सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

कॉपीराइट समस्या बताएँ

DevanagariHindipublished474 पृष्ठ

४०२ दशकुमारचरितम् । [ उत्तरपीठिकायां

पृष्ठ 402
स्थायी लिंक
पृष्ठ 402 स्कैन

४०२ दशकुमारचरितम् । [ उत्तरपीठिकायां
संशयः । तच्चेदिच्छस्यनेकशास्त्रज्ञानधीरधिषणैरधिकृतैरितरैश्च हितैषि-
गणैराकलप्य जालिकशतं चानाय्य, अन्तरङ्गनरशतैर्यथेष्टदृष्टान्तरालं सरः
क्रियते, रक्षा च तीरात्त्रिंशद्दण्डान्तराले सैनिकजनेन सादरं रचनीया ।
कस्तत्र तज्जानाति यच्छिद्रेणारयश्चिकीर्षन्ति' इति ।
(१७) तत्त्वस्य हृदयहारि जातम्, तदधिकृतैश्च तत्र कृत्ये रन्ध्रदर्श-
नासहैरिच्छां च राज्ञः कन्यकातिरागजनितां नितान्तनिश्चलां निश्चित्यार्थ
अनेकशास्त्राणां ज्ञानेनाभ्यासेन धीरा अविचलिता धिषणा बुद्धियेषां तैस्तादृशैः
अधिकृतैः तव सचिवादि कार्याधिकारिभिः । इतरैरन्यैश्च हितैषिगणैः तव हिता-
कांक्षिभिः । आकलप्य-तैः सह विचार्य । जालिकशतं-जालोपजीविधीवरवर्गम् ।
आनाय्य आकार्य संगृह्येति यावत् । अन्तरङ्गेति-अन्तरङ्गाणामात्मीयानां
नराणां शतम् । यथेष्टेति-यथेष्टं यथाकामं दृष्टं परीक्षितमन्तरालं मध्यभागो यस्य
तथाभूतम् । सरः जलाशयः । रक्षा चेति-तीरात् तटप्रदेशात् त्रिंशद्दण्डान्तराले-
दण्डश्चतुर्हस्तप्रमाणो लगुडविशेषः त्रिंशत्परिमित्तानां दण्डाना मन्तराले व्यवधाने
तीरात् विशत्यधिकशत हस्तपरिमित दूरवर्त्तिनि स्थाने इत्यर्थः सादरं सावधानं
सैनिकजनेन रक्षा रक्षास्थानं रचनीया करणीया । कथमिति चेत्-तदाह यद्
छिद्रेण रन्ध्रेणारयः शत्रवः चिकीर्षन्ति कर्तुमिच्छन्ति तत् को ज्ञातुं प्रभवेत् अतः
सर्वतो रक्षा विधातव्येति ।
(१७) तत् महद्वचनम् । तु-किन्तु । अस्य जयसिंहस्य । हृदयहारि मनो
मतम् । तदधिकृतैः राज्याधिकारिवर्गैः । तत्र कृत्ये तस्मिन् जलप्रवेशेन रूपान्तर-
प्राप्तिरूपकर्मणि । रन्ध्रदर्शनासहैः दोषावलोकनाक्षमैः । इच्छां कन्याप्राप्त्य-
भिलाषम् । कन्यकायामतिरागेण अत्यन्तप्रेम्णा जनितमुत्पादिताम् तथा नितान्त-
निश्चलाम् । अतिदृढाम् । विशेषणद्वयं इच्छायाः । निश्चित्य-अवधार्य । अर्थः
कर लीजिये । फिर जालोपजीवी ( धीवर ) वर्गोंको एकत्र करके तथा अपने आत्मीय
जनोंसे तालाबके अन्तरालको यथारुचि परीक्षित कराकर, तालाबके तीरसे १२० हाथकी
दूरीपर सावधानीपूर्वक अपने सैनिकोंसे रक्षा कराकर तालाबमें प्रवेश करियेगा । क्योंकि-
यह कौन जान सकता है कि, शत्रु कहाँ पर है । वे शत्रुगण सुराखमें से प्रवेश कर लेते हैं ।
(१७) यह राय उस राजाके मनको हरणकर्त्री हुई । उस राजाके अधीनस्थ
सेवकगणोंद्वारा उस जलप्रवेशका निषेध नहीं किया गया । क्योंकि वे लोग जान
गये थे कि राजाका उस राजपुत्रीपर उत्पन्न प्रेम अति दृढ है । ऐसा निश्चय करके

