प्रयुध्य तैरभिहतो गतजीवि-
तोऽभवम् ।
( ८ ) ततः प्रेतपुरीमुपेत्य तत्र देहधारिभिः पुरुषैः परिवेष्टितं सभामध्ये
रत्नखचितसिंहासनासीनं शमनं विलोक्य तस्मै दण्डप्रणाममकरवम् ।
सोऽपि मामवेक्ष्य चित्रगुप्तं नाम निजामात्यमाहूय तमवोचत्-‘सचिव,
नैषोऽमुष्य मृत्युसमयः । निन्दितचरितोऽप्ययं महीसुरनिमित्तं गतजीवितोऽ
भूत् । इतः प्रभृति विगलितकल्मषस्यास्य पुण्यकर्मकरणे रुचिरुदेष्यति ।
पापिष्ठैरनुभूयमानमत्र यातनाविशेषं विलोक्य पुनरपि पूर्वशरीरमनेन
गम्यताम्' इति ।
( ७ ) ते पुलिन्दाः । रोषेण क्रोधेन अरुणानि रक्तवर्णानि नयनानि नेत्राणि येष
ते । बहुधा नानाप्रकारेण । निरभर्त्सयन् अतर्जयन् । भाषणपारुष्यं कर्कशवचनानि
असहिष्णुः सोढुमशक्तः । अवनिसुररक्षणाय ब्राह्मणत्राणाय । चिरं दीर्घकालम् ।
प्रयुध्य युद्धं कृत्वा । अभिहतः प्रहतः । गतं जीवितं यस्य सः गतप्राणो मृत इति शेषः ।
( ८ ) प्रेतपुरीं यमालयम् । रत्नैर्मणिभिः खचिते प्रत्युप्ते सिंहासने आसीनमु-
पविष्टम् । शमनं यमराजम् । दण्डप्रमाणं दण्डवन्नमस्कारम् । सोऽपि यमराजोऽपि ।
निजामात्यं स्वमन्त्रिणम् । अमुष्य पुरुषस्य । मृत्युसमयः मरणकालः । निन्दितं
गर्हितं चरितं चरित्रं यस्य सः । महीसुरनिमित्तं ब्राह्मणार्थम् । इतः प्रभृति अद्या-
रभ्य । विगलितं विनष्टं कल्मषं पापं यस्य तस्य । अस्य पुरुषस्य । पुण्यकर्मणां कर-
णेऽनुष्ठाने । रुचिरभिलापः । उदेष्यति उत्पत्स्यते । पापिष्ठैः पापाचारिभिः अनु-
भूयमानं भुज्यमानम् । अत्र यमालये नरके वा । यातनाविशेषं पीडाविशेषम् ।
गम्यतां प्राप्यताम् ।
( ७ ) इस बातपर उन किरातों ने मुझे बहुत डाँटा तथा मारे क्रोधके उनकी आँखे
लाल-लाल हो गयीं । उनकी कटु निर्भर्त्सनाको मैं न सह सका तथा ब्राह्मणकी रक्षाके निमित्त
उनसे लड़कर प्राणोंको त्याग दिया ।
( ८ ) मृत्युके पश्चात् प्रेतपुरीमें गया । वहाँ शरीरधारी पुरुषोंसे परिवेष्टित सभाके
मध्यभागमें रत्नादि-जटित सिंहासनपर आसीन यमराजको देखा और दण्ड-प्रणाम किया ।
उन्होंने भी मुझे देखा और चित्रगुप्त नामके अपने मन्त्रीको बुलाकर कहा- हे चित्रगुप्त
मन्त्रिवर ! इसकी मृत्युका समय अभी नहीं है । यद्यपि इसका आचरण कुत्सित है परन्तु
यह विप्रके लिए मरा है । अतः उस पुण्यसे आजसे इसकी बुद्धि पापाचरणरहित होकर
धर्माचरणवाली होगी । अत एव पापियोंको दी जानेवाली नरक-यातनाको दिखाकर इसे पुनः
इसके पहले शरीरमें ही भेज देना चाहिये ।

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । ४५
( ९ ) चित्रगुप्तोऽपि तत्र तत्र संतप्तेष्वायसस्तम्भेषु बध्यमानान् , अ-
त्युष्णीकृते विततशरावे तैले निक्षिप्यमाणान् , लगुडैर्जर्जरीकृतावयवान् ,
