दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
१४० दशकुमारचरितम् । [ उत्तरपीठिकायां
१४० दशकुमारचरितम् । [ उत्तरपीठिकायां
(११) एकदा च रहसि रक्तं तमुपलक्ष्य मूढः खलु लोको यत्सह-
धर्मेणार्थकामावपि गणयति' इति किंचिदस्मयत । 'कथय वासु, केनांशेना-
र्थकामातिशायी धर्मस्तवभिप्रेतः' इति प्रेरिता मरीचिना लज्जामन्थरमार-
भताभिधातुम् - 'इतः किल जनाद्भगवतस्त्रिवर्गबलाबलज्ञानम् । अथवैतदपि
प्रकारान्तरं दासजनानुग्रहस्य । भवतु, श्रूयताम् ।
(१२) ननु धर्मादृतेऽर्थकामयोरनुत्पत्तिरेव । तदनपेक्ष एव धर्मो
निवृत्तिसुखप्रसूतिहेतुरात्मसमाधानमात्रसाध्यश्च । सोऽर्थकामवद्वाह्यसाध-
(११) रक्तमनुरक्तम् । तम् मरीचिम् । मूढः अज्ञः । धर्मेण सहार्थकामा-
वपि गणयति धर्मेण सहार्थकामयोर्गणना नोचितेति भावः । अस्मयत-स्मितम-
करोत् । वासु बाले । सम्बोधनमेतत् । केनांशेन कया विधया । अर्थकामौ अति-
शेते श्रेष्ठत्वेनोल्लंध्य वर्त्तत इति तथा । अभिप्रेतः इष्टः । इति एवं प्रकारेण ।
प्रेरिता अनुयुक्ता पृष्टेति यावत् । लज्जामन्थरं सत्रीडमन्दम् । क्रियाविशेषण-
मिदम् । इतो जनात्-अस्मान्मल्लक्षणाज्जनात् । मत्त इति यावत् । भगवत-
स्तव । त्रिवर्गेति-त्रिवर्गस्य धर्मार्थकामानां बलाबलयोरुत्कर्षापकर्षयोर्ज्ञानम् ।
मादृशजनाद् भवादृशमहर्षेस्त्रिवर्गबलाबलज्ञानमसम्भवमेव । तथापि यद्भवता जिज्ञा-
सितं तदपि मयि भवतोऽनुग्रहस्य चिह्नमिति भावः । भवतु-यथा वाऽस्तु ।
(१२) धर्मादृते-धर्मेण विना । अनुत्पत्तिरभावः । तदनपेक्षः अर्थकामनिर-
पेक्षः । निवृत्तिसुखप्रसूतिहेतुः निवृत्या यत् सुखं तस्य प्रसूतेरुत्पत्तेः हेतुः
कार०म् मोक्षसुखनिदानम् । आत्मेति-आत्मनः स्वस्य समाधानमात्रेणैकाग्रयेण
(११) एक दिन एकान्तमें मुनिको अपने पर आसक्त देख करके उस वेश्याने
सोचा-'यह संसार कितना मूर्ख है कि, जो धर्मके साथ-साथ अर्थ और कामकी भी
गणना करता है।' ऐसा विचार आने पर उसे कुछ विस्मय भी हुआ। इसी समय
महर्षि मरीचिने कहा-'हे बाले ? अर्थ और कामसे भी बढ़ करके धर्मको तुमने क्यों
करके माना ?' तब वह लज्जावश धीरे-धीरे बोली-'इस दासीकी अपेक्षा आपको त्रिवर्ग
(अर्थ-धर्म-काम) का बलाबल ज्ञान अधिक है। अथवा यह भी अपने सेवकों पर कृपा
करनेका एक प्रकारान्तर है। अच्छा सुनिए ।
(१२) धर्मके विना अर्थ और कामकी उत्पत्ति ही नहीं हो पाती। इसलिए कहा
जा सकता है कि, धर्म काम और अर्थकी अपेक्षा नहीं करता, यह धर्म ही निवृत्ति
सुखकी उत्पत्तिका मूल कारण है और चित्तकी एकाग्रता मात्रसे यह सिद्ध हो जाता है