पृष्ठ 403
स्थायी लिंक
पृष्ठ 403 स्कैन

सप्तमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ४०३
एष न निषिद्धः । तथास्थितश्च तदासादनदृढतराशयश्च स आख्यात—
राजन् , अत्र ते जनान्ते चिरं स्थितम् , न चैकत्र चिरस्थानं नः शस्तम् ।
कृतकृत्यश्चेह न द्रष्टासि । यस्य ते राष्ट्रे ग्रासाद्यासादितं यस्य ते किंचिद-
नाचर्य कार्यं गतिरार्यगर्ह्या' इति । तत्रैतच्चिरस्थानस्य कारणम् । तच्चाद्य
सिद्धम् । गच्छ गृहान् । यथार्हजलेन हृद्यगन्धेन स्नातः सितस्रगङ्गरागः श-
क्तिसदृशेन दानेनाराधितधरणितलतैतिलगणस्तिलस्नेहसिक्तयष्ट्यग्रग्रथित-
विषयः । न निषिद्धः न निवारितः । तथास्थितः तथा कर्तुं प्रतिज्ञातः । तदासाद-
नेति-तस्याः'कन्याया आसादने प्राप्तौ दृढतरः द्रढीयान् आशयोऽभिप्रायो यस्या-
सौ । सः जयसिंहः । आख्यात कथितोऽभवत् मयेति शेषः । ते तव । जनान्ते
जनपदे । चिरं दीर्घकालं यावत् । स्थितं-वासः कृतो मयेति शेषः । एकत्र एक-
स्मिन् स्थाने । चिरस्थानं दीर्घकालमवस्थानम् । नः अस्माकं संन्यासिनामि-
त्यर्थः । शस्तं प्रशस्तं नेति सम्बध्यते । कृतकृत्यः; सफलप्रयोजनत्वं इहास्मिन्
स्थाने न द्रष्टासि नावलोकयिष्यसि मामिति शेषः । नाहमत्र स्थास्यामीति भावः ।
राष्ट्रे राज्ये । ग्रासादि भोजनादि । आसादितं-मया लब्धं तस्य तादृशस्य तव कार्यं
प्रयोजनं अनाचर्य असम्पाद्य गतिरन्यत्रगमनम् आर्यगर्ह्या सज्जननिन्दनीया
अनुचितेत्यर्थः । तत्रस्थाने चिरस्थानस्य एतदेव कारणं नान्यदित्यर्थः । तच्च
कार्यम् । सिद्धं सम्पन्नम् । यथार्हं जलेन राजस्नानोचितसलिलेन हृद्यगन्धेन मनो-
हरगन्धशालिना इदं जलेनेत्यस्य विशेषणम् । सितेति-सितौ शुभ्रौ स्रक् माल्यं
अङ्गरागश्च यस्य सः । शुभ्रमाल्यधरः शुभ्रानुलेपनश्चेत्यर्थः शक्तिसदृशेन साम-
र्थ्यानुसारेण । दानेन दानं कृत्वा । आराधितेति-आराधिताः सेविताः धरणि-
उन लोगोने उस कार्यका निषेध न किया और वे राजसेवक उस तालाबके दोष देखनेमें
असमर्थ थे । जब मैने देखा कि वह राजा तालाबमें प्रवेश करनेमें कटिवद्ध है और उस
राजपुत्रीकी प्राप्तिके लिये सन्नद्ध है, तथा मैंने कहा-'हे राजन् ! आपके इस नगरमें
मैं बहुत समयतक बसा । हम संन्यासियोंका एक ही स्थानमें दीर्घकालतक बास करना
अनुचित है । कृतकृत्य होनेपर आप मुझे यहां नहीं देखेंगे । आपके इस राष्ट्रमें मैंने
भोजन आदि प्राप्त किया था, यदि आपके कार्यको असम्पादित किये बिना मैं, यहांसे
चला जाता तो, अनुचित कार्यका कर्त्ता होता । अतः आपके कार्यके सम्पादनार्थ मैं
इस राष्ट्रमें दीर्घकालतक रहा । आपका वह कार्य आज सम्पादित हो गया । अब आप घर
जायँ । और राजोचित सुगन्धित जलसे स्नान करें । सफेद माला तथा चन्दन आदि
यथाक्रम धारण करें । अपन सामर्थ्यके अनुसार दान करें । ब्राह्मणोंकी पूजा करें। पुनः
तिलके तेलसे भींगे हुए कपड़ेकी बत्तियोंको बांसोंके दण्डोंके अग्रभागमें लपेटकर

पृष्ठ 404
स्थायी लिंक
पृष्ठ 404 स्कैन

वर्तिकाग्निशिखासहस्रप्रस्तनैशान्धकारराशिरगत्यार्थसिद्धये यतेथाः' इति ।
( १८ ) स किल कृतज्ञतां दर्शयन्—'असिद्धिरैषा सिद्धिः, यदसन्नि-
धिरिहार्याणाम् । कष्टा चेयं निःसङ्गता, या निरागसं दासजनं त्याजयति ।
नच निषेधनीया गरीयसां गिरः' इति स्नानाय गृहानयासीत् । अहं च नि-
र्गत्य निर्जने निशीथे सरस्तीररन्ध्रनिलीनः सन्नीषच्छिद्रदत्तकर्णः स्थितः ।
तलस्य भूतलस्य तैतिलगणाः देवाः ब्राह्मणा इत्यर्थः येनासौ । कृतब्राह्मणपूजः
इत्यर्थः । तिलस्नेहेति—तिलस्नेहेन तिलतैलेन सिक्तानां आर्दीकृतानां यष्ट्यग्रेषु
दण्डाग्रेषु प्रथितानां प्रोतानां वर्तिकानां दीपद्शानां अग्निशिखासहस्रेण अग्निज्वाला
समूहेन ग्रस्तो ध्वस्तः नैशान्धकारराशिः रजनीतिमिरसङ्घो येनासौ । आगत्य-
सरस्तटमिति शेषः । अर्थसिद्धये स्वप्रयोजनसम्पादनाया यतेथाः प्रयत्नं कुर्याः ।
( १८ ) स जयसिंहः । कृतज्ञतां स्वकृतज्ञभावं दर्शयन् प्रकाशयन् गृहानया-
सीदित्यग्रिमेणान्वयः । असिद्धिरित्यादि—एषा सिद्धिः मदभीष्टलाभः असिद्धिरलाभ
एव, यत्-यतः आर्याणां भवादृशां महापुरुषाणामिह अस्मिन् स्थाने असन्निधि-
रसन्निधानम् अनवस्थानमिति यावत् । मत्प्रयोजनसिद्धौ सत्यामपि भवतोऽन्यत्र
गमनान्न सा सिद्धिर्मे रोचते इति भावः । इयमीदृशी निःसङ्गता—भवत्सङ्गरहि-
त्यम् । कष्टा—दुःखदायिनी । या निःसङ्गता । निरागसं निरपराधं दासजनं सेवकं
मामिति शेषः त्याजयति दूरीकरोति । गरीयसां गुरूणां गिरः वचनानि । गुरूणां
वाक्यानि न लङ्घनीयानि अतो नाहं भवन्तं प्रतिरुणध्मि इति भावः । इति-
एवमुक्त्वा । स्नानाय-स्नातुम् । अहं-मन्त्रगुप्तः । निशीथे अर्धरात्रे । सरस्तीरेति-
सरस्सतीरे यद् रन्ध्रं बिलं तत्र निलीनो गुप्तः । ईषदिति ईषच्छिद्रे स्वल्परन्ध्रे दत्तौ
हजारों अग्निशिखासे रातका अन्धकार दूर करें । और अपने अर्थसिद्धिका प्रयत्न करें ।
( १८ ) उस राजाने कृतज्ञता प्रकाशित करते हुए कहा—'यह लाभ मुझे इस समय
अलाभके समान प्रतीत होता है, क्योंकि, इस अवसर पर आपका रहना न
होगा । आपके संगसे रहित होना कष्टप्रद है । हाय ! निःसंगताके कारण निरपराधी
सेवकका (मेरा) आपसे वियोग हो जायगा । गुरुजनोंकी वाणीका लङ्घन नहीं
करना चाहिये (इसलिए मैं आपको रोक भी नहीं सकता ) ।' इस प्रकार कहकर
स्नानके लिये घर चला गया । मैं ( मन्त्रगुप्त ) भी सूनी आधी रातमें उस
कुटीसे निकलकर तालाबके तीरवाले बिल ( छेद ) में प्रविष्ट होकर छोटे छेदमें
कान लगाकर बैठ गया । आधी रातके समय वह राजा, मुझसे उपदेशित क्रियाओंको
करके स्थान-स्थान पर रक्षक पुरुषोंको नियुक्त करके, अनेकों धीवरोंको लाकर,
उस तालाबके अन्तःप्रदेशके शल्यों ( कांटों ) को निकलवाकर उस तालाबके जलमें