निशितटंकैः परितक्ष्यमाणानपि दर्शयित्वा पुण्यबुद्धिमुपदिश्य माममुञ्चत् ।
तदेव पूर्वशरीरमहं प्राप्तो महाटवीमध्ये शीतलोपचारं रचयता महीसुरेण
परीक्ष्यमाणः शिलायां शयितः क्षणमतिष्ठम् ।
( १० ) ^[मातः स्ववृत्तान्तं राजवाहनं प्रति कथयति] तदनु विदितोदन्तो मदीयवंशबन्धुगणः सहसागत्य मन्दिर-
मानीय मामपक्रान्तव्रणमकरोत् । द्विजन्मा कृतज्ञो मह्यमक्षरशिक्षां विधाय
विविधागमतन्त्रमाख्याय कल्मषक्षयकारणं सदाचारमुपदिश्य ज्ञानेक्षण-
गम्यमानस्य शशिखण्डशेखरस्य पूजाविधानमभिधाय पूजां मत्कृतामङ्गी-
कृत्य निरगात् ।
( ९ ) आयसस्तम्भेषु लौहस्तम्भेषु । विततशरावे विस्तीर्णकटाहे । तत्रस्थे इत्य-
र्थः । लगुडैर्विशदण्डैर्यष्टिभिरिति यावत् । जर्जरीकृताः प्रहारेण शिथिलीकृता अवयवा
अङ्गानि येषां तान् । निशितटङ्कैस्तीक्ष्णपाषाणदारणैः । परितक्ष्यमाणान् तनूक्रिय-
माणान् । रचयता कुर्वता । परीक्ष्यमाणः जीवति वा न वेति दृश्यमानः ।
( १० ) विदितो ज्ञात उदन्तो वृत्तान्तो येन सः मदीयवंशबन्धुगणः मम ज्ञाति-
वर्गः । अपक्रान्ताः चिकित्सिता व्रणाः प्रहारस्थानानि यस्य तम् । द्विजन्मा ब्राह्मणः ।
अक्षरशिक्षां लिपिविज्ञानम् । विविधागमानां नानाशास्त्राणां तन्त्रं सिद्धान्तम् ।
आख्याय उपदिश्य । कल्मषाणां पापानां क्षये नाशे कारणं निमित्तभूतम् । सतामा-
चारं-सज्जनैरुपदर्शितं मार्गम् । ज्ञानेक्षणेन ज्ञाननेत्रेण गम्यमानस्य न तु चक्षुषा
दृश्यस्येत्यर्थः । शशिखण्डशेखरस्य शिवस्य । पूजाविधानं पूजनविधिम् । अङ्गीकृत्य
स्वीकृत्य गृहीत्वेत्यर्थः । निरगात् निर्गतः ।
( ९ ) चित्रगुप्त महोदयने भी मुझे ले जाकर निम्नांकित नरकयातनाएँ दिखायीं ।
वहाँपर मैंने देखा कि यत्र तत्र जीवोंको लोहेके तप्त खम्भोंमें बांधा जा रहा था । कहीं-कहीं
खूब गरम किये तेलके बड़े बड़े कड़ाहि धरे थे जिनमें जीव फेंके जा रहे थे । यत्र तत्र लाठीके
प्रहारोंसे लोगोंके अंग भंग हो रहे थे । कहीं-कहींपर छेनीसे लोगोंको वेधा जा रहा था ।
तब उन्होंने और पापियोंको मुझे दिखाया तथा पुण्य-चरित्रका, पुण्य-बुद्धिके उदयर्थि
उपदेश किया और मुझे छोड़ दिया । पुनः मैं उस शरीरमें आ गया और देखा कि, वही
ब्राह्मण जिसके लिये मैं लड़ा था मेरे मृत शरीरकी शीतोपचारसे रक्षा कर रहा है तथा मेरे
शरीरको एक शिलाके ऊपर सुलाये हुए रखे है । मैं क्षण भर ऐसी दशामें रहा ।
(१०) अनन्तर मेरे वंशके बन्धु-बान्धवगण भी मेरी ऐसी दशा जानकर वहाँपर अचानक
आ पहुँचे तथा मुझे घर ले गये एवं सेवा-शुश्रूषा द्वारा मेरे व्रणोंको अच्छा किया । वह कृतज्ञ
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

४६ दशकुमारचरितम् । [ पूर्वपीठिकायां
