सामग्री पर जाएँ
सर्वकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 44, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 44

४४ दशकुमारचरितम् । [ पूर्वपीठिकायां
( ७ ) ते रोषारुणनयना मां बहुधा निरभर्त्सयन् । तेषां भाषणपा-
रुष्यमसहिष्णुरहमवनिसुररक्षणाय चिरं प्रयुध्य तैरभिहतो गतजीवि-
तोऽभवम् ।
( ८ ) ततः प्रेतपुरीमुपेत्य तत्र देहधारिभिः पुरुषैः परिवेष्टितं सभामध्ये
रत्नखचितसिंहासनासीनं शमनं विलोक्य तस्मै दण्डप्रणाममकरवम् ।
सोऽपि मामवेक्ष्य चित्रगुप्तं नाम निजामात्यमाहूय तमवोचत्-‘सचिव,
नैषोऽमुष्य मृत्युसमयः । निन्दितचरितोऽप्ययं महीसुरनिमित्तं गतजीवितोऽ
भूत् । इतः प्रभृति विगलितकल्मषस्यास्य पुण्यकर्मकरणे रुचिरुदेष्यति ।
पापिष्ठैरनुभूयमानमत्र यातनाविशेषं विलोक्य पुनरपि पूर्वशरीरमनेन
गम्यताम्' इति ।
( ७ ) ते पुलिन्दाः । रोषेण क्रोधेन अरुणानि रक्तवर्णानि नयनानि नेत्राणि येष
ते । बहुधा नानाप्रकारेण । निरभर्त्सयन् अतर्जयन् । भाषणपारुष्यं कर्कशवचनानि
असहिष्णुः सोढुमशक्तः । अवनिसुररक्षणाय ब्राह्मणत्राणाय । चिरं दीर्घकालम् ।
प्रयुध्य युद्धं कृत्वा । अभिहतः प्रहतः । गतं जीवितं यस्य सः गतप्राणो मृत इति शेषः ।
( ८ ) प्रेतपुरीं यमालयम् । रत्नैर्मणिभिः खचिते प्रत्युप्ते सिंहासने आसीनमु-
पविष्टम् । शमनं यमराजम् । दण्डप्रमाणं दण्डवन्नमस्कारम् । सोऽपि यमराजोऽपि ।
निजामात्यं स्वमन्त्रिणम् । अमुष्य पुरुषस्य । मृत्युसमयः मरणकालः । निन्दितं
गर्हितं चरितं चरित्रं यस्य सः । महीसुरनिमित्तं ब्राह्मणार्थम् । इतः प्रभृति अद्या-
रभ्य । विगलितं विनष्टं कल्मषं पापं यस्य तस्य । अस्य पुरुषस्य । पुण्यकर्मणां कर-
णेऽनुष्ठाने । रुचिरभिलापः । उदेष्यति उत्पत्स्यते । पापिष्ठैः पापाचारिभिः अनु-
भूयमानं भुज्यमानम् । अत्र यमालये नरके वा । यातनाविशेषं पीडाविशेषम् ।
गम्यतां प्राप्यताम् ।
( ७ ) इस बातपर उन किरातों ने मुझे बहुत डाँटा तथा मारे क्रोधके उनकी आँखे
लाल-लाल हो गयीं । उनकी कटु निर्भर्त्सनाको मैं न सह सका तथा ब्राह्मणकी रक्षाके निमित्त
उनसे लड़कर प्राणोंको त्याग दिया ।
( ८ ) मृत्युके पश्चात् प्रेतपुरीमें गया । वहाँ शरीरधारी पुरुषोंसे परिवेष्टित सभाके
मध्यभागमें रत्नादि-जटित सिंहासनपर आसीन यमराजको देखा और दण्ड-प्रणाम किया ।
उन्होंने भी मुझे देखा और चित्रगुप्त नामके अपने मन्त्रीको बुलाकर कहा- हे चित्रगुप्त
मन्त्रिवर ! इसकी मृत्युका समय अभी नहीं है । यद्यपि इसका आचरण कुत्सित है परन्तु
यह विप्रके लिए मरा है । अतः उस पुण्यसे आजसे इसकी बुद्धि पापाचरणरहित होकर
धर्माचरणवाली होगी । अत एव पापियोंको दी जानेवाली नरक-यातनाको दिखाकर इसे पुनः
इसके पहले शरीरमें ही भेज देना चाहिये ।