पृष्ठ 405
स्थायी लिंक
पृष्ठ 405 स्कैन

सप्तमोच्छ्वासः । बालबोधिनीव्याख्यासहितम् । ४०५
स्थिते चार्धरात्रे कृतयथादिष्टक्रियः स्थानस्थानरचितरक्षः स राजा जाल-
कजनानानीय निराकृतान्तःशल्यं शङ्काहीनः सरःसलिलं सलीलगतिरगा-
हत गतं च कीर्णकेशं संहतकर्णनासं सरसस्तलं हास्तिनं नक्रलीलया
नीरातिनिलीनया तं तथा शयानं कन्धरयां कन्थया न्यग्रहीषम् । खर-
तरकालदण्डसंघट्टनातिचण्डैश्च करचरणघातैर्निर्दयदत्तनिग्रहः क्षणेनैकेना-
जहात्स चेष्टाम् । ततश्चाकृष्य तच्छरीरं छिद्रं निधाय नीरान्निर्यासिषम् ।
( १६ ) सङ्गतानां च सैनिकानां तदत्यचित्रियताकारान्तरग्रहणम् ।
कर्णौ येन तादृशः । स्थिते अवशिष्टे । कृतेति—कृता अनुष्ठिता यथादिष्टा मत्व-
थनानुरूपा क्रिया येनासौ । स्थानेति-स्थाने अनेकेषु स्थानेषु रचिता कृता रक्षा
रक्षिपुरुषसंस्थापनं येनासौ । राजा जयसिंहः । निराकृतेति—निराकृतं दूरीकृतं
परीक्ष्य शोधितमिति यावत् अन्तःशल्यं जलमध्यस्थविघ्नो यस्य तादृशं सरः
सलिलम् । सलीलगतिः सविलासगमनः । अगाहत प्राविशत् । गतमित्यादि—
कीर्णकेशं कीर्णा विक्षिप्ताः केशा मूर्द्धजा यस्मिन् कर्मणि तद् यथा तथा, संहत-
कर्णनासं—कर्णौ च नासे चेति कर्णनासं प्राण्यङ्गत्वादेकवद्भावः संहतं पिहितं
कर्णनासं यस्मिन् कर्मणि तद् यथा तथा । एतत्पदद्वयं गतमिति क्रियाया विशेष-
णम् । हास्तिनं-हस्तिप्रमाणकं—हस्ती प्रमाणमस्येति अण्प्रत्ययः । सरसस्तलं
गतं प्रविष्टं, तथा पूर्वोद्दिष्टानुसारेण शयानं सुप्तम् तं जयसिंहं ग्रीवायां कन्थरायां
नक्रलीलया नक्रस्य मकरस्येव लीला तया-नक्रवदित्यर्थः नीरातिनिलीनया नीर
सलिले अतिनिलीनया अत्यन्तनिमग्नया कन्थया प्रावरणविशेषेण न्यग्रहीपं
निगृहीतवानहमिति शेषः । खरतरेति—खरतरोऽतितीक्ष्णः यः कालदण्डो यम-
दण्डस्तस्य यत्सङ्घट्टनं सङ्घर्षस्तद्वत् अतिचण्डैः अतिभीषणैः । करचरणघातः
हस्तपादप्रहारैः । निर्दयैति—निर्दयं यथा तथा दत्तो निग्रहो निकारो यस्यासौ ।
स जयसिंहः चेष्टां अजहात् अम्रियत । ततः—सरस्तलात् । आकृष्य बहिष्कृत्य ।
छिद्रे पूर्वकृतरन्ध्रे । निधाय संस्थाप्य । निर्यासिषम्-निर्गतोऽभवम् ।
( १९ ) सङ्गतानां तत्रोपस्थितानाम् । तदाकारान्तरग्रहणं अन्याकारप्राप्तिः ।
विलासयुक्त प्रविष्ट हुआ । राजा अपने बालोंको खोलकर, कान-नाक बन्दकर
हस्तिप्रमाण जलमें सो गया । तब मैने उस सोनेवाले राजाके गलेको पानीमें अत्यन्त
गुप्त मगरकी लीलासे कन्धा कन्था द्वारा पकड़ लिया । तदनन्तर अत्यन्त तीक्ष्ण कालदण्ड
के संघटनके समान अति भीषण अपने हाथ-पैरोंके आघातसे उस राजाको खूब मारा
जिससे उस जयसिंहने एक क्षणमें ही अपनी लीला समाप्त कर दी ( मर गया ) ।
फिर उसके शरीरको ले जाकर उसी छेदमें रख दिया और मै जलसे बाहर आ गया ।
( १९ ) वहांपर उपस्थित सैनिकोंने रूप-परिवर्त्तन देखकर अत्यन्त आश्चर्य प्रकट-