( ११ ) तदारभ्याहं किरातकृतसंसर्गं बन्धुवर्गमुत्सृज्य सकललोकैक-
गुरुमिन्दुकलावतंसं चेतसि स्मरन्नस्मिन्कानने दूरीकृतकलङ्को वसामि ।
'देव, भवते विज्ञापनीयं रहस्यं किंचिदस्ति । आगम्यताम्' इति ।
( १२ ) स वयस्यगणादपनीय रहसि पुनरेन मभाषत-'राजन्, अतीते
निशान्ते गौरीपतिः स्वप्नसन्निहितो निद्रामुद्रितलोचनं विबोध्य प्रसन्नवद-
नकान्तिः प्रश्रयानतं मामवोचत्-'मातङ्ग, दण्डकारण्यान्तरालगामिन्या-
स्तटिन्यास्तीरभूमौ सिद्धसाध्याराध्यमानस्य स्फटिकलिङ्गस्य पश्चादद्रिप-
तिकन्यापदपंक्तिचिह्नितस्याश्मनः सविधे विधेशाननमिव किमपि बिलं
( ११ ) किरातैः कृतः संसर्गः सम्बन्धो येन तमिति बन्धुवर्गस्य विशेषणम् ।
उत्सृज्य त्यक्त्वा । सकलस्य लोकस्य संसारस्यैकोऽद्वितीयो गुरुस्तम् । इन्दोः कला
अवतंसः शिरोभूषणं यस्य तं शिवमित्यर्थः । दूरीकृतकलङ्को निष्कलङ्को निष्पाप इति
यावत् । विज्ञापनीयं कथनीयम् । रहस्यं गोप्यम् ।
( १२ ) स मातङ्गः । वयस्यगणात् सुहृन्मण्डलात् अपनीय दूरं नीत्वा । रहसि
निर्जने । एनं राजवाहनम् । अतीते विगते । निशान्ते रात्रिशेषे । स्वप्ने स्वप्नावस्था-
यां संनिहितः समीपमागतः । निद्रया मुद्रिते निमीलिते लोचने यस्य तम् । विबोध्य
जागरयित्वा प्रसन्ना सौम्यमधुरा वदनस्य मुखस्य कान्तिः शोभा यस्य सः । प्रश्रये-
ण विनयेनानतं नम्रशिरसम् । दण्डकारण्यस्य तदाख्यवनस्य अन्तराले मध्ये गामि-
न्या गमनशीलायास्तटिन्या नद्याः । सिद्धैः गुह्यकादिभिः साध्यैः गणदेवताभिश्च
आराध्यमानस्य उपास्यमानस्य । स्फटिकलिङ्गस्य स्फटिकनिर्मितशिवस्य । अद्रिपतेः
हिमालयस्य कन्यायाः पार्वत्याः पदपंक्त्या चरणपद्धत्या चिह्नितस्याङ्कितस्य ।
अश्मनः पाषाणस्य । सविधे समीपे । विधेर्ब्रह्मणः । आननं मुखम् । बिलं विवरं
विप्र मुझे लिपिविज्ञान, नाना शास्त्र, तन्त्रके सिद्धान्त, पापनाशक सदाचार एवं ज्ञानसे भगवान्
शिवकी पूजा-विधिका सदुपदेश देकर तथा मेरे द्वारा दी हुई दक्षिणा आदिको ग्रहण कर
चला गया ।
(११) उसी दिनसे किरातोंके साथ रहनेवाले बान्धवोंको त्यागकर मैं समस्त भुवनोंके एक-
मात्र कारण भगवान् शङ्करकी सेवामें दृढ़ चित्त हो उन्हींको जपता हुआ इस विपिनमें सब
पापोंको छोड़कर रह रहा हूँ । हे देव, आपसे एकान्तमें मुझे कुछ कहना है, अतः यहाँ
आयें और सुनें ।
(१२) सुहृद्-मण्डलसे अलग लेजाकर उसने राजवाहनसे कहा—हे राजन्, गत रात्रिमें
भगवान् शिवने मुझे सोते हुए जगाया तथा कहा—हे मातङ्ग, दण्डकारण्यके मध्यमें होकर
बहनेवाली नदीके तीरपर सिद्ध और गणदेवोंसे आराध्यमान स्फटिक-निर्मित शिवलिंगके पीछे
पार्वती देवीके चरणश्रेणीसे चिह्नित प्रस्तरके समीप ब्रह्माके मुखके सदृश एक विवर है ।