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १४१
नेषु नात्यायतते । तत्त्वदर्शनोपबृंहितश्च यथाकथंचिदप्यनुष्ठीयमानाभ्यां
नार्थकामाभ्यां बाध्यते । बाधितोऽपि चाल्पायासप्रतिसमाहितस्तमपि
दोषं निर्हृत्य श्रेयसेऽनल्पाय कल्पते ।
( १३ ) तथाहि पितामहस्य तिलोत्तमाभिलाषः, भवानीपतेर्मुनिपत्नी-
सहस्रसंदूषणम् , पद्मनाभस्य षोडशसहस्रान्तःपुरविहारः, प्रजापतेः
स्वदुहितर्यपि प्रणयप्रवृत्तिः, शचीपतेरहल्याजारता, शशाङ्कस्य गुरुतल्प-
गमनम् , अंशुमालिनो वडवालङ्घनम् , अनिलस्य केसरिकलत्रसमागमः,
साध्यः सम्पाद्यः । सः धर्मः । बाह्यसाधनेषु लोकव्यवहारेषु । अत्यायतते
आयत्तो भवतीत्यर्थः । तत्त्वदर्शनेन यथार्थविचारेण उपबृंहितो वर्द्धितो धर्मः
कथंचिदपि—केनापि प्रकारेण । अनुष्ठीयमानाभ्यां सेव्यमानाभ्याम् । बाध्यते
प्रतिहन्यते । अल्पायासेन स्वल्पप्रयत्नेन प्रतिसमाहितः समाधानं प्रापितः ।
निर्हृत्य दूरीकृत्य । अनल्पाय श्रेयसे मोक्षाय । कल्पते समर्थो भवति ।
( १३ ) तथाहि—यथा ब्रह्मादयो देवा अर्थकामाभ्यां प्रतिहतेऽपि धर्मे पुनर-
प्यल्पायासेन तं दोषं परिहृत्य निरतिशयसुखं लब्धवन्तस्तदेवोदाहरणमुखेन प्रद्-
र्श्यत इत्यर्थः । पितामहस्य ब्रह्मणः । तिलोत्तमा काचिदप्सराः । भवानीपतेः
शिवस्य । संदूषणमुपभोगः । पद्मनाभस्य श्रीकृष्णस्य । अन्तःपुरं स्त्रीवर्गः ।
प्रजापतेः विधातुः । स्वदुहितरि निजकन्यायाम् । शचीपतेरिन्द्रस्य । शशाङ्कस्य
चन्द्रस्य । गुरुतल्पगमनं बृहस्पतिपत्नीधर्षणम् । 'तल्पं शय्यादृद्दारेष्वि'ति कोषः ।
अंशुमालिनः सूर्यस्य । वडवा अश्वी । अनिलस्य वायोः । केसरिकलत्रेति-केस-
रिणस्तन्नामकवानरस्य कलत्रं स्त्री अञ्जनी नाम्नी तया सह समागमः सङ्गमः ।
धर्म, अर्थ और कामकी तरह बाह्य साधनोंके अधीन नहीं रहता । तत्त्वज्ञानसे उत्कर्षको
प्राप्त धर्म किसी भी तरह यदि अर्थ और कामका अनुष्ठान करनेपर भी उनसे बाधित
हो भी जाय तो, यह तनिकसे प्रयाससे समाहित हो करके उस दोषको भी नष्ट करके
विपुल श्रेयका कारण बन जाता है ।
( १३ ) और फिर पितामहका तिलोत्तमापर मोहित होना, शिवजीका हजारों मुनि-
पत्नियोंका धर्म बिगाड़ना, श्रीकृष्णका सोलह हजार स्त्रियोंके अन्तःपुरमें विहार करना,
प्रजापतिका अपनी कन्यापर बुरी दृष्टि करना, इन्द्रका अहल्याके साथ दुराचार करना,
चन्द्रमाका गुरुपत्नीको दूषित करना, सूर्यका वडवा (घोड़ी) का धर दबोचना, वायुका
केसरी वन्दरकी पत्नीसे समागम करना, बृहस्पतिका उतथ्यकी पत्नीसे अभिसार करना.