४०६ दशकुमारचरितम् । [ उत्तरपीठिकायां

पृष्ठ 406
स्थायी लिंक
पृष्ठ 406 स्कैन

४०६ दशकुमारचरितम् । [ उत्तरपीठिकायां
गजस्कन्धगतः सितच्छत्रादिसकलराजचिह्नराजितश्चण्डतरदण्डिदण्डता-
डनत्रस्तजनदत्तान्तरालया राजवीथ्या यातस्तां निशां रसनयननिरस्त-
निद्रारतिरनैशम् । नीते च जनाक्षिलक्ष्यतां लाक्षारसदिग्धदिग्गजशिरः-
सदृक्षे शक्रदिगङ्गनारत्नादर्शोऽर्कचक्रे कृतकरणीयः किरणजालकरालरत्नरा-
जिराजितराजार्हासनाध्यासी यथासदृशा वारदर्शिनःशङ्कायन्त्रिताङ्गान्सन्नि-
अस्यचित्रीयत-अस्याश्चर्यजनकमभवत् । गजस्कन्धगतः हस्तिशिरःस्थितः । सितेति
सितच्छत्रादि येषां तानि सितच्छत्रादीनि श्वेतातपत्रप्रभृतीनि यानि सकलानि
निखिलानि राजचिह्नानि नृपलक्षणानि तैः राजितः शोभितः । विशेषणद्वयं अह-
मित्यस्य मन्त्रगुप्तवाक्यस्य । चण्डतरेति-चण्डतराणामतिप्रचण्डानां दण्डिनां
दण्डधारिदौवारिकाणां दण्डैर्लगुडैस्ताडनेन प्रहारेण त्रस्ता भीता ये जनास्तैर्दत्त-
मन्तरालमवकाशो यस्यां तया । राजवीथ्या राजमार्गॆण । यातश्चलितः । अहमिति
शेषः । रसेति-रसेन अत्यधिकानन्दे कनकलेखानुरागेण वा नयनाभ्यां-पञ्चमी-
द्विवचनमेतत्-निरस्ता अपगता निद्रारतिः शयनप्रीतिः यस्य तादृशोऽहम् अनै-
षम् अत्यवाहयम् निशामिति पूर्वोक्तेनान्वयः। नीते चेत्यादि-लाक्षारसेन याव-
केन दिग्धमनुलिप्तं यद् दिग्गजस्य दिङ्मातङ्गस्य शिरो मस्तकं तत्सदृशे तत्सम्ये
रक्तवर्णे इति भावः, शक्रस्य दिक् पूर्वाशा-सैवाङ्गना कामिनी तस्या रत्नादर्शे मणि-
दर्पणस्वरूपे अर्कचक्रे सूर्यमण्डले जनाक्षिलक्ष्यतां नरनयनगोचरतां नीते प्रापिते
सति-सूर्ये उदिते सतीत्यर्थः। कृतकरणीयः विहितनित्यक्रियः। किरणजालेति-
किरणजालेन मयूखमण्डलेन कराला व्याप्ता या रत्नराजिः रत्नसमूहस्तया राजितं
शोभितं यद् राजाहं राज्योग्यमासनं तदध्यास्ते इति तच्छीलः । अहमिति शेषः ।
यथेति-यथासदृशं स्वस्वाधिकारोचितं आचारं राजमर्यादादिकं दर्शयन्ति ये
तान्। शङ्केति-शङ्कया-यथा राज्ञः आकृतिपरिवर्त्तनं जातं तथैव प्रकृतेरपि
क्रिया । हाथीके ऊपर चढ़कर सफेद छत्र आदि सभी राजचिन्होंसे सुशोभित मै
राजमार्गसे चला । उस राजमार्गको अत्यन्त प्रबल दण्डधारी सेवकगण आगे आगे
दण्डोंके प्रहार द्वारा जनोंको भय दिखाकर खाली करा देते थे। उस रात कनकावतीके
प्रबलानुरागसे मुझे आँखोंमें निद्रा न आयी-वह रात मैंने जागकर बिता दी। प्रभातमें
जब लाक्षारससे परिन्याप्त हुए दिग्गजोंके मस्तकोंके तुल्य, इन्द्रकी दिशा-( पूर्वदिशा-)
रूपी अंगनाके मणिदर्पणके सदृश, सूर्यमण्डल लोगोंकी आखोंके सामने लक्षित हुआ।
उस समय मै नित्यक्रियासे निवृत्त होकर, किरणजालसे परिपूर्ण एवं रत्नराशिसे देदी-
प्यमान, राजाओंके अनुरूप श्रेष्ठ (सिंहासन) पर आरूढ़ होकर बैठा । उस समय
यथानुरूप अपने नियमाचरणोंको प्रदर्शित करनेवाले, भयसे शरीरोंको संकुचित

पृष्ठ 407
स्थायी लिंक
पृष्ठ 407 स्कैन

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF

सप्तमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ४०७

धिनिषादिनः सहायानगादिषम्—'दृश्यतां शक्तिरार्षी, यत्तस्य यतेर-
जेयस्येन्द्रियाणां संस्कारेण नीरजसा नीरजसांनिध्यशालिनि सहर्षालिनि
सरसि सरसिजदलसन्निकाशच्छायास्याधिकतरदर्शनीयस्याकारान्तरस्य
सिद्धिरासीत् । अद्य सकलनास्तिकानां जायेत लज्जानतं शिरः। तदि-
दानीं चन्द्रशेखरनरकशासनसरसिजासनादीनां त्रिदशानां स्थानान्या-
दररचितनृत्यगीताराधनानि क्रियन्ताम्। ह्रियन्तां च गृहादितः क्लेश-
निरसनसहान्यर्थिसार्थैर्धनानि' इति ।