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । ४७
विद्यते । तत्प्रविश्य तत्र निक्षिप्तं ताम्रशासनं शासनं विधातुरिव समादाय
विधिं तदुपदिष्टं दिष्टविजयमिव विधाय पाताललोकाधीश्वरेण भवता
भवितव्यम् । भवत्साहाय्यकरो राजकुमारोऽद्य श्वो वा समागमिष्यति'
इति । तदादेशानुगुणमेव भवदागमनमभूत् । साधनाभिलाषिणो मम
तोषिणो रचय साहाय्यम्' इति ।
(१३) 'तथा' इति राजवाहनः साकं मातङ्गेन नमितोत्तमाङ्गेन विहा-
यार्धरात्रे निद्रापरतन्त्रं मित्रगणं वनान्तरमवाप । तदनु तदनुचराः कल्ये-
साकल्येन राजकुमारमनवलोकयन्तो विषण्णहृदयास्तेषु तेषु वनेषु सम्य-
गन्विष्यानवेक्षमाणा एतदन्वेषणमनीषया देशान्तरं चरिष्णवोऽतिसहि-
ष्णवो निश्चितपुनःसंकेतस्थानाः परस्परं वियुज्य ययुः ।
छिद्रमिति यावत् । तत् बिलम् । निक्षिप्तं स्थापितम् । ताम्रशासनं ताम्रफलकम् ।
शासनमादेशम् । समादाय गृहीत्वा । तत्र ताम्रशासने उपदिष्टं लिखितम् । दिष्टस्य
भाग्यस्य विजयं विजयकारिणम् 'दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिर्'त्य-
मरः । भवतस्तव साहाय्यकारी । श्वः आगामिदिने । तदादेशानुगुणं तदादेशा-
नुरूपम् । साधनाभिलाषिणः तत्कार्यसिद्धिं कामयतः । तोषिणः सन्तुष्टस्य । रचय
कुरु ।
(१३) तथा 'एवमस्तु' इति प्रार्थनां स्वीकृत्येत्यर्थः । नमितोत्तमाङ्गेन नम्र-
शिरसा । विहाय परित्यज्य । मित्रगणमिति शेषः । अर्धरात्रे निशीथे । निद्रापरतन्त्रं
निद्राकुलम् । वनान्तरं अपरं वनम् । कल्ये प्रभाते । 'प्रत्यूषोऽहर्मुखं कल्यमि'त्यमरः ।
साकल्येन सामस्त्येन—सर्वे सर्वत्र अन्विष्यापि इत्यर्थः । विषण्णं खिन्नं हृदयं येषां
ते । अनवेक्षमाणाः अपश्यन्तः । एतस्य कुमारस्य अन्वेषणस्यानुसन्धानस्य मनी-
षया बुद्ध्या । चरिष्णवः भ्रमणशीलाः । अतिसहिष्णवः क्लेशसहनशीलाः ।
निश्चितं निर्णीतं पुनःसंकेतस्थानं पुनःसंगमस्थानं यैस्ते । वियुज्य पृथग्भूय ।
उस विवर (बिल) में प्रविष्ट होकर वहां धरे हुए ताम्रपत्रको ब्रह्माके आदेशके समान ले लो
और उस ताम्रपत्रमें लिखी हुई विधिको सौभाग्यसे प्राप्त विजयकी भांति स्वीकार करो और
तुम पातालाधिपति बन जाओ इस कार्यमें तुम्हारी सहायता करनेवाला एक राजपुत्र आज
कलतक तुम्हारे समीप आ जायगा । भगवान्के आदेशानुसार ही आपका आगमन हुआ है
अतः आप अब मेरी सहायता करें ।
(१३) 'मैं सहायता करूंगा' ऐसा कहकर राजवाहन आधी रातके समय निद्राके वशी-
भूत मित्रवर्गोंको छोड़कर प्रणामार्थ नतमस्तक मातंगके साथ वनान्तरमें चला गया ।
प्रभात समयमें राजवाहनको खोजनेपर भी उसके सेवकोंने न पाया और वे बड़े दुःखी हुए ।
इसके पश्चात् वे लोग उसे खोजने अन्य अरण्योंमें गये । देशान्तरमें खोजनेके लिए जानेवाले