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
बृहस्पतेरुतथ्यभार्याभिसरणम्, पराशरस्य दाशकन्यादूषणम्, पाराशर्यस्य
भ्रातृदारसङ्गतिः, अत्रेर्मृगीसमागम इति ।
(१४) अमराणां च तेषु तेषु कार्येष्व्ऽासुरविप्रलम्भनानि ज्ञानबलान्न
धर्मपीडामावहन्ति । धर्मपूते च मनसि नभसीव न जातु रजोऽनुषज्यते ।
तन्मन्ये नार्थकामौ धर्मस्य शततमीमपि कलां स्पृशतः इति ।
(१५) श्रुत्वैतदृषिरुदीर्णरागवृत्तिरभ्यधात्—'अयि विलासिनि, साधु
पश्यसि न धर्मस्तत्त्वदर्शिनां विषयोपभोगेनोपरुध्यत इति । किंतु जन्मनः
उतथ्यो नाम बृहस्पतेरग्रजः । पराशरस्य व्यासपितुः । दाशकन्या कैवर्त्तदुहिता
योजनगन्धेति प्रसिद्धा । पाराशर्यस्य व्यासस्य । पराशरस्यापत्यं पुमानिति गर्गा-
दिभ्यो यञ् । तस्य भ्राता विचित्रवीर्यस्तस्य दारेषु पत्नीषु संगतिः समागमः ।
अत्रेस्तदाख्यमहर्षेः ।
(१४) अमराणां देवानाम् । आसुरविप्रलम्भनानि अकृत्याचरणानि । ज्ञान-
बलाद् ज्ञानोत्कर्षात् । धर्मपीडां धर्मबाधाम् । आवहन्ति जनयन्ति । नभसि
आकाशे । जातु कदाचित् । रजो रजोगुणः धूलिश्च । अनुषज्यते सम्बध्यते ।
तन्मन्य इत्यादि-अर्थकामौ धर्मस्य शततमांशेनापि समानौ न भवितुमर्हत इति मां
प्रतिभातीत्यर्थः ।
(१५) एतत्-काममञ्जर्युक्तम् । ऋषिमरीचिः । उदीर्णा उद्रिक्ता वृद्धिं गतेति
यावत् । रागवृत्तिरनुरागव्यापारः कामाभिलाष इति वा यस्यासौ । अभ्यधात् कथया-
मास । अयि विलासिनीति सम्बोधनेन स्वानुरागप्रकटनम् । साधु सम्यक् । पश्यसि
विचारयसि । तत्त्वदर्शिनां तत्त्वसाक्षात्कारवताम् । उपरुध्यते क्षीयते । जन्मनः
प्रभृति-आजन्म । अर्थकामवार्त्तानभिज्ञाः अर्थकामयोर्नामापि न जानीम इति
महर्षि पराशरका धीवरकी कन्याके साथ दुराचार करना, व्यासदेवका अपने भाईकी
स्त्रियोंके साथ समागम करना और अत्रिभगवानका मृगीके साथ संभोग करना आदि ।
(१४) इस प्रकार देवताओंके दुराचार भी ज्ञानबलसे युक्त पुरुषोंको नहीं सताते ।
धर्मसे पुनीत मनमें रजोगुणका समावेश उसी तरह नहीं हो पाता जैसे आकाशमें धूल
नहीं रुकती । अत एव मेरा तो, विश्वास है कि, अर्थ और काम धर्मकी सौवीं कलाको
भी नहीं पहुँच सकते ।
(१५) इन बातोंको सुन करके मुनिराजकी इच्छाशक्ति प्रबल हो उठी और
उन्होंने कहा-'ओ विलासिनि ! तुम्हारा कथन यथार्थ है । यह सच है कि, तत्त्व-
ज्ञानी पुरुषोंका धर्म विषय-भोगसे नष्ट नहीं होता । लेकिन, जन्मसे लेकर आजतक