परिवर्तनं जातं स्यादिति भयेन यन्त्रितानि सङ्कुचितानि अङ्गानि गात्राणि येषां
तान् । सन्निधिनिषादिनः सन्निधौ समीपे निषीदन्ति ये तान् पार्श्वचरानित्यर्थः ।
सहायान् सचिवादीन् । अगादिषम् अवोचम् । शक्तिः प्रभावः । आर्षी ऋषि-
सम्बन्धिनी । यत्तस्येत्यादि—इन्द्रियाणां चक्षुरादीनां करणानां अजेयस्य जेतुम-
शक्यस्य तस्य पूर्वोक्तस्य यतेर्मुनेः नीरजसा रजोगुणरहितेन पवित्रेणेत्यर्थः
संस्कारेण मन्त्रानुष्ठानेन नीरजानां कमलानां सान्निध्येन सम्पर्केण शालते शोभते
एवं शीले—तथा सहर्षाः सानन्दा अलिनो भ्रमरा यत्र तथाभूते सरसि सरोवरे
सरसिजदलैः कमलदलैः सन्निकाशा तुल्या छाया कान्तिर्यस्य तादृशस्य तथा
अधिकतरदर्शनीयस्य परमरमणीयस्य आकारान्तरस्य अन्यशरीरस्य सिद्धिः
प्राप्तिरभूत् । ममेति शेषः । अद्य साम्प्रतम् सकलनास्तिकानां मन्त्रतन्त्रादिप्रभाव-
मस्वीकुर्वताम् पाषण्डानामित्यर्थः । जायेत भवेत् । तत् तस्मात् । चन्द्रशेखरो
महेश्वरः, नरकशासनो विष्णुः सरसिजासनो ब्रह्मा तदादीनां त्रिदशानां देवा-
नाम् । स्थानानि मन्दिराणि । आदरेति—आदरेण श्रद्धया भक्त्या वा रचितमनु-
ष्ठितं नृत्यगीताभ्यां आराधनं पूजनं येषु तानि । ह्रियन्तां नीयन्ताम् । गृहात् इतः
अस्माद् राजसदनात् । क्लेशनिरसनसहानि-दारिद्र्यदुःखनाशसमर्थानि धनानि ।
अर्थिसार्थैः याचकसमूहैः । दरिद्रा आगत्य यथेष्टं स्वाभिलषितं धनं गृह्णन्त्विति भावः ।

करनेवाले, पार्श्वचरो और सहायकोंसे मैंने कहा—ऋषियोंकी शक्ति देखिये । इन्द्रियोंसे
अजेय उस तपस्वीके पवित्र (रजोगुण रहित) संस्कारद्वारा उस तालाबमें, मैंने कमल-
दलतुल्य क्या उससे भी अधिक दर्शनीय देह प्राप्त की । जिस तालाबमें कमलोंके
समीप रहनेवाले प्रमुदित भौंरे कमल पर शोभा पा रहे हैं। (अपूर्व सिद्धि प्राप्त
की । आज सभी नास्तिकोंका (आर्यधर्मविहीनोंका) शिर लज्जासे झुक गया है।
अतः सम्प्रति सभी, महादेव, विष्णु, ब्रह्मा तथा अन्य देवताओंके मन्दिरोंमें श्रद्धाके
साथ नाच-गाना एवं पूजा-अर्चा होवे । दारिद्र्यके दुःखको नाश करनेवाली लक्ष्मी
(धन, वस्त्र आदि) याचक जनोंको इस राजप्रासादसे दिये जायें ।

