दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 45, कुल 474 में से
संदर्भ में पढ़ेंद्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । ४५
( ९ ) चित्रगुप्तोऽपि तत्र तत्र संतप्तेष्वायसस्तम्भेषु बध्यमानान् , अ-
त्युष्णीकृते विततशरावे तैले निक्षिप्यमाणान् , लगुडैर्जर्जरीकृतावयवान् ,
निशितटंकैः परितक्ष्यमाणानपि दर्शयित्वा पुण्यबुद्धिमुपदिश्य माममुञ्चत् ।
तदेव पूर्वशरीरमहं प्राप्तो महाटवीमध्ये शीतलोपचारं रचयता महीसुरेण
परीक्ष्यमाणः शिलायां शयितः क्षणमतिष्ठम् ।
( १० ) ^[मातः स्ववृत्तान्तं राजवाहनं प्रति कथयति] तदनु विदितोदन्तो मदीयवंशबन्धुगणः सहसागत्य मन्दिर-
मानीय मामपक्रान्तव्रणमकरोत् । द्विजन्मा कृतज्ञो मह्यमक्षरशिक्षां विधाय
विविधागमतन्त्रमाख्याय कल्मषक्षयकारणं सदाचारमुपदिश्य ज्ञानेक्षण-
गम्यमानस्य शशिखण्डशेखरस्य पूजाविधानमभिधाय पूजां मत्कृतामङ्गी-
कृत्य निरगात् ।
( ९ ) आयसस्तम्भेषु लौहस्तम्भेषु । विततशरावे विस्तीर्णकटाहे । तत्रस्थे इत्य-
र्थः । लगुडैर्विशदण्डैर्यष्टिभिरिति यावत् । जर्जरीकृताः प्रहारेण शिथिलीकृता अवयवा
अङ्गानि येषां तान् । निशितटङ्कैस्तीक्ष्णपाषाणदारणैः । परितक्ष्यमाणान् तनूक्रिय-
माणान् । रचयता कुर्वता । परीक्ष्यमाणः जीवति वा न वेति दृश्यमानः ।
( १० ) विदितो ज्ञात उदन्तो वृत्तान्तो येन सः मदीयवंशबन्धुगणः मम ज्ञाति-
वर्गः । अपक्रान्ताः चिकित्सिता व्रणाः प्रहारस्थानानि यस्य तम् । द्विजन्मा ब्राह्मणः ।
अक्षरशिक्षां लिपिविज्ञानम् । विविधागमानां नानाशास्त्राणां तन्त्रं सिद्धान्तम् ।
आख्याय उपदिश्य । कल्मषाणां पापानां क्षये नाशे कारणं निमित्तभूतम् । सतामा-
चारं-सज्जनैरुपदर्शितं मार्गम् । ज्ञानेक्षणेन ज्ञाननेत्रेण गम्यमानस्य न तु चक्षुषा
दृश्यस्येत्यर्थः । शशिखण्डशेखरस्य शिवस्य । पूजाविधानं पूजनविधिम् । अङ्गीकृत्य
स्वीकृत्य गृहीत्वेत्यर्थः । निरगात् निर्गतः ।
( ९ ) चित्रगुप्त महोदयने भी मुझे ले जाकर निम्नांकित नरकयातनाएँ दिखायीं ।
वहाँपर मैंने देखा कि यत्र तत्र जीवोंको लोहेके तप्त खम्भोंमें बांधा जा रहा था । कहीं-कहीं
खूब गरम किये तेलके बड़े बड़े कड़ाहि धरे थे जिनमें जीव फेंके जा रहे थे । यत्र तत्र लाठीके
प्रहारोंसे लोगोंके अंग भंग हो रहे थे । कहीं-कहींपर छेनीसे लोगोंको वेधा जा रहा था ।
तब उन्होंने और पापियोंको मुझे दिखाया तथा पुण्य-चरित्रका, पुण्य-बुद्धिके उदयर्थि
उपदेश किया और मुझे छोड़ दिया । पुनः मैं उस शरीरमें आ गया और देखा कि, वही
ब्राह्मण जिसके लिये मैं लड़ा था मेरे मृत शरीरकी शीतोपचारसे रक्षा कर रहा है तथा मेरे
शरीरको एक शिलाके ऊपर सुलाये हुए रखे है । मैं क्षण भर ऐसी दशामें रहा ।
(१०) अनन्तर मेरे वंशके बन्धु-बान्धवगण भी मेरी ऐसी दशा जानकर वहाँपर अचानक
आ पहुँचे तथा मुझे घर ले गये एवं सेवा-शुश्रूषा द्वारा मेरे व्रणोंको अच्छा किया । वह कृतज्ञ
Nepal Sanskrit University, Balmeeki Campus, Kathmandu