द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १४३
प्रभृत्यर्थकामवार्तानभिज्ञा वयम् । ज्ञेयौ चेमौ किंरूपौ किंपरिवारौ किंफलौ
च' इति ।
( १६ ) सा त्ववादीत् —'अर्थस्तावदर्जनवर्धनरक्षणत्मकः, कृषिपाशु-
पाल्यवाणिज्यसन्धिविग्रहादिपरिवारः, तीर्थप्रतिपादनफलश्च । कामस्तु
विषयातिसक्तचेतसोः स्त्रीपुंसयोनिरतिशयसुखस्पर्शविशेषः । परिवार-
स्त्वस्य यावदिह रम्यमुज्ज्वलं च । फलं पुनः परमाह्लादनम् , परस्पर-
भावः । ज्ञेयौ-ज्ञातव्यौ । इमौ-अर्थकामौ । किंरूपौ कीदृशस्वरूपौ । किंपरिवारौ-
अनयोरङ्गभूतानि कानीत्यर्थः । केन प्रकारेणेमौ साध्याविति भावः । किंफलौ-
अनयोः परिणामः कीदृश इत्यर्थः ।
( १६ ) सा-काममञ्जरी । अर्जनेति-अर्जनमुपार्जनं सम्पादनमिति यावत् ।
वर्धनं उपचयः । रक्षणं चौरादिभ्यः पालनमेतत्स्वरूपोऽर्थ इति । कृषीति-
कृषिः कर्षणं पाशुपाल्यं गवादिपशुपालनम् वाणिज्यं वणिक्कर्म क्रयविक्रयादि,
सन्धिविग्रहौ राजनीत्युक्तौ एते परिवाराः परिकराः साधनानीति यावद् यस्य सः ।
तीर्थेति-तीर्थे सत्पात्रे प्रतिपादनं दानं फलं परिणामो यस्य सः । विषयेति-
विषयेषु स्रक्चन्दनाद्युपभोग्यपदार्थेषु अतिसक्तम् अत्यन्तलग्नं चेतो मानसं ययो-
स्तथाविधयोः । स्त्री च पुमांश्चेति स्त्रीपुंसौ । 'अचतुर' इत्यादिना निपातात् ।
निरतिशयेति-श्रेष्ठसुखसाक्षात्कारस्वरूपः आलिङ्गनादिरूप इत्यर्थः । अस्य कामस्य ।
यावत् साकल्येन । इह संसारे । रम्यं मनोहरमुज्ज्वलमुत्कृष्टञ्च । संसारे यावन्तो
रमणीया उत्कृष्टाश्च पदार्थाः सन्ति सर्व एव ते कामस्य परिवारा इति भावः ।
परमाह्लादनं उत्कृष्टानन्दजनकम् । परस्परविमर्दजन्म-अन्योन्यालिङ्गनादिजन्यम् ।
हमलोग अर्थ और कामकी बातोंसे अनभिज्ञ रहते आये हैं । इसलिए यह जानना
आवश्यक है कि, इनका क्या स्वरूप है, इनके कौन-कौनसे परिवार हैं और इनका क्या
फल है?'
( १६ ) उस वेश्याने कहा—'अर्जन ( संचय ) वर्धन ( व्यापार आदिके द्वारा
उसे बढ़ाना ) और उसे नष्ट होनेसे बचाना ही अर्थका तत्त्व है । कृषि ( खेती ),
पशुपालन, व्यापार, सन्धि और विग्रह, ये ही अर्थके परिवार हैं । सत्पुरुषोंको दान
देना ही अर्थका फल है । स्त्री-पुरुष वासनावश परस्पर अत्यन्त आसक्त चित्तसे
जिसमें स्पर्श-सुखका अनुभव करते हैं, उसे काम कहते हैं । रमणीयता और उज्ज्वलता
ही इसके परिवार हैं । इस कामका फल परमानन्द है । वह आनन्द स्त्री-पुरुषके