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

४०८ दशकुमारचरितम् । [ उत्तरपीठिकायां

पृष्ठ 408
स्थायी लिंक
पृष्ठ 408 स्कैन

४०८ दशकुमारचरितम् । [ उत्तरपीठिकायां
( २० ) आश्चर्यरसातिरेकहृष्टदृष्टयस्ते 'जय जगदीश, स्वतेजसाति-
शय्य दश दिशः स्थगयन्निजेन यशसादिराजयशांसि' इत्यसकृदाशास्या
रचयन्यथादिष्टाः क्रियाः। स चाहं दयितायाः सखीं हृदयस्थानीयां
शशाङ्कसेनां कन्यकां कदाचित्कार्यान्तरागतां रहस्याचक्षिषि - 'कच्चिदयं
जनः कदाचिदासीद् दृष्टः' इति ।
(२१) अथ सा हर्षकाष्ठां गतेन हृदयेनेषदालक्ष्य दशनदीधितिलतां
लीलालसं लासयन्ती, ललिताञ्चितकरशाखान्तरितदन्तच्छदकिसलया,
(२०) आश्चर्यति-आश्चर्यरसस्य विस्मयस्य अतिरेकेण आधिक्येन हृष्टा
प्रसन्ना दृष्टिर्येषां ते तादृशाः । ते सचिवादयः । स्वतेजसा निजप्रतापेन दशदिशः
अतिशय्य अतिक्रम्य निजेन यशसा कीर्त्या आदिराजयशांसि पूर्वनृपतिकीर्तीः
स्थगयन् आच्छादयन् जय सर्वोत्कर्षेण वर्त्तस्वेति असकृत्पुनःपुनः आशास्य
आशीर्भिरभिनन्द्य यथादिष्टाः राजाज्ञानुसारेण क्रियाः देवताराधनादिकाः अर-
चयन् अन्वतिष्ठन् । स च अहं-नृपरूपेण परिणतो मन्त्रगुप्त इत्यर्थः । दयितायाः
प्रियायाः। हृदयस्थानीयां स्वहृदयतुल्यामन्तरङ्गभूताम् । कार्यान्तरागतां-अन्य-
कार्यव्यपदेशेनागताम् । रहसि निर्जने । आचक्षिषि अकथयम् । अयञ्जनः-मज्ज-
णः । कदाचित् कस्मिन्नपि समये । दृष्टः आसीत् त्वयेति शेषः कच्चित्-किम् ।
(२१) अथ प्रश्नानन्तरम् । सा शशाङ्कसेना । हर्षकाष्ठां हर्षातिशयम् ।
गतेन प्राप्तेन हृदयेनोपलक्षिता । ईषदल्पं आलक्ष्या दृश्या दशनदीधितिरेव
दन्तकिरणा एव लता वल्ली तां लीलालसं विलासमन्दं यथा तथा लासयन्ती
नर्त्तयन्ती प्रक्षिपन्तीति यावत् । तथा ललितेति-ललितं सुन्दरं यथा तथा
(२०) विस्मयकी अधिकतासे प्रफुल्लित दृष्टिवाले उन याचकगण तथा मन्त्रिगणने
'जय जगदीश' एवं 'अपने प्रतापसे दश दिशाओंको परिव्याप्त करके तथा अपने
यशसे पूर्ववर्त्ती राजाओंकी कीर्तिको जिन्होंने आच्छादित कर लिया है' ऐसे-ऐसे
प्रशंसनीय वाक्य तथा आशीर्वचनको बार-बार कहकर, राजाद्वारा आदेशित पूजा-अर्चा
समाप्त की। तदनन्तर किसी समय मेरे समीप किसी कार्यवश आयी हुई अपनी प्यारीकी
सखी जो उसकी अन्तरंगिणी थी जिसका नाम शशांकसेना था, उस शशांकसेनासे
मैंने (मन्त्रगुप्तने) एकान्तमें कहा-'क्या इस पुरुष को (मुझे) कभी पहिले देखा था ?'
(२१) प्रश्नके बाद उस शशांकसेनाने आनन्दकी परम सीमा से युक्त चित्तसे
कुछ देर देखकर, दन्तरूपी लताको विलासमें नर्त्तन कराकर, सुन्दर और संकुचित
हाथकी अंगुलीसे अपने अधर पल्लवको ढककर, हर्षसे उत्पन्न जो आँसू उससे आक्लिन्न
एवं कज्जल रहित नेत्रोंसे बद्धाञ्जलि होकर कहा- 'मैं आपको भली-भाँति पहचानती
हूँ, यदि यह दृश्य (आपकी छवि) कोई कपटसे नहीं रचा हुआ है तो यह कैसे

पृष्ठ 409
स्थायी लिंक
पृष्ठ 409 स्कैन

हर्षजलक्लेदजर्जरनिरञ्जनेक्षणा रचिताञ्जलिः नितरां जाने यदि न स्यादै-
न्द्रजालिकस्य जालं किञ्चिदेतादृशम् । कथं चैतत् कथय । इति स्नेहनि-
र्यन्त्रणं शनैरगादीत् । अहं चास्यै कात्स्न्ये॑नाख्याय तदाननसङ्क्रान्तेन
सन्देशेन सञ्जनय्य सहचर्या निरतिशयं हृदयाह्लादं ततश्चैतया दयितया
निरर्गलीकृत। तिसत्कृतकलिङ्गनाथन्यायदत्तया सङ्गत्यान्ध्रकलिङ्गराजराज्य-
शासी तस्यास्यारिणा लिलङ्घयिषितस्याङ्गराजस्य साहाय्यकायालघीयसा
साधनेनागत्यात्र ते सखिजनसङ्गतस्य यादृच्छिकदर्शनानन्दराशिलङ्घित-
अन्वितया संकुचितया करशाखया कराङ्गुल्या अन्तरितौ पिहितौ दन्तच्छदौ
ओष्ठाधरावेव किसलयौ यथा तादृशी, तथा-हर्षेति-हर्षजलक्लेदेन आनन्दाश्रु-
निर्गमेण जर्जरे क्लान्ते अतएव निरञ्जने कज्जलरहिते ईक्षणे नयने यस्याः सा ।
नितरां-अतिशयेन । जाने-त्वां जानामि । ऐन्द्रजालिकस्य मायाविनः । जालं-
कपटम् एतादृशं एवम्भूतम् । यद्येषा ऐन्द्रजालिकमाया न स्यात्तदा त्वां सर्वथा
परिचिनोमीत्यर्थः । कथं चैतत् कथय-कथमेवं सम्भावितमभूत् तत् कथयेत्यर्थः ।
स्नेहनिर्यन्त्रणं-स्नेहेन प्रेम्णा निर्यन्त्रणं निर्बाधम् । अस्यै शशाङ्कसेनायै ।
कात्स्न्र्येन-साकल्येन । तदाननसंक्रान्तेन-शशाङ्कसेनामुखद्वारा कथितेन ।
संजनय्य-उत्पाद्य । सहचर्याः कनकलेखायाः । एतया पूर्वोक्तया कनकलेखया ।
कीदृश्या इत्याह-निरर्गलीति-निरर्गलीकृतेन बन्धनान्मोचितेन ततः सत्कृतेन
पूजितेन कलिङ्गनाथेन कर्दनाख्येन न्यायेन विधिपूर्वकं दत्तया अर्पितया कृत-
विवाहयेत्यर्थः । संगत्य संगं प्राप्य । आन्ध्रेति-आन्ध्रकलिङ्गराजयोः आन्ध्रराजस्य
कलिङ्गराजस्य च राज्यं शास्तीति तच्छासी अहमिति शेषः । तस्येत्यादि-तस्य
पूर्ववर्णितस्यास्य अङ्गराजस्य सिंहवर्मणः अरिणा, शत्रुना चण्डवर्माख्येन लिल-
घयिपितस्य आक्रमितुमिष्टस्य । साहाय्यकाय-साहाय्यं कर्तुम् । अलघायसा
विपुलेन । साधनेन सैन्येन । अत्र अस्मिन् अङ्गदेशे । सखिजनसंगतस्य मित्र-
वर्गपरिवृतस्य । ते तव राजवाहनस्येत्यर्थः । यादृच्छिकेति-यादृच्छिकं दैवसंयो-
गाजातं यद्दर्शनं ते तव आनन्दराशिस्तेन लङ्घितमाक्रान्तं चेतो यस्य सः ।
इत्यन्तं मन्त्रगुप्तस्य वचनम् ।
हुआ, कहिये।' स्नेहसं बाधित हुई उसने मुझसे धीरेसे उपर्युक्त बात पूछी। तब मैंने
अपनी सभा कृतियां उससे निवेदित कर दीं। फिर उसी शशांकसेनाके मुखसे अपना
समां कृतियां, जो मेरी प्यारीको आनन्ददायिका थीं, अपनी प्यारीके समीप कहला
भेजी तत्पश्चात् अति आदरपूर्वक प्रतिबन्ध रहित यथाविधि कलिङ्गराज की पुत्रीको
स्वीकार किया और आन्ध्र तथा कलिङ्गराज भी प्राप्त किया। ततः आन्ध्र और
कलिङ्ग देशपर शासन करते हुए इस शत्रु को जीतनेकी अभिलाषासे और अङ्गराजको

४१० दशकुमारचरितम् । [ उत्तरपीठिकायां

पृष्ठ 410 स्कैन

४१० दशकुमारचरितम् । [ उत्तरपीठिकायां
चेता जात इति । तस्य तत्कौशलं स्मितज्योत्स्नाभिषिक्तदन्तच्छदः सह
सुहृद्भिरभिनन्द्यचित्रमिदं महामुनेर्वृत्तम् । अत्रैव खलु फलितमतिकष्टं
तपः । तिष्ठतु तावन्नर्म । हर्षप्रकर्षस्पृशोः प्रज्ञासत्त्वयोर्दृष्टमिह स्वरूपम् ।
इत्याभिधाय पुनः अवतरतु भवान् इति बहुश्रुते विश्रुते विकचराजीवसदृशं
दृशं चिक्षेप देवो राजवाहनः ।
इति मन्त्रगुप्तचरितं नाम सप्तम उच्छ्वासः ।
(२२) तस्य मन्त्रगुप्तस्य । तत्

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 411 स्कैन

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
॥ श्रीः ॥
दशकुमारचरितम्
अष्टमोच्छ्वासः
( १ ) अथ सोऽप्याचचक्षे—'देव, मयापि परिभ्रमता विन्ध्याटव्यां
कोऽपि कुमारः क्षुधा तृषा च क्लिश्यन्नक्लेशाहैः क्वचित्कूपाभ्याशेऽष्टवर्षदे-
शीयो दृष्टः । स च त्रासगद्गदमगदत्—'महाभाग, क्लिष्टस्य मे क्रियता-
मार्य, साहाय्यकम् । अस्य मे प्राणापहारिणीं पिपासां

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें

४१२ दशकुमारचरितम् । [ उत्तरपीठिकायां

पृष्ठ 412 स्कैन

[Top Header: CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF]

४१२ दशकुमारचरितम् । [ उत्तरपीठिकायां

नालीमुखोद्घृताभिरद्भिः फलैश्च पञ्चषैः शरक्षेपोच्छ्रितस्य लकुचवृक्षस्य
शिखरात्पाषाणपातितैः प्रत्यानीतप्राणवृत्तिमापाद्य, तरुतलनिषण्णस्तं
जरन्तमब्रवम्-'तात, क एष बालः, को वा भवान्, कथं चेयमापदापन्ना'
इति ।
( ३ ) सोऽश्रुगद्गदमगदत्-'श्रूयतां महाभाग ! विदर्भो नाम जन-
पदः तस्मिन्भोजवंशभूषणम्, अंशावतार इव धर्मस्य, अतिसत्त्वः,
सत्यवादी, वदान्यः,

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 413 स्कैन

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
अष्टमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ४१३
कल्पारम्भी, संभावयिता बुधान्, प्रभावयिता सेवकान्, उद्भावयिता
बन्धून्, न्यग्भावयिता शत्रून्, असंबद्धप्रलापेष्वदत्तकर्णः, कदाचिदप्य-
वितृष्णो गुणेषु, अतिनदीष्णः कलासु, नेदिष्ठो धर्मार्थसंहितासु, स्वल्पेऽपि
सुकृते सुतरां प्रत्युपकर्ता, प्रत्यवेक्षिता कोशवाहनयोः, यत्नेन परीक्षिता
सर्वाध्यक्षाणाम्, उत्साहयिता कृतकर्मणामनुरूपैर्दानमानैः, सद्यः प्रतिकर्ता

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें

४१४ दशकुमारचरितम् । [ उत्तरपीठिकायां

पृष्ठ 414 स्कैन

४१४ दशकुमारचरितम् । [ उत्तरपीठिकायां
गण्यतामरेषु । तदनन्तरमनन्तवर्मा नाम तदायतिरवनिमध्येतिष्ठत् । स
सर्वगुणैः समृद्धोऽपि दैवादण्डनीत्यां नात्यादृतोऽभूत् । तमेकदा रहसि
वसुरक्षितो नाम मन्त्रिवृद्धः पितुरस्य बहुमतः प्रगल्भवागभाषत ।
( ५ ) 'तात, सर्वैवात्मसंपदभिजातप्रभृत्यन्यूनैवात्रभवति लक्ष्यते ।
बुद्धिश्च निसर्गपट्वी, कलासु नृत्यगीतादिषु चित्रेषु च काव्यविस्तरेषु
प्राप्तविस्तरा तवेतरेभ्यः प्रतिविशिष्यते ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 415 स्कैन

हि भूभृदत्युच्छ्रितोऽपि परैरध्यारुह्यमाणमात्मानं न चेतयते । न च शक्तः
साध्यं साधनं वा विभज्य वर्तितुम् । अयथावृत्तश्च कर्मसु प्रतिहन्यमानः स्वैः
परैश्च परिभूयते न चावज्ञातस्याज्ञा प्रभवति प्रजानां योगक्षेमाराधनाय ।
अतिक्रान्तशासनाश्च प्रजा यत्किंचनवादिन्यो यथाकथंचिद्वर्त्तिन्यः सर्वाः
स्थितीः संकिरेयुः । निर्मर्यादश्च लोको लोकादितोऽमुतश्च स्वामिनमात्मानं
च भ्रंशयते । आगमदीपदृष्टेन खल्वध्वना सुखेन वर्तते लोकयात्रा । दिव्यं
हि चक्षुर्भूतभवद्भविष्यत्सु

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें

४१६ दशकुमारचरितम् । [ उत्तरपीठिकायां

पृष्ठ 416 स्कैन

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
४१६ दशकुमारचरितम् । [ उत्तरपीठिकायां
र्थदर्शनेष्वसामर्थ्यात् । अतो विहाय बाह्यविद्यास्वभिषङ्गमगमय
दण्डनीतिं कुलविद्यां तदर्थानुष्ठानेन चावर्जितशक्तिसिद्धिरस्खलितशासनः
शाधि चिरमुदधिमेखलामुर्वीम्' इति ।
( ६ ) एतदाकर्ण्य 'स्थान एव गुरुभिरनुशिष्टम् । तथा क्रियते' इत्य-
न्तःपुरमविशत् । तां च वार्तां पार्थिवेन प्रसङ्गेनोदीरितामुपनिशम्य समी-
पोपविष्टश्चित्तानुवृत्तिकुशलः प्रसादवित्तो

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 417 स्कैन

अष्टमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ४१७
दुर्जयोपाध्यायः कामतन्त्रकर्णधारः कुमारसेवको विहारभद्रो नाम स्मित-
पूर्वं व्यज्ञापयत्—
(७) 'देव, दैवानुग्रहेण यदि कश्चिद्भाजनं भवति विभूतेः, तमक-
स्मादुच्चावचैरुपप्रलोभनैः कदर्धयन्तः स्वार्थं साधयन्ति धूर्ताः। तथाहि-
केचित्प्रेत्य किल लभ्यैरभ्युदयातिशयैराशामुत्पाद्य, मुण्डयित्वा शिरः,
बद्ध्वा दर्भरज्जुभिः, अजिनेनाच्छाद्य, नवनीतेनोपलिप्य, अनशनं च
शयित्वा सर्वस्वं स्वीकरिष्यन्ति ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें

४१८ दशकुमारचरितम्। [ उत्तरपीठिकायां

पृष्ठ 418 स्कैन

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
४१८ दशकुमारचरितम्। [ उत्तरपीठिकायां
शरीरजीवितान्यपि मोचयन्ति । यदि कश्चित्पटुजातीयो नास्यै मृगतृ-
ष्णिकायै हस्तगतं त्यक्तुमिच्छेत् तमन्ये परिवार्याहुः - एकामपि काकिणीं
कार्षापणलक्षमापादयेम, शस्त्रादृते सर्वशत्रून्घातयेम, एकशरीरिणमपि
मर्त्यं चक्रवर्तिनं विदधीमहि यद्यस्मद्दिष्टेन मार्गेणाचर्यते' इति ।
( ८ ) स पुनरिमान्प्रत्याह - 'कोऽसौ मार्गः' इति । पुनरिमे ब्रुवते-
'ननु चतस्रो राजविद्यास्त्रयी

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 419 स्कैन

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF

अष्टमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ४१६

(६) स 'तथा' इत्यधीते । शृणोति च । तत्रैव जरां गच्छति । तत्तु
किल शास्त्रं शास्त्रान्तरानुबन्धि । सर्वमेव वाङ्मयमविदित्वा न तत्त्वतोऽ-
धिगंस्यते । भवतु, कालेन बहुनाल्पेन वा तदर्थाधिगतिः । अधिगतशास्त्रेण
चादावेव पुत्रदारमपि न

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें

४२० दशकुमारचरितम् । [ उत्तरपीठिकायां

पृष्ठ 420 स्कैन

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
४२० दशकुमारचरितम् । [ उत्तरपीठिकायां
मुष्टिमर्घमुष्टिं वाभ्यन्तरीकृत्य कृत्स्नमायव्ययजातमह्नः प्रथमेऽष्टमे वा
भागे श्रोतव्यम् । शृण्वत एवास्य द्विगुणमपहरन्ति तेऽध्यक्षधूर्ता-
श्चत्वारिंशतं चाणक्योपदिष्टानाहरणोपायान्सहस्रधात्मबुद्धयैव ते विक-
ल्पयितारः ।
( १० ) द्वितीयेऽन्योन्यं विवदमानानां जनानामाक्रोशाद्दह्यमानकर्णः
कष्टं जीवति । तत्रापि प्राङ्क्षिवाकादयः स्वेच्छया जयपराजयौ

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 421 स्कैन

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
अष्टमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ४२१

चतुर्थे हिरण्यप्रतिग्रहाय हस्तं प्रसारयन्नेवोत्तिष्ठति । पञ्चमे मन्त्रचिन्तया
महान्तमायागमनुभवति । तत्रापि मन्त्रिणो मध्यस्था इवान्योन्यं संभूय,
दोषगुणौ दूतचारवाक्यानि शक्याशक्यतं देशकालकार्यावस्थाश्च स्वेच्छ-
या विपरिवर्तयन्तः, स्वपरमित्रमण्डलान्युपजीवन्ति । बाह्याभ्यन्तरांश्च को-
पान् गूढमुत्पाद्य प्रकाशं प्रशमयन्त इव स्वामिनमवशमवगृह्णन्ति ।
(११) षष्ठे

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें